Jump to content

Aitareya/C2/S5: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
Line 1: Line 1:
== पञ्चमोऽध्यायः ==
#REDIRECT [[Aitareya#AIT_C02_S05]]
{{Adhyaya
| document_id  = AIT
| chapter_num  = 2
| title        = पञ्चमोऽध्यायः
}}{{VerseBlock
| verse_id      = AIT_C02_S05_V01
| document_id  = AIT
| chapter_id    = AIT_C02
| verse_type    = mantra
| verse_line1  = (अपक्रामन्तु गर्भिण्यः) ॐ पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतम् । आत्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति ॥
| verse_line2  = तदस्य प्रथमं जन्म । तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति । साऽस्यैतमात्मानमत्र गतं भावयति । सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भं बिभर्ति । सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति । स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येतेषां लोकानां सन्तत्या एवं सन्तता हीमे लोकाः ।
| commentary1  = aitareya
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V01
| id      = AIT_C02_S05_V01_B01
| text    =
अयं नारायणो देवः पुरुषे प्रथमं विशेत् ।
अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ॥
तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः ।
तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ॥
स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः ।
प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ॥
नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ ।
पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ॥
सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् ।
सम्भावनं कुमारस्य जानतः केशवे भवेत् ॥
तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः ।
पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ॥
स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् ।
अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
}}
 
{{VerseBlock
| verse_id      = AIT_C02_S05_V02
| document_id  = AIT
| chapter_id    = AIT_C02
| verse_type    = mantra
| verse_line1  = तदस्य द्वितीयं जन्म । सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति । स इतः प्रयन्नेव पुनर्जायते । तदस्य तृतीयं जन्म ॥
| verse_line2  = तदुक्तमृषिणा–
| verse_line3  = गर्भे नु सन्नन्वेषाममवेदमहं देवानां जनिमानि विश्वा ।
| verse_line4  = शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति ॥
| verse_line5  = गर्भ एवैतच्छयानो वामदेव एवमुवाच । स एवं विद्वानस्माच्छरीरभेदादूर्ध्वं उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् (यथास्थानं गर्भिण्यः) ॥ १ ॥
| commentary1  = aitareya
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_author-note
| text    =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके पञ्चमोऽध्यायः ॥
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि ।
एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ॥
पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः ।
पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ॥
अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् ।
सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ॥
नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् ।
यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥
भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम् ॥
इत्यैतरेयसंहितायाम् ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
नात्र जीवोत्पत्तिमात्रमुच्यते । न हि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति । ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं पश्वादिभिरपि । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा इत्युक्तार्थ उदाहृतमन्त्रे देवजन्मकथनाच्च । विष्णुर्हि परमो देवः । तेनैव सह सर्वेऽपि देवा जीवदेहजनने जायन्त इव । शरीरप्राप्तिरेव हि जन्मान्येषामपि । अयमेव विशेषो देवानां दुःखाभोगः । स्वातन्त्र्यं च विष्णोः ।
आत्मन्येवात्मानं बिभर्ति आत्मानमेव तद्भावयतीत्याद्यात्मशब्दश्च मुख्यतो विष्णावेव युज्यते । णकारो बलं षकारः प्राण आत्मेति विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दस्य । एतया द्वारा प्रापद्यतेति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च । जीवशरीरं परित्यज्यान्यत्रगमनमात्रं विष्णोरप्यस्तीति प्रैतीत्युक्तेऽप्यविरोधः । कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च ।
लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥
येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि ।
पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ॥
स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः ।
यत्तद्रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ॥
अद्यापि तद्देवलोके पूज्यते सर्वदैवतैः ॥ इत्यादि स्कान्दे ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥
इति च भागवते ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
प्रेतां यज्ञस्य शम्भुवेत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेऽपि प्रयुज्यते । एषामवेदमहमित्यत्रापि जीवभेद एवोक्तः । अन्यथा मम जनिमानीत्येवोच्येत । व्यर्थता चैषामित्यादिविशेषणानाम् । अवेदमित्यनेनैव स्वस्य सिद्धत्वादहमित्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः । तस्मादहं मनुरित्यादावप्यहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेवाभवमित्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
ओयत्वादहं विष्णुः स तु सर्वान्तरत्वतः ।
अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥
इति ब्रह्मवैवर्ते ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
न च मूढव्यवहार एव वेदनिर्णयाय भवति । किन्तु सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम् । तस्मात् सर्वजीवादिभ्योऽन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
न वेदेषु पदं ककिञ्चिद्वर्णो वा व्यर्थ इष्यते ।
यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥
इति शब्दनिर्णये ॥
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
शब्दा रेतोन्नमित्याद्या अपि तत्र गतं हरिम् ।
वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥
इति च ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
भावयति सम्भावयति । सोऽग्र एव सोऽग्र्यो विष्णुरेव । पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत्तस्यैव भवति । एवं भावयतामेवैष पन्था उरुगाय इत्याद्यपि । तं पश्यन्ति पशव इत्याद्यपि दिव्यपश्वादीनामेव । अन्येषां स्वभावप्रवृत्तिः । ता एव देवताः शतं पुर आयसीर्ज्ञानिन्यो विशेषतः । अय पय गताविति धातोः । मानुषानपेक्ष्य पूर्णत्वात् पुरः । विष्णुर्मुख्यत एव पूर्णः । न च शरीरैर्जीवो रक्षितः । मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः । शमस्य विद्यते इति शी विष्णुः । पूर्णानन्दत्वात् । स एव ज्ञानत्वाद्यश्चेति श्यः । सोऽस्य जीवस्येन इति श्येनः । विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । निरदीयं निष्क्रम्यातीतोऽस्मि गर्भवासम् ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
स्वर् आनन्दो विष्णुः । अत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति । अपेक्षितवस्तुस्वीकारः आप्तिः । सम्भवो भोगः । तां समभवत् ततो मनुष्या आजायन्तेत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगानामपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन् सर्वान् कामानाप्त्वेत्यर्थः ।
}}
 
{{Bhashyam
| verse_id = AIT_C02_S05_V02
| id      = AIT_C02_S05_V02_B01
| text    =
मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः । सर्वानपि निरातङ्कः सर्वदा च हरेर्वशः ॥ इति सत्तत्त्वे ॥
}}
 
 
[[Category:Aitareya]]

Latest revision as of 06:40, 13 April 2026