Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S04

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

चतुर्थः पादः

प्रास्ताविकम्

ज्ञानसामर्थ्यमस्मिन् पाद उच्यते –


पुरुषार्थाधिकरणम्

ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ 01-434 ॥


यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते ।



ॐ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ 02-435 ॥


अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन ।


‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इतिवदति जैमिनिः ॥ 02 ॥


ॐ आचारदर्शनात् ॐ ॥ 03-436 ॥


ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ 03 ॥


ॐ तच्छ्रुतेः ॐ ॥ 04-437 ॥


‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’


इति शेषत्वश्रुतेः ॥ 04 ॥


ॐ समन्वारम्भणात् ॐ ॥ 05-438 ॥



संशब्द प्राधान्यं दर्शयति ॥ 05 ॥


ॐ तद्वतो विधानात् ॐ ॥ 06-439 ॥


‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत्’ इति कमठश्रुतौ ज्ञानतोऽपि विधानात् ॥ 06 ॥


ॐ नियमाच्च ॐ ॥ 07-440 ॥


‘कुर्वन्नेवेह कर्माणि जीजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति ॥ 07 ॥


ॐ अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ 08-441॥



युधिष्ठिरादीनां राजसूयादिना फलाधिक्य दर्शनाच्चेति बादरायण मतम् ॥ 08 ॥


ॐ तुल्यम् तु दर्शनम् ॐ ॥ 09-442 ॥


राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् ।


‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् । स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥


स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥


अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।

इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥

यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ।


यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावदिस्तथा । प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥


स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् । अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥




अधिकाराधिकरणम् (असार्वत्रिकाधिकरणम्)

सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारतेत्यत आह –


ॐ असार्वत्रिकी ॐ ॥ 10-443 ॥


न सर्वेषामधिकारः ॥ 10 ॥


ॐ विभागः शतवत् ॐ ॥ 11-444 ॥


‘नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु । सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥


यथा तथैवा सङ्ख्येयाः प्रजास्तासु कियान् जनः । ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’


इति वचनात् सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥ 11 ॥


ॐ अध्ययनमात्रवतः ॐ ॥ 12-445 ॥


कस्याधिकारः?

‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।

गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥


न च वर्णावरस्यापि तस्मादध्ययनान्वितः । ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ इति ब्रह्मतर्के ॥


‘पठेद्वेदानथार्थानधीयीताथ विचार्यः ब्रह्म विन्देत्’ इति च कौषारवश्रुतिः ॥ 12 ॥


अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्)

ॐ नाविशेषात् ॐ ॥ 13-446 ॥


न सामान्येनाधिकारो देवादीनाम् ।



कामचाराधिकरणम् (स्तुत्यधिकरणम्)

ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ 14-447 ॥


‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एव’ इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह-


न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ॥ 14 ॥


ॐ कामकारेण चैके ॐ ॥ 15-448 ॥


‘कामाचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्ति ॥ 15 ॥


ॐ उपमर्दं च ॐ ॥ 16-449 ॥


‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ॥ 16 ॥


ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ 17-450 ॥


न तावता कामचाराणां ज्ञानेऽधिकारः ।



ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ 18-451 ॥


‘प्रातरुत्थायाथ सन्ध्यामुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेऽथ देवान् नमेज्जुहुयाद् वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न सुरां पिबेन्न पलाण्डुं भक्षयीत न भृषं वेदेन्न विस्मरेतात्मानं सोमं पिबेद्दुतशेषेण वर्तयेत्’


इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिर्मन्यते ।


न च निषिद्धं कर्म कर्तव्येमेवेति चोदना । ‘ब्राह्मणो न हन्तव्यः’ इत्याद्यपवादश्च ॥ 18 ॥


ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ 19-452 ॥


अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरेति बादरायणो मन्यते । ‘केन स्याद्येन स्यात् तेनेदृश एव’ इति साम्यश्रुतेः ।



ॐ विधिर्वा धारणवत् ॐ ॥ 20-453 ॥


‘केन स्याद्येन स्यात्’ इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राधर्मशङ्का कार्या । नान्येषामिति वा ।



ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ 21-454 ॥


स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामान्यविधिस्वीकारादिति चेन्न । अपूर्वत्वात् परवशत्वात् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ।



ॐ भावशब्दाच्च ॐ ॥ 22-455 ॥


‘यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविद्यतिदूरता’ इति च तुरश्रुतौ ॥ 22 ॥


ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ 23-456 ॥


‘केन स्याद्येन स्यात्’ इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेन्न ।



ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ 24-457 ॥


एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च सम्बन्धो भवति ॥ 24 ॥


ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ 25-458 ॥


अत एव ज्ञानस्य मोक्षादेन नाग्निहोत्राद्यपेक्षा ।


ब्रह्मतर्के च –


‘येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः । शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥


स्वेच्छानुवृत्यैव भवेद् ब्रह्मणः प्रायशस्तथा । देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’ इति ॥ 25 ॥


ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥ 26-459 ॥


सर्वधर्मापेक्षा च ज्ञानस्येत्पत्तौ ।


‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेः ।


यथा गतिनिष्पत्यर्थमश्वादयोऽपेक्ष्यन्ते न विनिष्पन्नगतेर्ग्रामादिप्राप्तौ ॥ 26 ॥


ॐ शमदमाद्युपेतः स्यात् तथाऽपितु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ 27-460 ॥


यद्यपि ज्ञानेनैव मोक्षो नियतस्तथाऽपि ज्ञानी शमदमाद्युपेतः स्यात्।’आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेद्दान्तो भवेदनुकोलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः ।


‘ब्राह्मीं वाव त उपनिषदब्रूम’ इति । तस्यैतपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामुपनिषदमेवं वेद’ इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।



तुशब्दः पूर्णफलार्थत्वं सूचयति ॥ 27 ॥


ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ 28-461 ॥


‘यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति’ इति सर्वान्नानुमतिः प्राणात्ययविषया ।


‘न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानम्’इति दर्शनात् ॥ 28 ॥


ॐ अबाधाच्च ॐ ॥ 29-462 ॥



ॐ अपि स्मर्यते ॐ ॥ 30-463 ॥



ॐ शब्दश्चातोऽकामचारे ॐ॥ 31-464 ॥


‘स य एतदेवंविदेवं मन्वान एवं पश्यन् न कामचरितं चरेन्न कामं भक्षयीत न कामामनुवर्तेत’ इति कौण्डन्यश्रुतौ ।


अत इत्यल्पफलत्वं सूचयति ।


‘न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ॥ 31 ॥


ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ 32-465 ॥


न केवलं निषिद्दाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ॥


‘पश्यन्नपीममात्मानं कुर्यात् कर्मविचारयन्।

यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’

इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ 32 ॥


ॐ सहकारित्वेन च ॐ ॥ 33-466 ॥


‘यथा राज्ञः सहकार्येव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् । एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’


इति कमठश्रुतौ सहकारित्वोक्तेश्च ।





उभयलिङ्गाधिकरणम्

ॐ सर्वथाऽपितु त एवोभयलिङ्गात् ॐ ॥ 34-467 ॥


सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये ।

‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’

इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यज्ज्ञानमित्युभयविधलिङ्गात् ॥ 34 ॥


ॐ अनभिभवं च दर्शयति ॐ ॥ 35-468 ॥


‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥


ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ 36-469 ॥


सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥


ॐ अपि स्मर्यते ॐ ॥ 37-470 ॥



ॐ विशेषानुग्रहं च ॐ ॥ 38-471 ॥


शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’


इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य।



ॐ अतस्त्वितरज्ज्यायोलिङ्गाच्च ॐ ॥ 39-472 ॥


देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् ।


चशब्दात् ‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च ।


‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥


ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥ 40-473 ॥


असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव।


‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’ इति नियमश्रुतेः ।


‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः ।


‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह परूभभूवुः’ इति देवासुराणां भावाभावश्रुतेश्च ।


देवानां भूतिरित्येव मनो विष्णौ स्वभावतः । असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥



अधिकारिकाधिकरणम्

ॐ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॐ ॥ 41-474 ॥


न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम्, ब्रह्मादीनामपु नाकाङ्क्षयं, किमुपरस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थीनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोगस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते ।



‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’


इत्याद्यनुमानरूपवाक्याच्च ।।



ॐ उपपूर्वमपीत्येके भावशमनवत् तदुक्तम् ॐ ॥ 42-475 ॥


उपदेवपदं च नाकाङ्क्ष्यमित्येके । भावशमनवदृष्टिपदवदेव ।। तच्चोक्तमिन्द्रद्युम्नश्रुतौ –


‘अथ यथर्षीन् प्रजापतीन् नाकाङ्क्षेदेवं न गन्धर्वान् न विद्याधरान् न सिद्धान्’ इति।


बृहत्संहितायां च –


‘न दैवानभिकाङ्क्षेत कुत एव हरेर्गुणान् ।

प्राजापत्यान् न चार्षां गान्धर्वादीनपि क्वचित् ॥

ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः’

इति विशेषदर्शनार्थमेक इत्युक्तम् ॥ 42 ॥


ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ ॥ 43-476 ॥


देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् ।



‘नानात्वमेव कामानां नाकामः क्व च दृश्यते ।


अतोऽविरुद्धकामः स्यादकामस्तेन भण्यते’ इत्याचाराच्च ॥ 43 ॥


फलश्रुत्यधिकरणम्

ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ 44-477 ॥


‘ब्रह्मविदाप्नोति परम्’ इत्यादि फलं स्वामिनां देवानामेव भवति ।


‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’


इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ 44 ॥


ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ 45-478 ॥


सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तधर्थं देवैः क्रियमाणत्वात् ॥ 45 ॥


ॐ सहकार्यन्तरविधिःपक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥ 49-479 ॥


तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यान्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथावाऽऽचार्यस्य शिष्याः । वाराहे च –


‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् । वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥


विहितः सहकारित्वे सहकार्यान्तरं प्रजाः । पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥


तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् । ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ इति ॥ 46 ॥


कृत्स्नभावाधिकरणम्

ॐ कृत्स्नभावात् तु गृहिणोपसंहारः ॐ ॥ 47-480 ॥


‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’ इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’ इति गृहिणोपसंहारः क्रियते । तस्माद्गृहस्तस्यैवोत्तवत्वमिति न वाच्यम् ।


यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते ।


‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना एते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति स चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ॥ 47 ॥


ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ 48-481 ॥


न चाश्रमद्वयमेव देवानाम् ।


‘देवाएव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ॥ 48 ॥


अनाविष्काराधिकरणम्

ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ 49-482 ॥


‘एतां विद्यामदीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवति’ इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्ते । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च विषिद्धम् –


‘मा नः स्तेनेभ्यो यो अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः। येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित् ॥


अथोशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः । आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति ।


विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवदिस्टेऽहमस्मि । अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥ 49 ॥


ऐहिकाधिकरणम्

ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ 50-483 ॥


‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’ इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्दप्रतिबन्धाभावे ।


‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्येहैव दृष्टिं परमस्य विन्देत् । यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’


इति सौपर्णश्रुतौ दर्शनात् ।


‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् । यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥


यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि । इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥



मुक्तिफलाधिकरणम्

ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ 51-484 ॥


एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः ।


‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थोऽमृतम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।


‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥


न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति च नारायणाध्यात्मे ॥ 51 ॥