ब्रह्मसूत्रभाष्यम्/C02/S01/A006
Appearance
आरम्भणाधिकरणम्
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ 15-150 ॥
स्वतन्त्र बहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः ।
‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसीत्’ इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।
‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्ष्यते ।
साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ॥ 15 ॥
ॐ भावे चोपलब्देः ॐ ॥ 16-151 ॥
स्वतन्त्रसाधनभावे प्रमाण्यैरुपलभ्येत ।
इति स्कान्दे ॥ 16 ॥‘अनुक्तं पञ्चभिर्वैदैर्न वस्त्वस्तिकुतश्चन ।
अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः’
‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च’ इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह ।
ॐ सत्वाच्चावरस्य ॐ ॥ 17-152 ॥
अवरस्य तदधीनस्य साधनस्य सत्त्वात् ।
‘काल आसीत् पुरुष आसीत् परम आसीत् तद्यदासीत् तदावृतमासीत् ततधीनमासीदथ ह्येक एव परम आसीद्यस्यैतदासीन्न ह्येतदासीत्’ इति हि काषायणश्रुतिः ॥ 17 ॥
ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ 18-153॥
‘नासदासीन्नो सदासीत्’ इति सर्वस्यासत्त्वव्यपदेशान्नेति चेन्न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।’तम आसीत्’ इति वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति ।
‘अजे ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’।
‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति ।
न चान्यथा क्वाऽपि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्’॥
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’।
‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुःपरां हि’
‘यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’।
‘अथैनमाहुः सत्यकर्मेति, सत्यं ह्येवेदं विश्वमसौ सृजते। अथैनमार्हुनित्यकर्मेति नित्यं ह्येवासौ कुरुते’।
‘यच्चिकेत सत्यमित् तन्न मोघम्’ इत्यादि श्रुतिस्मृतिभ्यः ।
‘परस्परविरोधे तु वाक्यानां यत्र युक्तता।
तथैवार्थ परिज्ञेयो नावाक्या युक्तिरिष्यते’
इति बृहत्संहितायाम् ।
‘विरुद्धवत् प्रीतीयन्त आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ इति च ।
‘ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।
अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः’
इति भागवततन्त्रे ।
‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥
इति पुरुषोत्तमतन्त्रे॥ 18 ॥प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः’
ॐ युक्तेः शब्दान्तराच्च ॐ ॥ 19-154 ॥
‘साधनानां साधनत्वं यदात्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’
इत्यादेः साधनान्तरेण सृष्टिर्युक्ता ।
‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिशब्दान्तराच्च ॥ 19 ॥
ॐ पटवच्च ॐ ॥ 20-155 ॥
साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ 20 ॥
ॐ यथा प्राणादिः ॐ ॥ 21-156 ॥
तच्च साधनजातां तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादिः।