ब्रह्मसूत्रभाष्यम्/C03/S01/A001
Appearance
तदन्तराधिकरणम्
ॐ तदन्तरप्रतिपत्तौरंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ 01-295 ॥
शरीरान्तरप्रतिपत्तौ भूतसम्परिष्वक्त एव गच्छति ।
‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’
‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रश्नपरिहाराभ्याम् ॥ 01 ॥