Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S01/A001

From Grantha
Revision as of 10:11, 2 March 2026 by Chandrashekars (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

तदन्तराधिकरणम्

ॐ तदन्तरप्रतिपत्तौरंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ 01-295 ॥


शरीरान्तरप्रतिपत्तौ भूतसम्परिष्वक्त एव गच्छति ।


‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रश्नपरिहाराभ्याम् ॥ 01 ॥