Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S04/A046

From Grantha
Revision as of 10:10, 2 March 2026 by Chandrashekars (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

सप्तगत्यधिकरणम्

‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः।


ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥


ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्।


‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ ।


इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥


ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥


हस्तादीनां कर्मविषयत्वान्न सहपाठः।