Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01/A006

From Grantha

आरम्भणाधिकरणम्

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ 15-150 ॥


स्वतन्त्र बहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः ।


‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसीत्’ इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।


‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्ष्यते । साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ॥ 15 ॥


ॐ भावे चोपलब्देः ॐ ॥ 16-151 ॥


स्वतन्त्रसाधनभावे प्रमाण्यैरुपलभ्येत ।



‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च’ इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह ।


ॐ सत्वाच्चावरस्य ॐ ॥ 17-152 ॥


अवरस्य तदधीनस्य साधनस्य सत्त्वात् ।


‘काल आसीत् पुरुष आसीत् परम आसीत् तद्यदासीत् तदावृतमासीत् ततधीनमासीदथ ह्येक एव परम आसीद्यस्यैतदासीन्न ह्येतदासीत्’ इति हि काषायणश्रुतिः ॥ 17 ॥


ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ 18-153॥


‘नासदासीन्नो सदासीत्’ इति सर्वस्यासत्त्वव्यपदेशान्नेति चेन्न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।’तम आसीत्’ इति वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति ।


‘अजे ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’। ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति ।


न चान्यथा क्वाऽपि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्’॥


‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’।


‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुःपरां हि’


‘यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’।


‘अथैनमाहुः सत्यकर्मेति, सत्यं ह्येवेदं विश्वमसौ सृजते। अथैनमार्हुनित्यकर्मेति नित्यं ह्येवासौ कुरुते’।


‘यच्चिकेत सत्यमित् तन्न मोघम्’ इत्यादि श्रुतिस्मृतिभ्यः ।


‘परस्परविरोधे तु वाक्यानां यत्र युक्तता।

तथैवार्थ परिज्ञेयो नावाक्या युक्तिरिष्यते’

इति बृहत्संहितायाम् ।


‘विरुद्धवत् प्रीतीयन्त आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ इति च ।


‘ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।


प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥


वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।

अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः’

इति भागवततन्त्रे ।


‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् । मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥



ॐ युक्तेः शब्दान्तराच्च ॐ ॥ 19-154 ॥


‘साधनानां साधनत्वं यदात्माधीनमिष्यते ।

तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’

इत्यादेः साधनान्तरेण सृष्टिर्युक्ता ।


‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिशब्दान्तराच्च ॥ 19 ॥


ॐ पटवच्च ॐ ॥ 20-155 ॥


साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ 20 ॥


ॐ यथा प्राणादिः ॐ ॥ 21-156 ॥


तच्च साधनजातां तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादिः।