Aitareya
प्रथमारण्यके
द्वितीयारण्यके
प्रथमाध्यायः
तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥ तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ । दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥ शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् । सा बह्वृचैः प्रपठिता चतुराननास्याद्यस्यां रहस्यमुदितं परमं हि विष्णोः ॥ महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥
इति ऋक्संहितायाम् ।नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः ॥ ब्रह्मैव गुणपूर्णत्वात् सत्यं साधुस्वरूपतः । क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥ पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः ।
मुक्ता श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥
वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥ अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः । राक्षसा असुरा ईरपादा इति समीरिताः ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः । वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि ॥ ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् । पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ॥ देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः । आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ॥ अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् । आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ॥ अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः । कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा ॥ आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ । तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि ॥ आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः । मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ॥ वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् । संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥ पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च । आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः ॥
आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥ १ ॥
प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः ॥ अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात् । अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः ॥ पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च । अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥ पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः । अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥ वदनं नासिका नेत्रमित्येतानि परात्मनः । तृचाऽशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥ विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् । अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥ सोम एव ततश्चान्नमशीतय इतरितम् । अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥ मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् । अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥ श्येन एव तदाकारा चान्नरर्कपदोदिता । सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥ तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः । योऽसौ चान्नगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥ तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥ स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः । व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥ नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी । जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥ विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी । चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥ जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः । अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥ अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः । स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥ सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः । अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥ अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः । अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥ तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः । पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥ परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः । निहितश्चैव तल्लोको नासिकायां नतस्थले ॥ पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः । पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥ इतो गतं सर्वमत्ति द्युनामा भगवान् परः । भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥ एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः । आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा ॥ हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना ।
सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥ २ ॥
तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥ वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन् । ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥ सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः । प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥ विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् । कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥ कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः । आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥ इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् । इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥ हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः । आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥ उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः । एवं नारायणं जानन् सर्वलोकैककारणम् ॥
तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ॥ ३ ॥
वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥ यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् । तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥ चतुर्मुखाकारवतां नृणां पादतलोपरि । प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित्॥ अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च । स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥ ककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः । वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥ उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा । तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥ उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् । तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥ उरोमध्ये च हृदयं तत्रावासो हरेः सदा । सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥ उदरे ते परं ब्रह्म वासुदेवमुपासते । हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥ उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् । एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥ तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः । स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥ तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥ अहम्भावमनो रुद्रः शेषोऽसौ पाञ्चरात्रकम् । वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥ श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः । एते देवास्तदन्ये च सर्वप्राणिषु संस्थितः ॥
उपासते महाविष्णुं परमात्मानमच्युतम् ।
ते विष्णोराज्ञयाऽवोचन्नुत्क्रमाम पृथक् पृथक् । देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥ शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् । ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥ निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् । वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ ॥ उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः।
तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ॥
नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः ॥ वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥ उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः ॥ उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन् । भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा ॥ स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित्। इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् ।
वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥ ४ ॥
शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ॥ वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः । ये ये गुणान् विजानन्तिवायोस्तानाविशन् मरुत् ॥ तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह । प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः ॥ सङ्गतश्चाभवज्जीवचिति रूपान्तरेण सः । सङ्गतत्वात् सायमिति तद्रूपं नामतोऽभवत् ॥
वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।
यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः । मनो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥ श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम् । श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥ यम एव षडङ्गानां विषयश्रवणोचितम् । श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मन एव च ॥ श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः । विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि ॥ शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा । एतास्सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥ शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि । अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥ अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः । देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥ पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत् ।
तात्पर्यात् सर्ववेदैश्च ...
हिरण्यदन्नाम वैदो भूतेषु हि सुरानृते । मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥ विष्णुना प्रहितानां हि देवानामहमुत्तमम् । वेद संयोगमाध्यात्मं ततो मुक्तो यथेष्टभुक् ॥ स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च । मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा ॥ अधिदैवेन सहिता विष्णुना प्रभविष्णुना । एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥ विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा । वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम् ॥ एतादृशोपासनाया योग्यः सन् सततं सुधीः । स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि ॥ मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः । इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥ मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः ।
मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥
सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥ देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते । शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥ वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः । तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान् ॥ अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत । अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥ यमयेत्यदिति य उद्दिष्टो यमयेद् यत्प्रकाशनात् । देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥ शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः । एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात् ॥ योग्यस्तस्या उपासाया नैवासत्येन दुष्यति । देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ॥
मनुष्याणां ज्ञानमात्राद्दोषो नातितरां भवेत् ॥ ५ ॥
तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥ विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु । दाम तेनैव बध्नाति सकलं जगदच्युतः ॥ सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि । वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् ॥ य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः । ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ॥ तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः । बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ॥ योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः । भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ॥ मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः । स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित्क्वचित्॥ तथैव वायुना बद्धं जगदेतत् ततोऽवरम् ।
सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥
विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥ लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि । छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥ छन्दांसीत्येव तेषां हि य एवंविदुपासकः । निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः ॥ योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा ।
छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदम् ॥
एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥ छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः । वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः ॥ वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् । चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥ आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः । वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥ सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि । नन्ति यदा वसतः कोणदिक्ष्वथाऽसु विषूचिषु ॥
अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।
तद्ध्यसह्यं बलं वायोरनन्तं किमु तद्धरेः । वायोराधारभूतस्य ताभ्यां हि क्रतुनामकाः ॥ आवृताः सर्वजीवा हि यथैव कनकावटाः । आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः ॥ आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः । विष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च ॥ स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि । बृहत्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥ वायुकेशवयोः प्राणनाम सर्वप्रणायनात् । विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥
इति विद्यात् ... ॥ ६ ॥
उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥ शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः । ताः पचत्यग्निरुद्युक्तः आहृता आहृताः पुनः ॥ आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः । मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥ आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा । सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥ तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा । विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥ योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः । समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥ अनष्टलोको वसति समीपे केशवस्य च । योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥ योग्यास्ते वै मुख्यतया तदन्ये तत्र तौ स्थितौ । तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यथेच्छया ॥ कादाचित्कोपासने तु तावत्येषां च योग्यता । वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥ एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः । आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित्॥ तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति । स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक् ॥
तस्माद्योग्यस्योक्तफलमन्येषां किञ्चिदेव हि ।
ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः । ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥ वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः । प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोऽधिपः ॥ एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे । स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥ विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः । श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः ॥ तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि । वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥ भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः । तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम् ॥ अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये ।
भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥७ ॥
नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥ आप इत्येव नामैषां भवतीत्याह स प्रभुः । इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥ आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च । तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः ॥ पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत् । स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ॥ तन्नामाऽऽप इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् । यथा यदव इत्येव रघवः कुरवस्तथा ॥ पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि । यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥ तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः । आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥ स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः । नारायणादिनामानि ददौ नान्यस्य केशवः ॥ एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः । जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥ देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा । मत्पर्यन्तं यथा व्याप्तिं देवानामपि सर्वशः ॥ मयि देवास्तेषु चाहमिति विद्धिवरानने । मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥ अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया । ज्ञानकर्मबलेहाद्या मद्दत्ता इति किं वदे ॥
सम्भृता मत्त एवैते
गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात् ॥ सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः । प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः ॥ गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम् । य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम् ॥ गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम्म् ।
पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा ॥
प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥ स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः । अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥ सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् । उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः ॥ बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः । देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः ॥ स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति । भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः ॥ अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्झितिः । इत्येवोपासते तस्मात् पराभूताश्च सर्वशः ॥ ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ । य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥ भावाभावं च देवानां दैत्यानां चैवमेव तु । ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः ॥
प्रसादात् तस्य पाप्मा च पराभवति सर्वशः ।
स एव जीवनकरो यदाऽपानेन संयुतम् । प्राणं नियमयत्यस्मिञ्च्छरीरे पुरुषोत्तमः ॥ शरीराद् बहिरेतौ तु यदा निःसारयत्यजः । तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम् ॥ प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः । अर्वाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा ॥ अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः । अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥ अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः । अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥ स्थूलसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः । नानागती तु तावेतौ वायुः प्राप्नोति केशवम् ॥ शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति । जडं तज्जडतामेति चेतना वायुदेवता ॥ चेतनेशं हरिं याति विरुद्धगमनौ च तौ । ऊर्ध्वं गच्छति देवः स देहोऽधः पतति क्षितौ ॥ दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता । य एवं वेद तं वायुममृतं सर्वनायकम् ॥ पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा । स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥
इति च ।स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोपि यत्र हि ॥ केवलैश्वर्ययोगेन यत्र सङ्ख्यादिवद्भवेत् । स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥ अचिन्त्यात् तु तथैश्वर्यादेकोऽपि बहुरूपवान् । प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥ न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन । नैश्वर्ये न बले चैव नानन्दादिगुणेष्वपि ॥
इत्यादिशब्दनिर्णयवचनात् द्विवचनमत्र व्यवहारमात्रमिति दर्शयितुं ता इत्युक्तम् ।उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥
इत्यतो ब्रह्माहेति दैर्घ्यमपि परब्रह्मत्वविवक्षया ।दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥ देवानां कर्मणैवैते जायन्ते सर्वमानुषाः । प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम् ॥
इति च ब्रह्माण्डे ।द्वितीयोऽध्यायः
यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥ सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि। चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत । यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः । उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य । येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः । तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः
इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च ।केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
इति नारसिंहपुराणे ।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
इति च ।एको नारायण आसीन्न ब्रह्मा न च शङ्करः इति महाप्रलये तस्यैवावस्थानश्रुतेः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं मम योनिरप्स्वं१तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा परो दिवा पर एना पृथिव्या इत्याह । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन् इति ब्रह्मरुद्रयोर्देव्यास्सकाशात् सृष्टिसंहारौ चोक्तौ ।विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च ।आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥ शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥ विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः । तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । कुत एवाधिकोऽन्यः स्याद्यन्मुक्ता अपि तद्वशाः ॥ रमापि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥ कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥
इति च महासंहितायाम् ॥
नेतृत्वाच्चापनेतृत्वाद्भगवान् पुरुषोत्तमः ॥इति च ।
वामो भद्रः ॥ १ ॥
त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥ गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥
इति च ॥इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान् । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः । सर्वे वेदा अपि तस्यैव नामानि । किमु च वेदाः । समुद्रमेघवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति । प्राणे नारायणे एवेति विद्यात् ।हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् । विष्णोर्वक्ति यतो हुं च पराभिभववाचकः ॥ ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः । बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ॥ ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च । नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥ अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः । तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥ उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः । विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥ एकप्रकारतां विष्णोः सदाचाल्यां वदत्यपि । इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥ वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा । मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ॥ तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः । वर्षणाद् वृष उद्दिष्टो बलनाद्बलिनामकः ॥ तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते । सर्वनामापि भगवान् सर्वशक्तिश्च सर्ववित् ॥ ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु । व्यतिरिक्तः सदानन्तसान्द्रानन्दैकरूपकः ॥ तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि । उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥ तथैव सर्वनामानि प्रवर्तन्ते च मारुते । न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया ॥ मुख्यतः सर्वनामा तु विष्णुरेको न चापरः । तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥ अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते । वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ॥ आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥ इत्यादि च । न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणो ह्येष य एष तपतीत्युक्तम् । प्राणाद्वा एष उदेति प्राणेऽस्तमेति इति श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । प्राणस्य प्राणः इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव । अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् । द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ । अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥ तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च । अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ॥ मध्यमो वायुरेवैक उत्तमः केवलो हरिः । सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ॥ अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित्। श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥ तस्मादमितनामानावपि तौ मितनामवत् । श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥ अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः । पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥
इत्यादि ब्रह्माण्डे ॥ २ ॥
महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः ॥ भृगुरध्वर्युरभवद् ब्रह्मा ब्रह्माऽभवत् स्वयम् । उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥ सादस्यमकरोत् तत्र तदन्येऽन्येऽपि चर्त्विजः । बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥ वायुना सह देवेशस्तदा वासवमाविशत् । आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ॥ शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः । ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ॥ तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥ प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् । अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥ तृतीयं च शशंसास्मै विष्णोरन्नं प्रकल्प्य तत् । ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ॥ ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः । प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥ वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् । सम्यक्त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥ इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः । सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ॥ यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु । न हि दोषाभिधायीनि विष्णोर्नामानि कानिचित् ॥ अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥ सर्वोत्तमगुणानेव नामान्याचक्षते हरेः । यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ॥ अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये । जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥ इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥ ओयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि । ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः ॥ सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ॥ बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥ स एव सूर्यसंस्थः सन् लोकं तपति केशवः । सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥ अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥ दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते ।
तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इति श्रुतिः ।न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ॥
इत्यादेश्च ।परमं यो महद्ब्रह्म परमं यः परायणम् ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रम्... ॥
इत्येव भारते परिहाराच्च ।दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा । धन्याश्चर्योहमेवैको मित्रं मे दक्षिणा रमा ॥ इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥
इति नारदवचनम् ।तस्माद्योऽयं विजानाति स मित्रं तस्य नान्यथा ॥
इति भारतेमहाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् । तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥ तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते । तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥
इति गारुडेसाधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥
इति शब्दनिर्णये ।द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ॥ तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥
इति च गारुडे ।जडेश्वरभिदा चैव जडभेदस्तथैव च ॥ जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः । न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव वा ॥ य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥
इति भविष्यत्पर्वणि ।ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥
इत्यादि च ।स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् । सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥
इति ।गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥
इति शब्दनिर्णये ।आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
इति मुक्तानामपि तारतम्यं चोक्तम् ।अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥ तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥ उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव परं हरिम् ॥ नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥
इति ब्रह्मसारे ।कामस्य यत्राप्ताः कामाः तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवानां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते । अमृतं कृधीति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् ।योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥ इति आदित्यपुराणे ।
न च निर्णयकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम् ।तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥ विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः । न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥ बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन । विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥
इति स्कान्दे ।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
इति भगवद्वचनम् ।
घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥ ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः । एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥ उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च । एतां विद्यां कौशिकाय भरद्वाजाय चादरात् ॥ एतद्विद्याबलेनैव विद्याधीशेन बन्धुना । यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥ षट् त्रिंशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः । तान्येव विष्णुरूपाणि रात्रीनामपि देवताः ॥ एकैकं च सहस्रं तद्व्यञ्जनेषु च रात्रिषु । रूपं विष्णोः स्थितं व्यूह्य षट् त्रिंशतिसहस्रधा ॥ षट् त्रिंशतिसहस्राणि स्वरगाणि हरेरपि । तान्येवाह्नां दैवतानि रूपाणि परमात्मनः ॥ द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः । शताब्दानामहोरात्रदैवतान्युत्तमानि च ॥ बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि । शतवर्षहरिध्यानफलमाप्नोति पूरूषः ॥ एवं ज्ञात्वापि सम्पाद्य बृहतीनां सहस्रकम् । ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥ स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः । प्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि ॥ प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता । ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते ॥ सर्वोत्तमस्वरूपत्वाद्विष्णुरुक्तः स देवता । ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा ॥ एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा । प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाधिकम् ॥ प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः । प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥ एति मारुतपर्यन्तान्मारुतेन च केशवम् । सम्पादनाच्च विद्यायः अस्याः परत एव च ॥ द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः । बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥ तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम् । बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम् ॥ द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च । विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥ तस्माद्योऽयमहं नामा सदाऽहेयत्वहेतुतः । स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥ योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः । एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥ एक एव परो विष्णुरिति जीवसमीपगम् । ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥
इत्यैतरेयसंहितायाम् ।प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥ अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः । सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥ जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः । एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥
इत्यादि चातुरात्म्ये ।आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥ प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु । योग्या अस्याश्च विद्यायाः देवा ऋषय एव च ॥
इत्यादि सत्तत्त्वे ।पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥ उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम् । महार्थमेव सर्वं हि वेदे वा वैदिकेऽपि वा ॥
इति ।अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥
इति गारुडे ।यच्चास्य सन्ततो भावस्तस्मादात्मेति कथ्यते ॥
इति भारते ।स यात्यन्धतमो घोरं नित्यातिशयदुःखदम् ॥ सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः । नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥
इति चैतरेयसंहितायाम् ।अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥
इति शब्दनिर्णये ॥तृतीयोऽध्यायः
नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥ नारायणादिरूपेण पञ्चधाऽवस्थितः सदा । सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥ बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः । पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत् ॥ पूर्वापरं तृचीशीत्या इति पञ्चात्मकं हि तत् । प्रथमे पञ्चकाद्भागे स्थितो नारायणः स्वयम् ॥ ऋक्त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके । वासुदेवः स्थितो नित्यमृगशीतित्रये तथा ॥ द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः । यस्यावेशबलेनैव जीवः सङ्कर्षणोऽपरः ॥ पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः । तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः ॥ प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः । कामः प्रद्युम्ननामाऽभूत् तत्प्रसादात्तवैभवः ॥ उक्थस्यैवान्त्यभागे तु सोऽनिरुद्धो हरिः स्थितः । कामपुत्रोऽनिरुद्धाख्यं यदावेशेन लब्धवान् ॥ एवं पञ्चात्मकं विष्णुं बृहत्युक्थस्य देवताम् ।
यो वेद सम्यग्वेत्ता स .......
स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च । तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु ॥ पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः । बलज्ञानस्वरूपत्वाद् वायुनामा स एव च ॥ वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः । व्याप्तत्वाद्वासुदेवस्तु सदाकाशे स्थितः प्रभुः ॥ अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः । अम्नामा पालनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः ॥ ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक् पृथक् । यद्यप्यस्य हरेः सर्वरूपाण्यप्यखिलैर्गुणैः ॥ पूर्णान्यथापि चैकैकरूपेषु स पृथग्गुणैः । व्यवहारान्पृथग्देवः करोतीव हि लीलया ॥ तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः । सर्वत्र सर्वनाम्नोऽपि व्यवहारार्थमीर्यते ॥ एतस्माद्धि हरेर्नित्यं जगदुत्तिष्ठति प्रभोः । मुक्तौ लये च तं याति स च सर्वाश्रयः प्रभुः ॥ य एवं वेत्ति तं विष्णुमुपास्ते चापरोक्षतः । स मुक्तः समजातीनामाश्रयश्च भविष्यति ॥ स्वजातीनामुत्तमत्वपदयोग्या हि ये सुराः । ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने ॥
अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते ।
भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः । नारायणानिरुद्धौ तौ भोग्यवस्तुषु संस्थितौ ॥ तर्पकौ सर्वलोकानां तस्माद्भोग्यौ न चर्व्यतः । अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः ॥ एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव च । अवकाशप्रदः सोऽपि स्वजातीनां भविष्यति ॥ भोक्ता चाप्यायकश्चैव तस्य विष्णोः प्रसादतः । ब्रह्मेन्द्राद्याः स्वजातीयपदयोग्या अमुष्य च ॥
योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके ।
नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू । तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः ॥ प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः । न ह्यन्यः प्राणभर्ताऽस्ति तमृते पुरुषोत्तमम् ॥ ओषणाच्च निधानाच्च स एवौषधिनामकः । वननीयपतित्वाच्च स एव हि वनस्पतिः ॥ अन्ने स्थित्वा तृप्तिदत्वं तस्याद्यत्वमपीष्यते । पुरुषस्य हरेर्ये तु सदाकारेण संस्थिताः ॥ देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः । प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु ॥ तौ भोक्तारौ च भोग्यानां भोजकावखिलस्य च । नारायणानिरुद्धौ तु तथान्यपशुषु स्थितौ ॥ वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च । वाहनोपानहादीनामारोढारो नरादयः ॥ यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ । ततस्तयोर्हि सञ्चार उपरीव भविष्यति ॥ आकाशगो वासुदेवः पञ्चमोऽत्राप्युपास्यते । वाहनादियुतो मुक्तौ भवेदेतदुपासकः ॥
इत्यैतरेयसंहितायाम् ।नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥
इति सत्तत्त्वे ।
स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति ॥ स्थावरं जङ्गमं चैव भूयस्त्वेनाश्नुते हरिः । आविर्भूतस्तेषु सदा सम्यक्स्वात्मानमेव च ॥ तारतम्यात् सन्निहितं सर्वभूतेषु केशवः । वेत्त्येक एव विष्णोर्यद्विशेषावेशनं सदा ॥ जङ्गमेषु च वृक्षेषु नैव तादृक्शिलादिषु । तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च ॥ दृश्यते न शिलाद्येषु सन्निधिर्न हि तादृशी । शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥ नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः । विशेषोऽयं पदार्थानां न तु विष्णोः कदाचन ॥ यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद्वरम् । गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥ वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः । तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥
इत्यादि च ।
प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक् पृथक् ॥ स एव च पुनर्वायौ पञ्चधाऽवस्थितः प्रभुः । प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान् ॥ अनिरुद्धः स प्रद्युम्नस्तथा सङ्कर्षणः प्रभुः । वासुदेवो नारायणः पञ्चरूप इति क्रमात् ॥ पञ्चरूपोऽपि भगवान् यस्माद्वायौ विशेषतः । स्थितस्तेन च खादिभ्यो वायुरेव विशिष्यते ॥ अत एव पृथिव्यादिस्वरूपा मनआदयः । देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि ॥ पृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः । कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः ॥ श्रोत्रमाकाशरूपं च मित्रधर्मजलाधिपाः । कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ॥ ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः । किञ्चित् तेजोयुता वाक्च विशेषेण त्वबात्मिका ॥ उपचीयते ततः साऽद्भिस्तदभावे च शुष्यति । तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते ॥ वाग्देवते ततो वह्निरुमा चापि प्रकीर्तिते । चक्षुष्ट्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते ॥ स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः । द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः ॥ शेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम् ।
आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम् ॥
देवानां क्रमवृत्तिभ्यो जाते यज्ञेऽपि केशवः ॥ अग्निहोत्रादिके नित्यमनिरुद्धादिरूपकः । पञ्चधाऽवस्थितः सोमे पञ्चरूपो व्यवस्थितः ॥ सवनत्रयात् पूर्वके च सवनत्रितये परे । अनिरुद्धादिरूपेण क्रमेणैव व्यवस्थितः ॥ तमेतं परमं विष्णुं मुक्तोऽप्यत्येव मन्यते । अधिकं ह्येव तस्मात् तं मन्येतान्योऽपि सर्वदा ॥
इत्यादि च ।
अधिरूढं तथाऽहस्सु चाहर्नामानमेव तु ॥ अहार्यत्वाद्धि देवेषु देवं सर्वोत्तमत्वतः । एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥ स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः । य एष उक्थनामासौ सर्वोत्थापनको हरिः ॥ महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः । अहरह्नां स यज्ञानां यज्ञो देवाधिकोऽपि सः ॥ अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः। स्तोमसामचितिच्छन्दश्शस्त्रेष्वपि पृथक् पृथक् ॥
एकैकमेव तद्रूपमनिरुद्धादिपञ्चकम् ।
प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते । पञ्चरूपं तमेवैकं स्तोतुमेव पृथक् पृथक् ॥ तत्र ये स्तोमशब्दाश्च संस्थिता बहुकोटयः ।
पृथक् पृथक्तेऽपि विष्णोः प्रादुर्भावान् प्रचक्षते ॥
विष्णोः सहस्रनामस्तु यत्तद्रूपसहस्रकम् ॥ बृहतीसहस्रमेतच्च तद्वक्ति हि पृथक् पृथक् । सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः ॥ नामानि विष्णोरुच्यन्ते सहस्रमिति चाख्यया । अनन्तनामवचने त्वशक्तत्वात् सहस्रकम् ॥ नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम् । विष्णोरनन्तरूपाणामुक्त्वा पञ्चशतद्वये ॥ आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोऽमितम् । ब्रह्म यावत् तावती वागिति वेदप्रमाणतः ॥ सहैवानन्तरूपैस्तु सरणेन सहस्रकम् । नाम्ना सह सृतेरेव रूपाणां वा सहस्रता ॥ बृहतीसहस्रं चैतस्माद्रूपानन्ताभिधायकम् । पृथक् पृथग्घि नामार्था ऋच एताः प्रकीर्तिताः ॥ सर्वनामात्मकं तस्मादृक्सहस्रमिदं हरेः ।
सर्वरूपाण्यतो विष्णोस्संस्तुतान्यमुनैव हि ॥४० ॥
कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः ॥ पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शस्यते । रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः ॥ प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः । तानि रूपाण्यस्य दश सर्वरूपात्मकानि च ॥ दशनामानि चास्यैव सर्वरूपाभिधान्यपि । पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम् ॥
स्तावकं सर्वरूपाणामत एव रमापतेः ।
शं रूपं भगवन्तं यद्दद्याद् व्यक्त्या समस्तशः । दशेत्यमितनाम्नां तदाख्या रूपेषु शन्ददेः ॥ सर्वनामार्थवचनात् पञ्चकद्वितयस्य च । अभूद्दशेति वै नाम तस्मादेतद्दशाखिलम् ॥ एतावती हि सङ्ख्या । दश दशतस्तच्छतम् । दश शतानि तत्सहस्रम् । तत्सर्वम् । दशैव मूलसङ्ख्या च तद्विभेदाः शतादयः । ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम् ॥ अनन्तशक्तिममितरूपनामानमेव च ।
वक्ति ...
अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च । सर्वच्छन्दोऽभिधश्चैव सर्वदेवाभिधस्तथा ॥ सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः। अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः ॥ मुख्यतोऽस्यां च विद्यायां योग्य एकश्चतुर्मुखः । एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः ॥
इति च ।अतस्त्रिवृदिति प्रोक्तस्तथा पञ्चदशात्मकः ॥ प्रद्युम्नः पञ्चभूतेषु ह्यध्यात्मादिविभेदतः । लिङ्गसप्तदशस्थत्वात् तावान् सङ्कर्षणः श्रुतः ॥ सप्तधातुषु संस्थः सन्नध्यात्मादिविभेदतः । एकविंशो वासुदेवो मन आदिचतुष्टये ॥ गुणत्रये च प्रकृतावध्यात्मादिविभेदतः । मूलरूपेण च सह पञ्चविंशात्मकः प्रभुः ॥ नारायणस्त्वचिन्त्यात्मा स एकोऽपि ह्यनन्तधा । गायकानां त्राणतोऽसौ गायत्रमनिरुद्धकः ॥ प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम् । बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः ॥ भद्रं तु वासुदेवोऽसौ भद्रमोक्षप्रदो यतः । नारायणो राजनं स्याद् राजयत्येष मोक्षिणः ॥ गायत्री त्वनिरुद्धोऽसौ त्रिकाले गीयते यतः । उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोऽग्न्यादिसंस्थितः ॥ स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः । वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः ॥ नारायणस्तु स्त्रीरूपो द्विधैवासौ व्यवस्थितः । द्विपदेति ततो नाम सर्वच्छन्दोभिधा इमे ॥ वनितातनवः प्रोक्ताः मध्यं नारायणः प्रभुः । वासुदेवोऽस्य पुच्छं च वामदक्षौ च पक्षकौ ॥ सङ्कर्षणश्च प्रद्युम्नः क्रमादेव प्रकीर्तितौ । अनिरुद्धः शिरश्चैव तथैकोऽपि हि पञ्चधा ॥ प्रस्तावनामानिरुद्धो रक्षन् संस्तूयते यतः । सृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते ॥ उद्गीथनामा तेनासौ जगदुद्गमनेन वा । संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः ॥ मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः । तेनोपद्रवनामासौ निधीयन्ते यतोऽखिलाः ॥ मुक्ता नारायणे देवे तेनासौ निधनाभिधः ॥
इत्यादि च ।
विरिञ्चशिवपूर्वेभ्यो नृसिंहानुष्टुभं पराम् ॥ उच्चारयन्तमर्थांश्च व्याचक्षाणं समन्ततः । ददृशुर्मुनयो दिव्या आचार्यं ब्रह्मशर्वयोः ॥ एवं वायुं च ददृशुस्तत्र हंसस्वरूपिणम् । शिवादिभ्यो व्याहरन्तं तामेवानुष्टुभं पराम् ॥
इत्यादि च ।
भवितुं चेश्वरः स स्याद् भावो मुक्तिर्न चान्यथा ॥ यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा ।
स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः ॥
नानाच्छन्दःप्रशंसादिप्रमाणरहितत्वतः ॥ परिहाराय चापूर्णमैतरेयमुने शृणु । त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः ॥ तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योऽसि मे यतः । उमैव वागिति प्रोक्ता साऽनुष्टुबभिमानिनी ॥ अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन। वागिन्द्रियाभिमानिन्यां न हि ब्रह्मवचः क्वचित् ॥ वायुना प्राणरूपेण मनोरूपशिवेन च । अभ्यस्यमानोऽनुभवेत् पुमान् वाचा तु न क्वचित् ॥ अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः । तस्मादेषा छन्दसां हि वरिष्टा बृहती स्मृता ॥ पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते ।
माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत् ॥
मध्यात् तु बृहती जाता तस्मात् सा मध्यमुच्यते ॥ पठ्यते तेन मध्ये सा छन्दसां प्रवरा सती । छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा ॥ सप्तछन्दांसि चैवं हि प्रतिमा वैष्णवी मता । गायत्रीदेवतात्वं च लक्ष्म्या यत्राभिधीयते ॥ बृहती देवता तत्र भगवान् पुरुषोत्तमः । आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम् ॥ तत्र तत्पुत्रको वायुः बृहतीदेवता मता । ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत् ॥ प्रधानत्वाद् बृहत्यास्तु जगत्याद्यं न युज्यते । सम्पादनाद् बृहत्यास्तु मुक्तो भवितुमीश्वरः ॥ स्यात् प्रसिद्धः सुकीर्तिश्च छन्दोमृत्युर्गुणाधिकः । इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः ॥
इत्यादि च ।अन्यच्छन्दोऽभिधा यत्स्यात् प्रतिमा मध्यमैव तत् ॥
इति च ।
छन्दसां वा तदन्येषां बृहतीत्वं स्मरेत् ततः ॥ तेन सर्वगतो विष्णुः सर्वस्मादधिकोऽर्चितः । भवेदेवं जानतस्तु कृता च प्रतिमा भवेत् ॥ तथा वायोरपि कृता वायुर्हि प्रतिमा हरेः । तस्माद् वायुकृतं सर्वं क्रियते विष्णुनैव हि ॥ बृहतीसहस्रं सम्पन्नमेकादशशतं पुनः । अनुष्टुभां स्मरेत् पञ्चविंशोत्तरमुदारधीः ॥ तेन वायोरुमोत्पत्तिः सम्यग्ज्ञानात् स्मृता भवेत् । ततो द्वितीयप्रतिमा विष्णोरेव कृता भवेत् ॥ विष्णुनाऽनुप्रविष्टौ यदुमा वायुश्च तद्वशौ ॥
इत्यादि च ।
सर्वदोषविरुद्धत्वाद् गुणनामन्यतामपि ॥ विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा । अभावं चैव दोषाणां सर्वेषां केशवे वदेत् ॥ सम्यग्वक्तृत्वतस्तस्मादकारो मुख्यनाम हि । तदर्थानेकदेशेन शब्दाः सर्वेऽपि चोचिरे ॥ व्याख्याव्याख्येयरूपत्वं विकारत्वमिहोदितम् । विकारत्वं च नान्यत् स्यान्नित्या वेदा यतोऽखिलाः ॥ वाचकेषु तथा विष्णोः सहस्रबृहतीमयम् । उक्थमुत्तममुद्दिष्टं व्याख्याऽकारस्य सा परा ॥ अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिनः ।
येषां परममुक्थं तत् ....
व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः । मितामिते स्वरस्सत्यमनृतं चेति पञ्चधा ॥ तस्मादकार एवायं सर्ववागात्मकः श्रुतः । तस्यैव व्यक्तिरूपोऽयं सर्ववेदादिविस्तरः ॥ तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत्प्रभोः । तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवाः ॥ अकारस्य तथोपांशोरभिमानी तु मारुतः। देहेन्द्रियान्तःकरणनाम्नोऽस्य द्विविधस्य च ॥ स्थूलसूक्ष्मशरीरस्य सर्वेषामभिमानिनी । भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी ॥ तस्मादुच्चादुपांशुर्हि जपादिषु फलाधिकः । वायुः पतिर्हि भारत्या उपांशोर्देवता मतः ॥ अकारस्य विकारोऽयमोङ्कार इति कथ्यते । अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः ॥ अकारेणैव तत्सर्वमुक्तमाधिक्यवक्तृतः । अधिकोच्चस्वरूपोऽसौ माता चाधिक एव हि ॥ एकार्थत्वादकारोऽसौ नकारत्वमुपागतः । दीर्घीभूतः पुनस्तेनैवाकारेण सह स्थितः ॥ अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन् । सोऽप्यकारेण सहितो दीर्घत्वं समुपागतः ॥ अभाववाच्यकारः स एकार्थाद्गत्यभावयोः । यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः ॥ णत्वं गतो ह्यकारोऽसौ नो विरुद्धार्थवाचकः । अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि ॥ सर्वदोषोज्झितत्वाच्च सर्वतोऽप्यधिकत्वतः । निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः ॥ सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः । नारायण इति प्रोक्तो ह्यकारार्थोऽयमेव हि ॥ तस्मादकारबीजेयं विष्णोर्नारायणाभिधा । प्रणवश्च ततोऽकारः प्रधानं नाम चक्रिणः ॥ अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम् । ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥ वर्तन्ते न त्वकारोऽयं वर्तते केशवं विना । नारायणादिनामानि नृणां नामक्रियास्वपि ॥ विहितान्यकारो नैवायं विहितस्तमृते प्रभुम् । वायुर्ब्रह्मापि चाकारदेवते न तु नामिनौ ॥ यथा वेदाभिधेयोऽन्यो वेदाख्या देवता परा । एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः ॥ तस्माद इति नामेतद्विष्णोः केवलमेव हि । विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम् ॥ तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा । तस्माद्यज्ञेऽपि वा शंसेदयज्ञेऽपि रहः पुमान् ॥ ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत्परम् ॥
इत्यादि ब्रह्मसारे ।अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः ॥ खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम् । यज्ञाङ्गं यजुरुद्दिष्टं निगदं वाक्यमात्रकम् ॥
इत्यादि शब्दनिर्णये ।
इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ॥ तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे । पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ॥ द्विवारमिन्द्रतामाप तस्मात् द्वादश ते परे । अग्रजत्वाददित्यां तु महेन्द्रो नाम चाभवत् ॥ महाव्रतं कर्म कृत्वा चैव नाम्ना महेन्द्रकः । महत्त्वं मुख्यतो विष्णोर्न ह्यन्यस्य कदाचन ॥ एवं यो वेद तं विष्णुं विस्रस्तो बन्धतोऽखिलात् । अस्माल्लोकाद्धरेर्लोकमेति नास्त्यत्र संशयः ॥
इत्याह भगवान् विष्णुर्महिदासस्वरूपकः ।
महिदासाभिधो भूत्वा लोकेष्वेषु विराजति । तत्र पृच्छन्ति केचित्तु यद्येष भगवान् हरिः ॥ महिदासादिरूपेण भूमिष्ठो रमते प्रभुः । तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः ॥ कया स्त्रिया रतिं कुर्यान्न ह्यन्यरतिरच्युतः । स्त्रीरूपे तत्स्वयं स्वस्मिन् रमतेऽसावितीदृशम् ॥ वाच्यं तत्र च भूमिष्ठरूपेण तु दिवि स्थितम् । स्त्रीरूपं किमसौ गच्छेदथ यद्येवमत्र च ॥ स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत् ।
न ह्यन्यगम्यो भगवान् स्त्रीरूपोऽपि जनार्दनः ॥
स्त्रीषु यल्लोहितं लोके तत्राग्निस्थो जनार्दनः ॥ स्त्रीरूपः सोऽग्निनामैव ज्वलज्ज्वालासमप्रभः । तस्माद्विष्णोः सन्निधानाद्भर्ता भार्याशरीरगात् ॥ न बीभत्सेतैव रक्तात् तथा पुं रेतसि स्थितः । आदित्ये संस्थितो विष्णुरादेरादित्यनामकः ॥ तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात् । पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः ॥ तस्माद्यद्भूमिगं विष्णोः स्त्रीरूपं तत्स्वयं हरिः । प्रादुर्भावगतो दद्याद्दिवि स्थितपुमात्मनः ॥ सूर्यगस्य तथा पुंसो रेतसिस्थस्य चात्मनः । देवीषु यल्लोहितगं स्त्रीरूपं परमात्मनः ॥ तत्स सूर्यगतो विष्णुः पुंरेतःस्थस्य चात्मनः । दद्याद्भूमिगतस्यैव रूपद्वयमिदं ततः ॥ परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम् । प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम् ॥ विष्णोस्तदपि देवीषु स्थितस्स्त्रीरूपकात्मना । एवमन्योन्यतो विष्णू रतः स्वस्मिन्न चान्यतः ॥ रमया रममाणोऽपि तत्स्थेनैव स्त्रियात्मना । रमते नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः ॥ रमया रमणं तस्माद्रमाया रतिपात्रता । नैवास्या रतिदातृत्वं विष्णोर्न ह्यन्यतो रतिः ॥ इत्यादि च । स एव महिदास इन्द्रनामा प्राप्येमं लोकमत्र भूत्वा प्रादुर्भूय मनुष्यदृष्टिगोचरतां प्राप्येषु लोकेषु राजति । नात्र प्रेत्यशब्दो मरणवाची । किन्तु प्रेतां यज्ञस्य शम्भुवे त्यादिवत् प्राप्तिवाच्येव । न हि मृतः पुनरेषु लोकेष्वेव राजति । न च यशोमात्रराजनेन स्वस्य राजनं भवति । भिन्नपदार्थत्वात् । यद्वा एति च प्रेति चेत्यादौ प्राप्त्यर्थेऽपि वेदेषु प्रसिद्धत्वाच्च । लक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितम् इति स्कान्दे । यदनेन रूपेणामुं लोकमभिसम्भवति । अनेन महिदासादिरूपेणामुं लोकं दिविष्ठं स्वरूपम् । लोक्यत इति स्वरूपवाची लोकशब्दः । आत्मानमेव लोकमुपासीत इतिवत् । यच्छब्दः किंशब्दार्थे । अनेन रूपेण तद्रूपमभिसम्भवति किम्? उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते । यतश्चोदेति सूर्य इत्यादिवत् । रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति । दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेद् इति शब्दनिर्णये । केन रूपेणेमं लोकमाभवति । केन स्वरूपेण भूमिष्ठेनात्मन एव स्त्रीरूपेण विष्णुः सम्बध्यते । सोऽयं महिदासादिप्रादुर्भावरूप इदं भूमिष्ठस्त्रीरूपं लोहितगतं च स्वकीयमेव रूपममुष्यै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति । देवरेतःस्थिताय च देवीलोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो मानुषरेतःस्थितरूपेभ्यश्च दिविष्ठैश्च विष्ण्वादिस्वरूपैः प्रयच्छति च । तानि भूमिष्ठत्वेन दिविष्ठत्वेन द्विविधत्वात् तावित्युच्यन्ते । अग्नेस्तद्रूपमग्निनाम्नो विष्णोः प्रतिमा तत्सन्निधानात् । एवमादित्यनाम्नो विष्णोः । न ह्यग्न्यादिस्वरूपमेव लोहितादि । न च लौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते । अप्रस्तुतत्वात् तस्य । भगवानेव ह्यत्र प्रस्तुतः । असावात्मेत्यात्मशब्दाच्च भगवानेवेति ज्ञायते । आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । गुणपूर्त्यभिधायी स नान्यस्य गुणपूर्णता ॥ अमुख्यात्मान एवातो ब्रह्माद्याः सर्व एव हि ॥ इत्यादि च ब्रह्माण्डे । यदक्षरं पञ्चविधं समेति । सत्यस्य सत्यमनु यत्र युज्यत इत्यादिनोक्तार्थविषयोदाहृतैः श्लोकैरपि भगवत एव स्वरूपाणां परस्परयोगस्योक्तत्वात् । गायत्र्युष्णिग्बृहतीत्यादिना भगवत एव पञ्चविधस्य स्त्रीरूपस्य महिदासादिपञ्चपुंरूपाणां च प्रस्तुतत्वाच्च ॥
७ ॥
एकीभूता तु सा सेना पाण्डवानभ्यवर्तत ॥ इत्यादिवत् ।
न चैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः । एकः पुरुषोऽपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदापि स्थानैक्यमेव । स्वरूपैक्यस्य पूर्वमेव सिद्धत्वात् । न चाज्ञात एकत्वे पुनर्ज्ञाते ऐक्यं प्राप्त इति प्रयोगो दृश्यते । किन्तु ज्ञात इत्येव प्रयुज्यते । तस्माद् भावसहित एकशब्दो न स्वरूपवाची । न हि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति किन्तु संसर्ग एव भवति । तस्मादत्रापि संसर्ग एव विवक्षितः । यदक्षरं पञ्चविधं समेतीत्युक्तस्य सत्यस्य सत्यमनु यत्र युज्यत इति परामर्शं कृत्वा तत्र देवाः सर्व एकं भवन्तीत्युच्यते । तस्मान्न पुनरुक्तिः ।
पुमांस्त्री चेति वाच्योऽतो वैलक्ष्ण्यान्न चोच्यते ॥ विष्णोर्नपुंसकाकारो नैवास्ति क्वचन प्रभोः । तथाप्यरागाकृष्टत्वात् तच्छब्दैरपि कथ्यते ॥
इति गारुडे ।तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः ॥ यत्स्यन्दनं वहन्त्येते देवा भार्यासमन्विताः । अधिदैवे तथाऽध्यात्मे जीवदेहात्मकं रथम् ॥ स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमाश्रितौ । वहतोऽश्वात्मकौ देहं नारायणरथात्मकम् ॥ सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ । उभयोः पक्षयोः स्थित्वा वहतोऽश्वात्मकौ तयोः ॥ उद्धारणार्थमेतेषामुमा वाचि समास्थिता । नागाकारैव रश्मित्वमगमद्वैष्णवे रथे ॥ मनःस्थितः शिवश्चात्र मनोनामा महाबलः । अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम् ॥ प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः । तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ ॥
इत्यादि गारुडे ।तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥ सत्यस्य सत्य एतस्मात् स्त्रीपुंरूप स केशवः । यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना ॥ मुनिगन्धर्वपित्राद्यैर्न तत्प्राप्यं कथञ्चन । आप्नुवन्ति सुराः सर्वे तद्रूपं जाज्वलत् सदा ॥ अर्धनारीपुमाकारं तस्य वामस्थितानि च । स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च ॥ विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे । तान्यस्यैव तु रूपाणि युज्यन्तेऽत्र परस्परम् ॥ एष नारायणो देवो ह्यर्धनारीपुमात्मकः । सर्वे देवास्सभार्याश्च तं प्राप्य पुरुषोत्तमम् ॥ एकीभावं स्वभार्याभिरर्धनारीपुमात्मना । प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात् ॥ मोदन्ते च रमन्ते च विभागं चेच्छयाऽऽप्नुयुः । बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः ॥ प्रसादाद् वासुदेवस्य भागैः स्त्रीपुंस्वरूपिणः । तेनैव नियता नित्यं तद्वशास्तत्परायणाः ॥ रमन्ते नान्यगम्योऽसौ देशो विष्णोः परात्मनः । स्त्रीपुंरूपेण युक्तं तद्विष्ण्वाख्यं परमक्षरम् ॥ अक्षरादेव परमात् पुंसो नारायणाभिधात् । आगच्छन्ति तदैते च देवा भार्यासमन्विताः ॥ वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः । तत्सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित्॥ मितादिपञ्चरूपं यद्वाक्यं लोकेऽथवा श्रुतौ । नारायणस्य नामैतदिति जानन्ति देवताः ॥ मनोवाक्कर्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते । सर्वशब्दान् हरौ नेतुं कस्य देवानृते बलम् ॥ वाय्वन्तास्तारतम्येन विष्णुनामार्थवेदिनः । सम्यग्वेत्ता मारुतोऽत्र तस्मान्मुक्तेभ्य एव च ॥ सुरेभ्योऽधिकमानन्दं नित्यं भुङ्क्ते हरेरनु ॥
इत्याद्यर्धनारीनारायणतन्त्रे ।
नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः ॥
इति शब्दनिर्णये ।समानोत्तमहीनत्वमुच्यते वस्तुनोऽञ्जसा ॥
इति शब्दनिर्णये ।मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि । आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः ॥ कुत एव प्रलीनानां प्रलये तु तदात्मता । ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता ॥ यदा तदा तु संसारे क्व तद्रूपत्वमिष्यते । अन्योऽसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः ॥ सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावकः । पारतन्त्र्याल्पताज्ञानजनिनाशादिवर्जितः ॥ अकारेण ततो विष्णुः संहितायां पदात्मना । बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना ॥ महिदासावतारेण सोऽहमेवंविधस्त्विति । मत्तोऽन्यो न हि पूर्णोऽस्ति यतोऽकारश्च पूर्णताम् ॥ वक्ति तस्मादकारोऽयं मामेव वदति स्फुटम् । नाभाववाच्यकारः स्यादर्थत्रययुतो यतः ॥ एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः । अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः ॥ अकारार्था ह्यभावस्तु निषेधैकस्वरूपतः। एकदेशस्वरूपत्वान्नाकारेणैव भण्यते ॥ किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः ॥
इति च ।विरुद्धता निषेधान्यभावयुक्ते हि केवलः । अकारो वर्तते तेषामेकार्थात्मन्यभावके ॥ वर्ततेऽभाव इत्येव न त्व इत्येव केवलः ॥
इति ।यतोऽकारः सदा विष्णोर्वाचकत्वेन संस्थितः । तस्माद्वर्णत्रयात्माऽयं प्रणवोऽपि त्रयात्मकम् ॥ हरिमेव सदा वक्ति न वाऽन्यं कञ्चन क्वचित्। सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम् ॥ अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः । वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः ॥ उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः । रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः ॥ अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः । एवं त्रियात्मकं विष्णुं प्रणवोऽयं त्रियात्मकः ॥ एवं पृथगिवाचष्टे बिन्दुर्वक्त्यनिरुद्धकम् । प्रद्युम्नाद्यान्नादपूर्वाः सर्वान्नारायणात्मकान् ॥ पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः । प्रणवोऽयं वदत्यष्टौ तस्मान्नान्याभिधायकः ॥
इति तत्त्वसारे ।
स्त्रीरूपाणि हरेस्तावदह्नामप्यभिमानिषु ॥ सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः । एतैः पुरुषगैः रूपैर्बृहत्युक्थव्यवस्थितैः ॥ कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च । कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च ॥ तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च । स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः ॥ पुंरूपप्रमदारूपस्वरूपै रमते स्वयम् । एकीकृत्य च तान्येव द्विरूपो रमते तथा ॥ स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः । प्राणस्योत्पत्तिकामः सन्ननेच्छामारनामकः ॥
इत्यर्धनारीनारायणतन्त्रे ।साक्षान्नपुंसकस्तस्मान्मुक्तिभागी न तु क्वचित्॥
इति ब्रह्माण्डे ।
वेदद्रष्टा परमऋषिर्हयास्यः पुरुषोत्तमः ॥ मन्त्राणां प्रथमो द्रष्टा सर्वेषां यत एव तु । ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः ॥ तत्प्रसादाद्धि तपसा पश्चान्मन्त्रान् प्रपेदिरे । ब्रह्माद्या ब्राह्मणं पश्चात् तैर्दृष्टमृषिभिः पृथक् ॥ मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत्तपः । प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते ॥ विना पृथक् तपो दृश्येत् ब्राह्मणं मुनिभिर्यतः । मन्त्राश्चोपनिषच्चैव ब्राह्मणादुत्तमास्ततः ॥ तत्राप्युपनिषच्छ्रेष्ठा युक्तावस्थाधिगम्यतः ॥ इत्यादि प्रमाणविवेके । तेन रथेनाध्यात्मशरीराख्येनाधिदैवं रथरूपेण । ऋभव इत्यत्र देवानां साधारणं नाम । आदित्या वसवो रुद्रा विश्वे ऋभव इत्यपि । सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि ॥
इति शब्दनिर्णये ।अधिष्ठितो रथो दिव्यः सोऽध्यात्मं देहनामकः ॥ सम्यग्योगो यदा तस्य मनोवाक्कर्मभिर्भवेत् । देहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः ॥ विविधं वासवत्वात् तु विवस्वन्नामकाच्छुभम् । संसारवारकं ज्ञानं दिवो दुहितृनामकम् ॥ विष्णुतत्त्वापरोक्षाख्यमहनी द्वे च शोभने । ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे ॥ जायन्ते देवतास्त्वेषां भारती वायुरेव च । जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी प्रभुः ॥ सर्वस्त्रीणामुत्तमत्वाद् द्यौर्नामा श्रीरुदाहृता । दुहिताऽस्या भारती तु नित्याहेयस्वरूपतः ॥ अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च । अधिदैवे रथेऽप्येते विष्णोर्लक्ष्म्यां प्रजज्ञिरे ॥ रथेन तेन देवेशौ विष्णुवायू जगत्पती । आयातमिति हैवैतौ प्रार्थयेद्यज्ञकर्मणि ॥ अन्यथाप्यर्थयेदेतौ ज्ञानेच्छुः पुरुषः सदा । जपेन्मन्त्रद्वयं नित्यमातेन निमिषस्तथा ॥ रक्षणं वां समीपे स्यान्ममेत्यध्यात्ममेव च । हयास्यत्वाच्चाश्विनौ तावित्याह परमा श्रुतिः ॥ ऐन्द्राग्नेयादिकाश्चैवं सर्वे मन्त्रा हरिं परम् । वदन्ति मुख्यतो नान्यं सर्वनामानमच्युतम् ॥ अथवा वायुदेवस्थं पृथक्संस्थं च केशवम् । मन्त्रो द्विवचनो वक्ति तथा बहुवचस्स्वपि ॥
इत्याद्येतरेयसंहितायाम् ।न च सूर्यरथोऽत्र वर्ण्यते । न चाहोरात्रे अहनी इत्युच्येते । सूर्यस्याश्विनामाभावात् सप्ताश्वत्वाच्च तद्रथस्य । चतुरश्वत्वं चात्रोच्यते । श्रोत्रे पक्षसी चक्षुषीयुक्ते इत्यध्यात्मसम्बन्धाच्च । न च रात्रौ सुदिनमिति प्रयोगो दृष्टः । असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च ।
अस्मिन् पक्षे तु लौकिकाहर्व्यावृत्त्यर्थ सुदिने इति युज्यते । जीवन्मुक्तिश्च मुक्तिश्च हि मुख्ये सुदिने । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते इति ज्ञानावस्थायां मुक्तौ भोगबाहुल्यकारणत्वात् सापि मुक्तिवत् सुदिनम् । न हि मुक्तावधिक्यार्जनमस्ति । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इति वचनात् । अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति ककिञ्चित्कालं ज्ञानित्वेनावस्थानमपि सुदिनमेव । ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम् ।चतुर्थोऽध्यायः
नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः ॥ इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा । अग्र्य एव समस्तेभ्यस्तद्वशत्वाद् रमापि सा ॥ विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः । न ब्रह्मा न शिवश्चासीन्नैवान्यच्च मिषत् क्वचित्॥ सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः । असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् ॥ अनुन्मेषा एव तेऽपि स्वतन्त्रोन्मेष एकराट् । नारायणो न चान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः ॥ पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः । वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि ॥ मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन । सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित्॥
कालाग्र्यत्वं वक्तुमस्य प्रलये स्थितिरुच्यते ।
लोकाभिधानवद्देवाञ्जडलोकांश्च शाश्वतः । स लोकेभ्यः पूर्वतनानबाख्यान् महदादिकान् ॥ ब्रह्मशर्वादिकान् सृष्ट्वा जडैस्सह जनार्दनः । दिवमाकाशमुर्वीं च ससृजेऽथ द्विसप्तकान् ॥ इति सृष्ट्वा स लोकांस्तु पुनस्तानेव लोकपान् । अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये ॥ अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु । सर्वजीवाधिकत्वात् तु ब्रह्माणं पुरुषाभिधम् ॥ अंशेनोद्धृत्य रुद्राद्यैः सह चैनमयोजयत् । तथैव चेतनानाञ्च भागानुद्धृत्य पिण्डवत् ॥
चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः ।
अण्डवन्मुखमस्यासीत् प्रथमं तु शिरोऽभिधम् । भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभोः ॥ तत्र वाङ्नामकं रूपं वह्नेरासीत् पुरातनम् । तस्यैवाथ द्वितीयं च यदग्निरिति गीयते ॥ तथैव नासिकातोऽभून्मुख्यवायोः सुतो मरुत् । प्राणो वायुरिति द्वेधा चक्षुषोऽभूत् तथा रविः ॥ द्विरूप एव कर्णाभ्यां मित्रधर्माप्यवित्तपाः । दिग्देवता द्विरूपेण बभूवुः सर्व एव च ॥ हृदयाद् गरुडानन्तशिवचन्द्राः पृथक् पृथक् । मनो बुद्ध्यभिमानाश्च तन्नामानश्च जज्ञिरे ॥ त्वचश्च रोमनामानो वृक्षनामान एव च । द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहतः ॥ हस्ताभ्यां द्विविधः शक्रः पद्भ्यां तत्सूनुरेव च । यज्ञस्त्वजनि पायोश्च यमो निर्ऋतिरेव च ॥ रेतोऽम्नामा द्विरूपस्तु शिव एव च गुह्यतः ।
अपानो मृत्युरिति च मुख्यो नाभेस्तु मारुतः ॥ १ ॥
दिव्याम्बराः कुण्डलिनः प्राविशन्नुदकार्णवम् ॥ तदाऽशनापिपासाख्यं द्विरूपं मारुतं पुनः । तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः ॥ तेऽब्रुवन् देहि नो वासं यत्र चान्नमदामहे । गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः ॥ तत्र प्रविश्य ते देवा नालमित्यब्रुवन् पुनः । अश्वरूपं विरिञ्चश्च पुनरेवावदत् प्रभुः ॥ तद्रूपेऽपि प्रविश्यैव नालमित्यब्रुवन् पुनः । पूर्वसृष्टं पुमाकारं ब्रह्मणोऽदात् पुनर्हरिः ॥
तद्दृष्ट्वैवालमित्यूचुः.....
कुर्वाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ ॥ नित्यं भवावेति हरिः सर्वत्र प्रविशेत्यमुम् । आह तस्माद् देवतानां सर्वासां भागभुङ् मरुत् ॥ एक एव प्राणनामा नाभिस्थोऽपि स एव तु । अशनापिपासापानश्च मृत्युश्चेति चतुर्विधः ॥
एक एव महान् वायुः सर्वदेवेषु संस्थितः ॥ २ ॥
अबाख्याः देवताः पूर्वं सृष्टा ब्रह्मादिकाः पुनः ॥ ददर्श सुविशालाभ्यां नेत्राभ्यां पुष्करेक्षणः । तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक् ॥ सर्वासामपि देहैकदेशेभ्यो मिलितं शुभम् । सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः ॥ दिव्यावयवसम्पन्नमेकमेव सुलोचनम् । भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन ॥ ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च । क्रीडन्ते मोदिनो नित्यं तथाऽप्यन्नात्मकस्त्वसौ ॥
क्रीडयाऽपाक्रमत् किञ्चित्...
अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा ॥ जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन् । एवं चकार ब्रह्मा स क्वाज्ञानं लोककर्तरि ॥ क्षुत्पिपासदयश्चैव देवानां भोगसाधकाः । न तु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः ॥ अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना । अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः ॥ तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः । तत्प्रसादात् परेऽश्नन्ति किञ्चित् किञ्चिन्न चाखिलम् ॥ आयुरूपोऽखिलानां च देवानां वायुरेव हि । अन्नदेवस्य चायुः स तस्माद्देवोत्तमो मरुत् ॥ आयुःशब्दो ज्ञानवाची गतिवाची च यत्ततः । चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः ॥ अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ । तस्मान्मोक्षे सुखे ज्ञाने विष्णुभक्त्यादिकेष्वपि ॥
सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परस्सदा ।
इत्थमैक्षत देवेशो ब्रह्माद्या यदि मां विना । क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत् ॥ सर्वचेष्टयितृत्वाच्च विशिष्टबलतस्तथा । विष्णुरित्यभिधा मह्यं सा न युक्ता दिवौकसाम् ॥ स्वतन्त्रत्वे ततः सर्वे मद्वशा एव नान्यथा ।
तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना ॥
मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः ॥ अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः । प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश सः ॥ बिभर्ति देहं तेनैव मूर्धाविष्टेन चेष्टयन् । नारायणो वासुदेव इति द्वेधा व्यवस्थितः ॥ मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रयः । अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामकाः ॥ आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः । अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः ॥ दाताऽवस्थात्रयस्यास्य जीवस्य क्रमशो विभुः । सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः ॥
तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः ।
जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत् । असुराणां निहन्तारं ज्ञानादिगुणदं तथा ॥ चेष्टाप्रदं च भूतेषु न मदन्यं वदत्यपि । इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया ॥ ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः । तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया ॥ को ह्यन्यस्तमृते विष्णुमेतत्कर्म करिष्यति । स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् ॥ एतदेवस्वरूपं स त्वपश्यदवतारगम् । तस्मात् सर्वावताराश्च सर्वजीवेषु संस्थिताः ॥ प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः । पश्यन्ति च तथा नित्यं निर्दोषोरुस्वसंविदा ॥ गुणपूर्णस्वरूपस्य त्वापरोक्ष्येण दर्शनात् । सर्वदैव ह्यसौ विष्णुरिदन्द्रो नामतो मतः ॥ ब्रह्मादीनां हि सर्वेषां तत्प्रसादेन जायते । जानन्ति न स्वतस्तेन नेदन्द्रास्ते प्रकीर्तिताः ॥ रमापि तत्प्रसादेन जानाति किमुतापरे । अल्पज्ञाना अल्पगुणा अल्पानन्दाश्च तेऽखिलाः ॥ रमाजशङ्करेन्द्राद्यास्तेनानिन्द्राः क्रमेण ते । पापैरज्ञाततां देवा मानयन्ति सदात्मनः ॥ हर्षेण तेन विष्णुः स इन्द्र इत्यभिशब्द्यते । नेदन्द्रताऽसुरादीनां ज्ञायेतेति श्रुतिर्हरिम् ॥ इन्द्र इत्येव वदति पारोक्ष्येणोरुसद्गुणम् ॥
इत्याद्यैतरेयसंहितायाम् ।अनिरुद्धतनुश्चैव तत्र ह्यमितचेष्टितः ॥ कर्माभासा जीवसङ्घाः सत्यं प्रद्युम्ननामकः । सङ्कर्षणो हरिः पन्थाः ब्रह्मोक्तो वासुदेवकः ॥
इत्यादिनामनिर्णये ।चन्द्रसूर्यादयः शब्दा विष्णावेव हि मुख्यतः । उपचारात् तदन्येषां विष्णुनैव कृताः पुरा ॥
इत्यादिना तस्यैव सर्वनामवत्वाच्च ।न वर्तन्ते तदन्यत्र शृङ्गिबेरेऽग्निशब्दवत् ॥
इति च पाद्मे ।एको नारायण आसीन्न ब्रह्मा नेशानः । वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ॥
इत्यादि श्रुतिभ्यश्च ।तदेव मिषणं नाम सद्रूपं मिनुते यतः ॥ मिषच्च नान्यद्विष्णोर्हि किमुतोन्मिषदिष्यते । उच्चैर्मिषन् हि भगवान् सर्वदैव जनार्दनः ॥
इति च सत्तत्त्वे ।जानाति नित्यज्ञानेन मुक्ता ध्यानस्थिता लये ॥
इति च सत्तत्त्वे ।कालज्यैष्ट्यं न यस्मात् तत्सृष्ट्युक्तेरेव सिध्यति ॥
इति वाक्यनिर्णये ।लोकभेदांश्च चक्रेऽत्र पश्चाद् ब्रह्मा विशेषतः ॥ सम्यक्चकार लोकांस्तांल्लोककर्ता ततः स च ॥
इति ब्रह्मवैवर्ते ।शिवस्तद्दयिता शक्रकामौ तद्दयितादयः ॥ सर्वे सुराः क्रमेणैव विष्णोर्जाता अबाख्यकाः । ज्ञानानन्दबलाद्येषु विष्णुभक्तौ च सर्वशः ॥ हीनाः शतगुणेनैव क्रमेणानेन ते मताः । तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च ॥ विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात् । क्रमोऽयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम् ॥ न विशेषो ब्रह्मवाय्वोरधिकाराविभेदतः । न शेषशिवयोश्चैव तत्पत्नीनां च सर्वशः ॥ सुपर्णशेषयोश्चैव साम्यं सर्वगुणेष्वपि । साम्यमेवैतयोः पत्न्नयोः साम्यं शक्रमनोजयोः ॥ एते तु महादादीनां सर्वेऽपि ह्यभिमानिनः । पूर्वस्य प्रतिबिम्बश्च चरमस्तत्सुतस्तथा ॥ तद्वशाश्चाखिला विष्णोर्न विष्णुः कस्यचिद्वशे । महदादिमानिनश्चैते जातास्तैः सह सर्वशः ॥ एते लोका इति प्रोक्ता लोकानामभिमानिनः । त एव लोकपालाश्च यदा पश्चाद् प्रजाज्ञिरे ॥ पश्चाज्जातैर्हि रूपैस्तैर्लोकस्थान् पालयन्त्यलम् ॥
इत्यादि तत्त्वसारे ।यदि वागादीनामेवाभिव्याहरणादिशक्तिः स्यान्मां विना तर्हि विष्णुत्वं न मम स्यात् तस्मात् कोऽहं भवानीत्याक्षेपः । विशेषेण प्राणयति सर्वान् सर्वेभ्यो विशिष्टश्चेति हि विष्णुः । णकारो बलं षकारः प्राण आत्मेति व्याख्यानात् । तस्मान्मत्प्रेरिता एवैते अभिव्याहारादिशक्ता इत्यभिप्रायः ।
पूर्णानन्दस्वरूपत्वान्नन्दनो भगवान् । प्रादुर्भावरूपेण जातोऽपि भगवान् सर्वभूतान्यभितः सर्वकालेषु विशेषेण पश्यत्येव । इह भूतेषु मत्तोऽन्यं प्रवर्तकं वदेत् किमित्याक्षेपः । अहमेव स्वतन्त्रः परिपूर्णगुण इति कृष्णराघवादिसर्वावताररूपेऽपि सर्वदानुभवत्येव ।क्वास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभोः ॥ प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम् । स्तम्भाद्वा नरदेहाद्वा नैवास्य प्राकृती तनुः ॥ दैत्यानां मोहनार्थाय सोऽज्ञानाद्यं प्रकाशयेत् । पूर्णचित्सुखरूपोऽपि सदा सर्वावतारगः ॥
इत्यादि स्कान्दे ।ददर्श विष्णुरित्यादौ नित्यचिद्रूपतो हरेः ॥
इत्यादि सत्तत्त्वे ।पञ्चमोऽध्यायः
अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ॥ तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ॥ स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः । प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ॥ नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ । पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ॥ सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । सम्भावनं कुमारस्य जानतः केशवे भवेत् ॥ तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ॥ स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् ।
अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ॥ पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः । पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ॥ अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् । सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ॥ नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् । यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥ भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम् ॥
इत्यैतरेयसंहितायाम् ।लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥ येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि । पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ॥ स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः । यत्तद्रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ॥
अद्यापि तद्देवलोके पूज्यते सर्वदैवतैः ॥ इत्यादि स्कान्दे ।आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥
इति च भागवते ।अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥
इति ब्रह्मवैवर्ते ।यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥
इति शब्दनिर्णये ॥वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥
इति च ।षष्ठोऽध्यायः
इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ॥ आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति । उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ॥
येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।
मन्तृत्वान्मन इत्येव यच्च ज्ञातृस्वरूपतः । एतत्सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितः ॥ इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः । गुणानामुच्चयो यस्मात् स च इत्येवशब्दितः ॥ सम्यग्ज्ञानस्वरूपत्वात् सञ्ज्ञानमिति कीर्तितः । आततज्ञानरूपत्वादाज्ञानं भगवान् हरिः ॥ विविधज्ञानरूपत्वाद्विज्ञानमिति कीर्तितः । प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ॥ अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः । धृतिर्धारणरूपत्वात् मतिर्मासु ततत्वतः ॥ मनुनाम्नामजादीनां मनीषेशो यतो हरिः । सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते ॥ सर्वदेशेषु कालेषु स्वरूपेषु च सर्वशः । समं रमत इत्येव स्मृतिर्नाम जनार्दनः ॥ सर्वस्य क्ऌप्तिकर्तृत्वात् सङ्कल्प इति गीयते । क्रतुः स सर्वकर्तृत्वादसुरप्यसनाद्धरिः ॥ अमेयानन्दरूपत्वात् काम इत्यभिधीयते । अवशः स स्वतन्त्रत्वात् त्रयोविंशतिनामकम् ॥
यो वेदैवं हरिं सम्यङ् मुच्यतेऽखिलसंमृतेः ।
तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः । क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि ॥ सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा । तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् ॥ मुक्ता येऽलोकनामानो नीयन्ते तेऽपि विष्णुना । स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते ॥ देशतः कालतश्चैव गुणतश्चातिपूर्तितः ।
विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित्॥
प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः ॥ अस्माद्देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् । अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान् ॥ भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥
इत्याद्यैतरेयसंहितायाम् ।ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः ।
यथा शाल्यादिबीजानि भिन्नवीर्यानि सर्वशः ॥ इति सत्तत्त्वे ।कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ॥ स तु मुक्तस्ततो देहादुद्गच्छति परात्मना । प्रेरितो विष्णुलोकं च प्राप्य भोगानवाप्य च ॥ भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित्। विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः ॥
इति ब्रह्माण्डे ।सप्तमोऽध्यायः
तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥
इति शब्दतत्त्वे ।तृतीयारण्यके
प्रथमोऽध्यायः
विष्णोस्तु बहुरूपाणां वाचिकामृषयो विदुः ॥ तौ च वर्णौ हरेः सम्यक्स्वरूपप्रतिपादकौ । बहुधैव स्थितस्यास्य सदैवैकस्वरूपिणः ॥ विष्णुनामार्थरूपत्वाद् वेदानामपि सर्वशः । अन्येषामपि शब्दानां संहिता विष्णुवाचिकाः ॥
तद्वाचकास्तथा वर्णाः सर्वे लौकिकवैदिकाः ।
देवता पूर्ववर्णस्य पूर्वरूपं तदुच्यते । देवतोत्तरवर्णस्य क्रीडनाच्च द्युनामकम् ॥ दिवि स्थितं हरे रूपमुत्तरं रूपमुच्यते । वेदकत्वाच्चायनत्वाद्रूपं यद्वायुनामकम् ॥ विष्णोस्तद्वर्णयोर्मध्यदेवतेति प्रकीर्तितम् । संहितानामकं तच्च रूपद्वयसहस्थितेः ॥ वर्णद्वयं विकारं च षकारं केचिदब्रुवन् । षकारं मध्यमत्रैव णकारं केचिदुत्तरम् ॥ पृथक्करणमेवैषां वर्णयोर्मध्यमुच्यते । उपसर्गमात्रं वीत्याहुः केचिन्नाम ष्णुमात्रकम् ॥ षकारं च णकारं च वर्णौ पूर्वोत्तरावपि । व्यक्तिरेवोष्मणस्तत्र मध्यमित्यभिधीयते ॥ सर्वेप्येत उपादेयाः पक्षा निर्दोषका यतः ॥
इत्याद्यैतरेयसंहितायाम् ॥
विष्णुस्तस्य रथो देह इन्द्रियाश्वः प्रकीर्तितः ॥
इति च ।वक्तृत्वाच्चैव वाङ्नामा मनो मन्तृत्वहेतुतः ॥
इति च ।
पूर्वोत्तरार्णमध्येषु स्थितमुक्तं सनातनम् ॥ माण्डूकेयैर्हि शाकल्यो वासुदेवादिरूपिणम् । तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् ॥ तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् ।
भूमिद्युवृष्टिपर्जन्यनाम्नोर्व्यादिषु संस्थितम् ॥
अधरार्धस्य चोर्व्याश्च साम्यमन्यस्य वै दिवा ॥ वाचो वृष्ट्यैव साम्यं च पर्जन्येनैव चात्मनः । तेषां तेषु स्थितिं चैव विष्णोश्च चतुरात्मनः ॥ आकाशस्यान्तराकाशे नृसिंहस्यात्र संस्थितिम् । वायोः प्राणात्मतां चैव तत्र दाशरथेः स्थितिम् ॥ सूर्यविद्युद्धुताशानां दृग्घृद्रेतःसु च स्थितिम् । कपिलस्य च हंसस्य जामदग्न्यस्य तेषु च ॥
स्थितिं वदति विद्येयमपि मोक्षप्रदायिनी ॥ इत्यादि च ।
दिविष्ठो वामनश्चैव सम्प्रोक्तः पददेवता ॥ नृसिंहस्त्वन्तरिक्षस्थो भगवान् क्रमदेवता । स्वाध्यायमेवं ध्यात्वा यः करोत्युपवदेन्न तम् ॥ तस्यापवदिता याति त्रैलोक्यादध एव हि । नाशमाप्नोति निरये तस्मादपवदेन्न तम् ॥ गच्छस्यध इति ब्रूयादन्यं ब्राह्मणतस्तथा । ब्रह्मप्राप्तेर्हि योग्यो यो ब्राह्मणः स न चेतरः ॥
इति च ॥लोकत्रयादपि भ्रष्टो यस्मात् तन्निन्दको भवेत् ॥ इति च ।
तस्मादतिदुष्टत्वात् तन्निन्दको नास्त्येवेत्युक्तं तस्य नास्त्युपवाद इति । तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् इत्यादिवत् ।
ब्रूयाल्लोकच्युतोऽसीति निन्दितोऽसुरसर्गगैः ॥ नाशयिष्यति विष्णुस्त्वामन्धे तमसि पातयेत् ।
इति ब्रूयान्न तु ब्रूयाद्देवसर्गात्मकं क्वचित्॥ इति च ।विषणुस्त्विति यो ब्रूयात् पदाध्यायी भवेत सः ॥ सन्ध्युक्तिश्च विभागश्च द्वयं व्याप्तं क्रमेण तु । तस्माद् द्विधाऽपि वचनात् क्रमाध्यायी भवेत सः ॥ भोगवृद्धिं च यो मोक्ष इच्छेद्विष्णव इत्यसौ । मोक्षकामो विषणवे द्वयकामो द्वयं वदेत् ॥ विष्णुनामात्मकत्वाच्चाथ संहितपदक्रमाः । सर्ववेदस्थिता मोक्षतद्भोगद्वयसाधकाः ॥ तज्ज्ञानामेव नान्येषामिति वेदानुशासनम् । संहिताद्या ब्रुवन् वाऽपि य एवंविन्न चाब्रुवन् ॥ परिवादं ब्रुवन्तं वा न ब्रुवन्तमथापि वा ।
यद्वदेत् तत्तथैव स्यात् क्षिप्रमेव न संशयः ॥ इति च ।
योऽतिक्रमति तस्याज्ञामतिद्युम्नः प्रकीर्तितः ॥ मोक्षयोग्योऽपि यस्त्वेवमतिद्युम्नो भवेत् पुमान् । लोकच्युतोऽसीत्येवं तं ब्रूयान्नाज्ञास्थितं क्वचित्॥ लोकच्युतो भवेत्येनमपि नैव वदेत् क्वचित्।
च्युतोऽसीति तु शिक्षार्थं ब्रूयान्नैवान्यथा क्वचित्॥ इति च ॥३ ॥
वायुं च मुक्तिमाप्नोति य एवं तदुपासकम् ॥ निन्देत विष्णुविज्ञानविषये तं वदेत सः । विष्णुना वंशभूतेन वायुना सहितं तथा ॥ न शक्नोषीति मामात्थ हास्यतस्त्वामतो हि तौ । ज्ञानसामर्थ्यवानित्थं ब्रूयाद्देवादिरुत्तमः ॥ अन्यो गन्धर्वपित्रादिरल्पज्ञानबलो हि यः । स ब्रूयाद्विष्णुवायुभ्यां सन्धिमिच्छन्तमेव माम् ॥
सन्धातुं नाशको यस्माद्धास्यतस्त्वामतो हि तौ ॥ इति च ।
वराहाख्यं हरेरन्यवर्णगं वामनाभिधम् ॥ उत्तराक्षरसञ्ज्ञं च वर्णयोरन्तरस्थितम् । अवनात् काशनाच्चैतदवकाशाभिधं हरेः ॥ नृसिंहरूपमित्याहुर्निर्भुजास्यास्तथावदत् । ह्रस्वो येनाक्षरोच्चारो मात्रासन्धिस्वरात्मकः ॥ व्यासरूपो हरिः साक्षात् संहितानामकस्त्विति । तत्पुत्रो मध्यमः प्राह समोच्चारणकारणः ॥ सामनामा वासुदेवः संहितानामवानिति ॥
इति च ।
आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥
अभिद्रुहस्पदे अभितो द्रोहस्य नित्यनिरतिशयदुःखस्यान्धतमसो योग्याः शास्त्रदस्यवः ।शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः ॥ कामक्रोधाभिभूतत्वादहङ्कारवशं गताः । याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥ ब्रह्मस्तेना निरानन्दाः अपक्वमनसोऽशिवाः । वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥ तेषां तमःशरीराणां तम एव परायणम् ॥
इति मोक्षधर्मे भगवद्वचनादेवंविधा एव स्तेनाः । अभिद्रुहस्पदस्थाश्च । निरामिणः रामस्य रमणरूपस्य पूर्णानन्दस्वरूपस्य विष्णोर्जीवस्वरूपताज्ञानेन नीचताविदः । त एव रिपवश्च तस्य ।परं भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
इत्यादिवचनादसुरादयः ।अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥
इत्यादि वचनात् ।स्तेनेभ्यो मैव नो ब्रूहि ब्रूह्यथो वैष्णवेषु च ॥
इति च ।तन्नाम विष्णोरिह तु संहितार्थं वदेद्यतः ॥ इति वचनात् ।
सामनाम्नः संहिताशब्दार्थत्वाद्विष्णोस्तस्य नाम्नः श्रुतिसिद्धत्वाच्च सामनाम्नो वासुदेवरूपसमाख्यासु पञ्चरात्रे पठितत्वाच्च तद्रूपं संहितानामकमिति युक्तमित्यभिप्रायः ॥५ ॥
नारायणस्तूत्तरस्य तौ वाक्प्राणाभिधौ मतौ ॥ मध्यस्थः संहितानामा सोऽर्धनारीपुमात्मकः । वेदात्मकत्वाद् वाङ्नाम्नी लक्ष्मीरेव प्रकीर्तिता ॥ प्राणनामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम् । रमित्यानन्द उद्दिष्टः सम्भोग्यं थमुदाहृतम् ॥ विष्णुभोग्या रतितरा लक्ष्मीरेव रथन्तरम् । नारायणो बृहत्वात्तु बृहन्नामा प्रकीर्तितः ॥ रथन्तरस्य बृहतो देवते चैव तावुभौ । वाक्प्राणसंस्थितौ चैव ताभ्यामेव हि सन्धितम् ॥ लक्ष्मीनारायणं रूपं संहितानामकं शुभम् । एतां विद्यामवाप्तुं हि वत्सरं गा अरक्षत ॥
तार्क्ष्य एतावन्मात्रं च समुद्दिश्य न चापरम् ।
द्वयं द्वयं देवतानां मिलितं हरिशर्ववत् । संहितानामकं तत्र वर्णमध्यस्य देवता ॥ तयोरेकं देवतयोः परमन्यत् तथाऽवरम् । अवरस्य परस्यापि संयोगात् संहिता तु सा ॥ प्रोक्ताऽवरपरेत्येव वाक्प्राणाख्यौ रमाच्युतौ । संहितैका तथैवान्या केशवो वायुसंयुतः ॥ वायुः स पवमानाख्यो देवताश्चाखिला अपि । तृतीया संहिता प्रोक्ता देवतास्ताः सशङ्कराः ॥ चतुर्थी संहिता प्रोक्ता शङ्करो ब्रह्मणा सह । पञ्चमी संहिता चैव संहिता मोक्षदा इमाः ॥ प्रथमायां द्वितीयायां विष्णुरेव परो मतः । तृतीयायां वायुरेव चतुर्थ्यां सर्वदेवताः ॥ विरिञ्च एव पञ्चम्यामवरा इतरे ततः । प्रथमायां संहितायामवरो वामभागगः ॥ द्वितीयायां तु परमस्तृतीयायां तथाऽवरः । चतुर्थ्यां परमश्चैव पञ्चम्यां वामगोऽवरः ॥ अवराद्याः परान्ता यदेताः सर्वाश्च संहिताः । ततोऽवरपराः प्रोक्ता नैवोक्तास्ताः परावराः ॥ अभिमानी द्युलोकस्य शिवः सर्वस्य लोकनात् ।
द्योतनाच्च ....
आत्मार्थेऽथ परार्थे वा चिन्तयेदेवमञ्जसा । विद्वांसो देवता यस्मात् सम्यक्तेन महत्फलम् ॥ तेषामेव हरिश्चैव संहितारूपकः प्रभुः । अगमद्देवलोकं हि कर्तुं देवेष्वनुग्रहम् ॥
इति चिन्तयतस्तेषां प्रसादात् फलमञ्जसा ।
मन्यतेऽस्याः पुत्रवच्च देवं नारायणं प्रभुम् । वेदैर्हि व्यज्यते विष्णुः सा च वेदाभिमानिनी ॥ प्राणस्थो भगवान् विष्णुः प्राणनामा प्रणेतृतः । ब्रह्मणोऽपि पिता नित्यं भगवान् पुरुषोत्तमः ॥ उपचर्यते पुत्र इति वेदैर्यद्व्यज्यते हरिः ।
सा देवी संहितानाम्नी वाच्योऽस्या विष्णुरेव हि ॥
विष्णुरेवादितिर्नाम सर्वस्यात्ता यतः प्रभुः ॥ स एव पितृसंस्थस्तु पातृत्वात् पितृनामकः । देवतोत्तरवर्णस्य मातृस्थो मातृनामकः ॥ माननात् पूर्ववर्णस्य देवतेति प्रकीर्तितः । पोषकत्वात् सन्धिनामा वर्णयोरन्तरस्थितः ॥ स एव पुत्रसंस्थश्च पुत्रनामा जनार्दनः । त्राणात् पूर्तित एवासौ वर्णसन्धानकर्मणि ॥ सन्धाननामा सन्धानकर्तृत्वात् पुरुषोत्तमः । प्रजातिकर्मसंस्थश्च स एव प्रजनाभिधः ॥ जनकत्वात् परो विष्णुरेवं विष्णुर्हि संहिता । वासुदेवादिरूपेण चतुर्धैवं व्यवस्थितः ॥ स एव दिवि संस्थश्च द्युनामा क्रीडनात् प्रभुः । अन्तरेवेक्षणाच्चैव सोऽन्तरिक्षोऽन्तरिक्षगः ॥ पृथिवी पृथिवीस्थश्च प्रथितत्वाज्जनार्दनः । मुख्यार्थत्वात् सर्वनाम्नां सर्वदेवाभिधो हरिः ॥ विश्वे देवा इति प्रोक्तो बहुधा तेषु संस्थितः । ज्ञानद्युतेर्देवनामा स्थितो देवेषु केशवः ॥ गां धारयंश्च गन्धर्वो गन्धर्वेषु व्यवस्थितः । माननान्मानुषो नाम मानुषेषु स्थितो हरिः ॥ पालनात् पितृनामासौ पितृष्वेव व्यवस्थितः । रतेः प्राणेऽसुराख्यश्च सोऽसुरेषु व्यवस्थितः ॥ एवं पञ्चजनेषुस्थो हरिः पञ्चजनाभिधः । जातनामा जातसंस्थः प्रादुर्भूतगुणत्वतः ॥ जनिक्रियास्थितश्चासौ जनित्वमिति गीयते । जनिं यस्मात् तवयति तवनं हि प्रकाशनम् ॥
इति च ।यापयामासतुर्विष्णोर्हविर्नाम्नो हविर्मुखे ॥ अनुष्टुब्देवता यस्तु नृसिंहो जगतोऽस्य च । स्वमुखे हवनादेव हविरित्यभिधीयते ॥ तस्मिन् यज्ञे वसिष्ठस्तु चतूरूपाज्जनार्दनात् । आजहार श्रियं देवीं रथन्तरवराभिधाम् ॥ चतुर्मूतिः स्तुतस्तेन प्रेषयामास तां श्रियम् । सा चास्मै प्रददौ विद्यां प्रययौ च पुनर्हरिम् ॥ धातेत्युक्तोऽनिरुद्धस्तु प्रद्युम्नस्तु द्युनामकः । वासुदेवः प्रसविता सर्वस्य प्रसवाद्विभुः ॥ सङ्कर्षणो विष्णुनामा प्रणेतृत्वाद् बलादपि । चतूरूपं परं विष्णुं राजानौ प्रथसप्रथौ ॥ भरद्वाजौ वसिष्ठश्च ध्यात्वाऽविन्दन् परात् परम् । यजनीयो यजुर्नामा विष्णुः सङ्कर्षणाभिधः ॥ जीवानां स्कन्दनादेव स्कन्नः प्रद्युम्न उच्यते । प्रथमो वासुदेवस्तु देवयानोऽनिरुद्धकः ॥ प्राप्यो देवैर्यतो नित्यमनिरुद्धाभिधो हरिः । तस्मादेवं चतुर्मूर्तेः स्तुतिसन्तोषिताद्धरेः ॥ आजहार भरद्वाजो रूपं नारायणाभिधम् । तद्बृहन्नामकं विष्णोश्चातुरात्म्यात् समुद्गतम् ॥ भरद्वाजमुपागम्य प्रादान्मोक्षवरं परम् । चतुर्मूर्तिः स भगवानग्निरित्यभिधीयते ॥ अग्र्यत्वात् सर्वभूतानाम् एवं चत्वार एव ते । अविन्दंस्तं चतुर्मूर्तिं साक्षान्नारायणं प्रभुम् ॥ गुहायां संस्थितमपि ह्यतीव हितमस्य च । सर्वज्ञत्वाद्यज्ञनाम्नो विष्णोस्तेजः परं हि तत् ॥ तस्मादेव चतुर्मूर्तेः सूरिप्राप्यत्वहेतुतः । सूर्यनाम्नोऽहरन् घर्मनामानं तं नृसिंहकम् ॥ घर्षणात् सर्वलोकस्य नृसिंहो घर्म उच्यते । निर्गत्य स चतुर्मूर्तेर्विप्रक्षत्राभिसंस्तुतात् ॥ प्रथादीनां चतुर्णां च पुरुषार्थचतुष्टयम् । दत्वा जगाम भगवान् स्वकीयां तनुमेव च ॥ वसिष्ठाच्च भरद्वाजाद्धोत्रध्वर्य्वोर्नृपौ तु तौ । यथेष्टसिद्धिं सम्प्राप्तौ सम्यगिष्टाज्जनार्दनात् ॥
इत्याद्यृग्वेदसंहितायाम् ।परमानन्दरूपत्वात् सुपर्ण इति नामकः ॥ रमयामास तस्यां च निषण्णः सर्वदैव सः । एक एव च विष्णुः स प्रविष्टः क्षीरसागरम् ॥ सर्वं पश्यत्यसौ देवः पूर्णाकुण्ठेन चेतसा । परिपक्वेन मनसाऽपश्यमित्याह तं त्वजः ॥ मातेव व्यञ्जकत्वात् तं प्राणस्थं वाक् सरस्वती । लिहते लिह्यत इव प्राणस्थेन तु सा सदा ॥ स्वयं तु भगवान् विष्णुर्वाक्पतेर्ब्रह्मणोऽपि हि ।
नित्यः पिता स्वतन्त्रश्च नास्य माता पिताऽपि च ॥ इत्यादि च ॥ ६ ॥द्वितीयोऽध्यायः
तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः ॥ तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः । विष्णुनामाऽक्षरेष्वेवमन्येष्वपि तदर्थतः ॥ प्राणनामापि भगवान् प्राणस्थश्चोष्मसु स्थितः । ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः ॥ पूर्णत्वादात्मनामासौ प्रतिमात्वादमुष्य तु । सङ्घात आत्मशब्दोक्तो ह्यस्थिरश्चास्थिनामकः ॥ अस्थिस्थितो हरिः स्पर्शसंस्थितः स्पर्शनामकः । स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः ॥ मज्जासुस्थो स मज्जाख्यो मदं जनयतीति ह । स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः ॥ प्रमाणं सारयेद्यस्मान्मांसाख्यो मांससंस्थितः ।
लोहिताख्यो रक्तवर्णो लोहितस्थो जनार्दनः ॥
तत एव विभक्तानि सङ्ख्या तेषां पृथङ् न तत् ॥ तस्मात् सप्तशतान्येव देहे विंशच्च तस्य हि ।
रूपाणि विष्णोर्भागे तु षष्ठ्युत्तरशतत्रयम् ॥
अहर्नामा च भगवानहार्यत्वात् प्रकीर्तितः ॥ अहोभिः समसङ्ख्यानि यस्मादध्यात्मगानि तु । रूपाणि विष्णोस्तेनायमहस्संमान उच्यते ॥ पूर्णदर्शनशक्तित्वाच्चक्षुर्मय उदीरितः । तादृक् श्रवणशक्तित्वात् तथा श्रोत्रमयः स्मृतः ॥ छन्दोमयः सत्यकामो मन्तृवक्तृबलात्मकः । एवं विद्वांस्तस्य रूपाण्याप्नोति ज्ञानपुत्रवान् ॥
पीयमानं शमाप्नोति प्राप्याहर्नामकं हरिम् ॥ १ ॥
अशीत्युत्तरसाहस्ररूपं वर्णेषु संस्थितम् ॥ विष्णुनाम्नोऽथवान्येषु पञ्चाशत्सङ्ख्यकेष्वपि । तावत् सङ्ख्यानि देहेषु पृथङ्मज्जास्थिपर्वसु ॥ रूपाणि विष्णोस्तावन्ति चेष्टकानि पृथक् पृथक् । अर्कस्थितबृहत्याख्यरूपाण्यह्नां च सर्वशः ॥ सम्पादकानि तान्येव तान्यक्षरमितानि च ।
अस्थ्यादिस्थितरूपाणि तान्युपास्य विमुच्यते ॥ इति च ।सन्धानात् सन्धिनामासौ स्वयं नारायणः प्रभुः ॥ सन्ध्यूष्माक्षरगाण्यस्य विष्णो रूपाणि सर्वशः । सन्ध्यारात्रिदिवास्थानि साशीतिकसहस्रकम् ॥ तान्येवास्थिषु मज्जासु पर्वस्वपि च सर्वशः । परज्ञानात् तु पर्वाणि विष्णो रूपाणि तानि हि ॥ अस्थानान्मदनाच्चैव ह्यस्थिमज्जाभिधानि च । व्यक्तिर्मज्जासु तस्यैव प्राणो मज्जासु संस्थितः ॥ मज्जैव रेतो भवति रेतसिस्थो विशेषतः । प्राणस्तेन हि तद्रेतोयुक्तं प्राणेन सर्वदा ॥ यदि प्राणो न तद्रेतो न गर्भत्वं व्रजेत् क्वचित्। विशेषप्राणसम्बन्धवर्जितान्यत एव हि ॥ न मांसादीनि गर्भत्वं यान्त्यतः स हि रेतसि । विशेषेण स्थितः प्राणः प्राणे चैव विशेषतः ॥
स्थितो नारायणो देवस्तस्मान्मज्जासु च स्थितः ॥इति च ।विष्णुः प्रवर्तको रूपैर्बृहत्युक्थस्य चाञ्जसा ॥ बृहत्युक्थेन वाच्यानि रूपाण्येतान्यधीशितुः ॥
इति च ॥ २ ॥
स हि मोक्षप्रदो विष्णोराज्ञया स उवाच ह ॥ सर्वदेहाभिमानी तु शरीरपुरुषः शिवः । सर्ववर्णाभिमानी च शेषोऽसौ छान्दसः पुमान् ॥ सर्ववेदाभिमान्येव गरुडो वेदपूरुषः । संवत्सराभिमानी तु ब्रह्मैव हि महापुमान् ॥ सारः शिवस्यानिरुद्धनामा देहस्थितो हरिः । अ इत्याक्रियते यस्माद् वासुदेवो ह्यकारकः ॥ शेषस्य सारः स विभुर्ब्रह्माख्यो ज्ञानबृंहणात् । सङ्कर्षणाख्यस्तु हरिः सारः स गरुडस्य च ॥ ब्रह्मर्त्विक्संस्थितश्चासौ तस्माद् ब्रह्मिष्ठमेव हि । कुर्याद् ब्रह्मर्त्विजं तस्मिन् विशेषेण स्थितो हरिः ॥ ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः । स एवादित्यसंस्थश्च स ह्यादिर्जगतो विभुः ॥
ततश्च सर्वभूतेषु जीवानां विनियामकः ।
स एव सर्वदेहेषु चानिरुद्धतनुः स्थितः । सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः ॥ प्रतिपूरुषमेतस्मात् स्थितो विष्णुर्नियामकः । आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रति प्रति ॥ स चेतनतमत्वाद्धि चित्रमित्यभिधीयते । मुख्यत्वात् सर्वदेवानामननादीशितृत्वतः ॥ कर्तृत्वादप्यनीकं स उदैत् सूर्यस्थितो हरिः । ज्ञानदत्वाच्च देवानां चक्षुरेनेन दर्शनात् ॥ आपूरयत्सर्वलोकान् प्रकाशेन जनार्दनः । आदानात् सर्वजीवानामत्तृत्वात् प्रलयेऽपि च ॥
आत्मेत्युक्तः स भगवान् जगतः स्थावरस्य च ।
ज्ञायते पूर्ववर्णस्य रूपं नारायणाभिधम् । प्रादुर्भावाः समस्ताश्च चरमार्णस्य देवताः ॥ तदा तु संहितां सम्यङ् मन्येऽहं सन्धितामिति । आह वायुरिमं विष्णुं बृहत्युक्थस्य देवताम् ॥ महाव्रताख्यस्तोत्रस्य चेष्टकानां च देवताम् । एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकम् ॥ संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः । नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः ॥ अनन्तमूर्तिर्ब्रह्मासावनन्तजगदास्थितः । नियामकस्तस्य विष्णुस्तावद्रूपेषु संस्थितः ॥ तत्संवत्सरसम्मानः स विष्णुः परमेश्वरः ॥ ३ ॥ य एनं वक्त्ययोग्येभ्यो योऽथ चैनं महाव्रते । कर्मण्याचार्यतोऽन्यस्य शंसेत पितृतोऽथवा ॥ महाव्रतेन स्तोत्रेण स्तुवीतैनमथापि वा । महाव्रते चितिं वापि कुर्यान्नास्य फलं श्रुतेः ॥ सुकृतस्य फलं चैव नासौ सम्यगवाप्स्यति । प्रत्यक्षज्ञानिनोऽप्येतदानन्दह्रासकृद्भवेत् ॥ प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते । आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोऽधिकः ॥ गुणाधिकस्य तेनैव शंसनादि न दुष्यति । अयोग्यस्योपदेशे तु कृते हौत्रादिकेऽपि वा ॥ प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् । अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् ॥ योग्या अस्याश्च विद्याया देवा ऋषय एव च ।
एकदेशज्ञानयोग्या मानुषा उत्तमा यदि ॥
प्रीत्यैकदेशसंस्थत्वात् सखायमिति चोदितम् ॥ न विद्यायाः फलं तस्य श्रुतं च नरकावहम् । नैव प्राप्नोति सुकृतं सन्त्यागात् परमात्मनः ॥ मुख्यत्यागो हरेरेव यन्नास्तीति वदेदमुम् । तत्समं वाऽधिकं वाऽपि ब्रूयादैक्यमथापि वा ॥ ऐश्वर्यादिगुणानां वा ह्रासं नास्तित्वमेव वा । तत्प्रसादं विना मोक्षं ब्रूयाद्वा कस्यचित् क्वचित्॥ ऐक्यं वा ब्रह्मशर्वादेर्मुक्तावैक्यमथापि वा । व्यत्यासं चावताराणां जीवाभेदममुष्य वा ॥ भेदज्ञानं तद्गुणानां तेन वाऽथ मिथोऽपि वा । तथैव तत्क्रियाणां च तद्रूपाणामथापि वा ॥ असाम्यदर्शनं वापि तद्गुणानां परस्परम् । देहदेहिविभेदं च तस्मिन्नवयवेषु वा ॥ परस्परं भेददृष्टिं तेन वा कुत्रचित् क्वचित्। दोषसंसर्गमस्यापि स्वतः परत एव वा ॥ अज्ञानतो ज्ञानतो वा निर्देहत्वममुष्य च । तद्देहस्य प्राकृतत्वमचिदानन्ददेहताम् ॥ प्रादुर्भावेष्वपि विभोर्देहत्यागोद्भवादिकम् । अज्ञानदुःखासामर्थ्यपारवश्यादिकं तथा ॥ अतद्वशत्वं कस्यापि कदाचित् क्वचिदप्युत । परिमाणं बलादेर्वा तस्य विष्णोर्महात्मनः ॥ भेदाभेददृशिर्वास्य जीवैर्वा स्वगुणादिभिः । तर्कैस्तस्यापलापो वा तत्र रक्तेन चेतसा ॥ त्यागानामेवमुक्तानां तर्काद्यैः साधनं तथा । अचिन्त्यविभवेऽप्यस्मिन्नसम्भवनिरूपणम् ॥ स एव मुख्यतस्त्यागो वासुदेवस्य कीर्तितः । रमाब्रह्मादिकानां च तारतम्यानभिज्ञता ॥ संशयश्चोक्ततत्त्वेषु जगन्मिथ्यात्वदर्शनम् । अस्मृतिर्वासुदेवस्य तद्भक्तानां च निन्दनम् ॥ द्वितीय एष त्यागस्तु विष्णोरेव प्रकीर्तितः । निषिद्धकर्मकरणं विहितस्य च वर्जनम् ॥ त्यागस्तृतीयो हि हरेश्चतुर्थोऽयोग्यपूरुषे । उपदेशः केशवस्य यथाशास्त्रोदितक्रमात् ॥ आचार्यपित्रोरन्यत्र तथैव च महाव्रते । हौत्रौद्गात्राध्वर्यवाणि त्याग एव चतुर्विधः ॥ त्यागद्वयात् तु प्रथमात् प्राप्यतेऽन्धन्तमः क्रमात् । तृतीयान्निरयप्राप्तिश्चतुर्थान्न दिवं व्रजेत् ॥ उपदिष्टेऽपि यस्तत्त्वे संशयं कुरुते पुमान् । सोऽन्धन्तमो व्रजेदन्यो निरयायैव गच्छति ॥ स एव भगवान् विष्णुरेतैदोषैर्विना यदि । ज्ञायते मुक्तिदः साक्षान्नात्र कार्या विचारणा ॥ यदि ज्ञानं नातिपक्वं सरागं च मनो भवेत् । तदा स्वर्गादिलोकाप्तिः संशयश्चेत् क्वचित्क्वचित्॥ आवृत्तिरेव संसारे यावन्निःसशंयो भवेत् । पुनरावृत्तिहीनं तु तमोऽन्धं मुक्तिरेव च ॥ पूर्वं तु निःसुखं तत्र निर्दुःखं चापरं मतम् । निश्शेषगुणहीनं च पूर्वं निर्दोषकं परम् ॥ विमिश्रगतयस्त्वन्याः पुनरावृत्तिसंयुताः । असुरा देवता मर्त्या योग्या एतेषु च क्रमात् ॥ न च तेषां सङ्करोऽस्ति यथायोग्या हि तद्गतिः । । मानुषेषूत्तमा मुक्तिमधमा निरयं तथा ॥ आप्नुवन्ति मनुष्येषु मध्यमाः सृतिभागिनः । नियमोऽयं नान्यथा स्यादच्छिद्रत्वं यथा भवेत् ॥ दोषेऽथवा गुणे वापि तदा दैत्याः सुरा अपि । स्वां स्वां गतिं समायान्ति तावत् संसारभागिनः ॥ अच्छिद्रत्वं नैव सर्वैः कदाचित् प्राप्यते यतः । सृष्टिस्थितिलयादीनां नोच्छेदस्तेन कुत्रचित् ॥ तस्माद्दोषान् प्रहायैव विष्णुं सर्वोत्तमोत्तमम् ।
जानीयात् तेन मुक्तिः स्यादपरोक्षदृशेरनु ॥
अनिरुद्धश्च हृदये न च भेदोऽनयोः क्वचित्॥ अन्येषामपि रूपाणामिति विद्याद् विचक्षणः । द्विरूपः स यदा विष्णुरपगच्छति देहतः ॥ तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित्। तस्मात् तेषां दर्शने तु कर्तव्यं पारलौकिकम् ॥ सर्वमेव जपेच्चैव यदन्तीत्यादिका ऋचः । ऋग्भिः षडि्भर्वायुरेव पवमानादिना मतः ॥ स्तूयते सोऽङ्गनेतृत्वादग्निरित्यभिधीयते । परस्य ब्रह्मणो विष्णोर्ज्ञापनाख्यप्रसूतिभिः ॥ वायुः पुनाति यल्लोकान् सविता तेन कथ्यते । पवित्रं नाम साक्षात् तत्परं ब्रह्म जनार्दनः ॥ प्रसादयित्वा तं विष्णुं तेन लोकान् पुनात्यसुः । ज्ञानाख्यप्रसवेनापि स्वयं वायुः पुनात्ययम् । प्राणाग्नेरर्चिषो देहे विततास्तेषु केशवः ॥ अचिष्मान् विततो नित्यं वायुस्तेन पुनात्ययम् । यत्र ब्रह्मेति षडि्भश्च प्रार्थनीयः स मारुतः ॥ मोचयित्वैव संसारद्विष्णोर्लोके कृधीति च । आदित्प्रत्नस्येति विष्णुः स्तुत्यो वैकुण्ठलोकगः ॥ आदित्यमण्डलस्थश्च साक्षान्नारायणः प्रभुः । उद्वयं त्वितिमन्त्रेण स्तुत्यो वायोरपीश्वरः ॥ अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद् व्रजेत् । कालमृत्युर्यदि भवेत् तथा जन्मादिकं भयम् ॥ अन्याभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् । लोकं व्रजेत् तथाऽन्याभ्यां विष्णुर्मोक्षसुखप्रदः ॥ इष्टप्रदानशीलत्वादिन्दुर्वायुः स एव च । सोमः सौम्यस्वरूपत्वात् पवमानश्च पावनात् ॥ विष्णुः पुरातनत्वात् तु प्रत्नो रेतो महारतिः । देवत्रा देव एवासौ सर्वदेवेश्वरो यतः ॥
सूर्यश्च सूरिभिः प्राप्यो नित्यानन्दो रमापतिः ।
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यते । तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा ॥ अत इत्युच्यते विष्णुः सम्यक्श्रुत्याद्यशक्यतः । पूर्णत्वाद् भगवान् विष्णुरश्रुतत्वादिनोदितः ॥ अन्तस्थः सर्वजीवानां पूर्णत्वात् पुरुषाभिधः । समः स सर्वरूपेषु सर्वजीवनियामकः ॥
इति विद्यात् परं विष्णुं मुच्यते तेन संसृतेः ॥ इत्यादि च ।सुखमानन्द इत्युक्तो मोदो भोगनिमित्तकः ॥
प्रमोदस्तद्विशेषोत्थो मुन्नामात्यल्पभोगतः ॥ इत्यृग्वेदसंहितायाम् ।पायसेन हरेन्मृत्युं रात्रिसूक्तादकालिकम् ॥ यदि कालिकमृत्युः स्यात् पदं सा परमं नयेत् । सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा ॥ रतिदत्वात् परो विष्णुर्मुख्यतो रात्रिरुच्यते । तदाश्रयत्वाद् दुर्गाऽपि रात्रिरित्यभिधीयते ॥ स्त्रीरूपः स परो विष्णुः पायसेष्टो हि मोक्षदः । तस्मादुभौ सहैवेज्यौ भक्त्या दुःस्वप्नदर्शने ॥ बहुभिर्नयनैर्विष्णुर्बहुधेदं ददर्श ह । आयन् सर्वेषु लोकेषु धृतास्तेनैव हि श्रियः ॥ नीचानुच्चांश्च जीवान् स ब्रह्मादीनुर्वपूरयत् । ज्ञानेन बाधतेऽज्ञानं स्वसारं स्वं तथाऽकरोत् ॥ उषआख्यं शुक्लवर्णं प्रमदारूपमेव च । तमश्चापाकरोत्येव तदा सूर्यादिषु स्थितः ॥ स नः स्वामी यदुदरे यमनाद्यमनामके । अविक्ष्महि वयं सर्वे वृक्षे यद्वत्पतत्रिणः ॥ शेनाख्यास्तु सुखीनत्वादासमन्तात् सुरोत्तमाः । पद्वन्तो मानुषाश्चैव पादमात्रप्रयायिनः ॥ ग्रामाख्या बहुलत्वात्तु दैत्या एव प्रकीर्तिताः । अर्थिनस्तु कृतार्थत्वात् मुक्ता एव श्रुताः श्रुतौ ॥ ऊरीकृतप्रमाणत्वादूर्म्यः स भगवान् हरिः । वृकास्तेनैव निर्याप्याः वृकाः क्रूरत्वतोऽसुराः ॥ तत्स्वभावाश्च वृक्याः स्युः स्तेनास्तत्र महासुराः । ब्रह्मस्तेना यतस्ते हि नित्यमैकात्म्यवेदिनः ॥ विष्णुः सुखतरश्चैव भक्तानां भवति प्रभुः । कृष्णं व्यक्तं तमोऽज्ञानमज्ञानां पेशलं हि तत् ॥ तद्यातयत्यृणमिव भगवान् पुरुषोत्तमः । स एव चोषाः कथितः प्रकाशत्वाज्जनार्दनः ॥ जयिनः स्तोममिव च ब्राह्मणाय यथा च गाः । उपाकरं तथा स्तोमं तवाहं तद्वृणीष्व च ॥ द्यौरिति ज्ञानमुद्दिष्टं तद्व्यङ्गत्वाज्जनार्दनः । दुहिता दिव इत्युक्तः एवमर्थेन पूज्यते ॥ रात्रीसूक्तेन भगवान् साक्षान्नारायणः प्रभुः । तत्सन्निधानाद् दुर्गाया एषोऽर्थ उपचारतः ॥ एवं स्तुतस्तथैवेष्टो भगवान् मोक्षदो भवेत् । यदन्तीत्याद्यृचः सर्वा अपि दुःस्वप्नदर्शने ॥ जप्या एव विशेषोऽयं होमो दुःस्वप्नदर्शने । परोक्षज्ञानिनो विष्णुरापरोक्ष्यं व्रजेत् त्वरन् ॥ अपरोक्षदृशः प्रीतः सुखाधिक्यं करोत्यतः । मुक्तस्य द्विविधैस्तस्माज्जपो योगश्च सर्वथा ॥ कर्तव्यो न्यासिभी रात्रिसूक्तं जप्यं त्रिशोऽञ्जसा ॥
इत्यैतरेयसंहितायाम् ॥ ४ ॥
दैवी वीणा ततः सेयं लोकसिद्धा तु मानुषी ॥ ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः ।
विद्यापूर्णसुखः स स्याद्भूमिपूरितकीर्तिमान् ॥
ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि संस्थितम् ॥ ओष्ठा पिधानेत्येषा ह्यृक्सारो वाचः प्रकीर्तितः । विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ पिधानवत् ॥ कुलीति चोक्तो भगवान् प्रलीनाशेषकुत्सितः । पाति सर्वं विशिष्टश्च सर्वस्मादित्यतः पविः ॥
सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां सुवादयेत् ॥ इति च ।
तेनैव सम्यक्सन्धाय दार्ढ्यं देहस्य सोऽकरोत् ॥
सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः
ण इत्याक्रियमाणत्वात् णकारोऽस्य बलं मतम् । विष्णुनाम्नि षकारेण रमाब्रह्मेशपूर्विणः ॥ प्रणेतृताऽखिलस्यैव विष्णोरुक्ता तथात्मता । आततत्वं सर्वगुणैर्देशतः कालतस्तथा ॥ आत्मशब्दोदितं तच्च षशब्देनाभिधीयते । ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता ॥ विष्णोः षकार इत्युक्ता वीत्युक्तस्य विशिष्टता । अन्त्यस्थित उकारस्तु ताच्छील्यादि हरेर्वदेत् ॥ एवं विशिष्टप्राणत्वमाततत्वं च सर्वतः । विशिष्टं च बलं विष्णोः सर्वस्माच्छीलमित्यपि ॥ उदितं विष्णुशब्देन तस्मादृक्संहितामनु । वर्णद्वयसमायोगे ष्णुशब्दस्यार्थमेव तु ॥ विष्णोः प्राणत्वमात्मत्वं बलं चैवात्र वेत्ति यः । स एव विष्णोर्बलवित् तथा प्राणत्वविद्भवेत् ॥
स एव मुक्तः संसारान्नित्यायुष्मान् भविष्यति ।
वेदानन्यान्पुराणं वा तेन विष्णुपदोदितः । अवाप्तो भगवान् स्यान्नस्तन्नामार्था यतोऽखिलाः ॥
इत्याहुर्ऋषयः सर्वे ...
यज्ञैर्वेत्यृषयोऽप्यन्ये कावषेया वदन्ति हि ॥ मौनेन विष्णुशब्दार्थं ध्यायन्तो वाचमेव वा । जुहुमो विष्णुनामाख्यां जपन्तो मन्त्रमेव वा ॥ नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि । किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः ॥ एतदर्थानुसन्धानपूर्वं वेदानथापि वा । अधीमहे यजामो वा नान्यथा तु कथञ्चन ॥ एष एव हि सर्वेषां वेदानामर्थ ईरितः । विष्णुनामोदितो योऽर्थस्तद्व्याख्याऽन्यद्वचोऽखिलम् ॥ एवं विशिष्टप्राणात्मबलाद्यखिलसद्गुणैः ।
पूर्णस्वभावः सर्वेषां वचसामर्थ ईरितः ॥
अन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं क्वचित्॥ व्याख्यानशक्तिहीनाय नैव ब्रूयात् कथञ्चन । वैष्णवाय सुवृत्ताय सुव्रताय सुशिक्षिणे ॥ शान्ताय सुविशुद्धाय मेधाश्रद्धायुताय च ।
गुरोः शुश्रूषकायैव ब्रूयादित्यनुशासनम् ॥ इति च ।बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं
वपुर्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥ भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः । ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥ प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ॥ यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥
इति च ।हनुमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥ पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः ॥ दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥ आसमन्तात् पतित्वे तु गूढं कलियुगे हरिम् । असत्यमप्रतिष्ठं तु जगदेतदनीश्वरम् ॥ वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति । येन विष्णोर्हि वर्पाख्यान् गुणानज्ञासिषुः परान् ॥ ईशानासः सूरयश्च निगूढाभिर्गुणोक्तिभिः । त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ॥ येषां हि परमो विष्णुर्नेता सर्वेश्वरेश्वरः ।
स्वयम्भुब्रह्मसञ्ज्ञोऽसौ परस्मै ब्रह्मणे नमः ॥ इति च ।