Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A026: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:10, 2 March 2026

असम्भवाधिकरणम्

ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ 09-227 ॥


‘असद्वा इदमग्र आसीत्। ततो वै सदजायत’’असतः सदजायत’। इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेन्न ।





‘अजायमानो बहुधा विजायत’ इति च ।


‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन । पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥


विकार एव जननं पुरुषे तद्विशेषणम् ।

परतन्त्रविशेषो हि विकार इति कीर्तितः’

इति पाद्मे ॥


‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः । विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥