ब्रह्मसूत्रभाष्यम्/C02/S04/A046
Appearance
सप्तगत्यधिकरणम्
‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः।
ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्।
‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः ।
एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ ।
इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥
ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥
हस्तादीनां कर्मविषयत्वान्न सहपाठः।
इति वायुप्रोक्ते ॥ 07 ॥‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः ।
तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते’