ब्रह्मसूत्रभाष्यम्/C02/S03/A026
Appearance
असम्भवाधिकरणम्
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ 09-227 ॥
‘असद्वा इदमग्र आसीत्। ततो वै सदजायत’’असतः सदजायत’। इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेन्न ।
इति श्रुतेरसच्छब्दो ब्रह्मवाची ।
इति च पैङ्गीश्रुतिः।
इति भागवते ॥
‘अजायमानो बहुधा विजायत’ इति च ।
‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन ।
पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥
विकार एव जननं पुरुषे तद्विशेषणम् ।
परतन्त्रविशेषो हि विकार इति कीर्तितः’
इति पाद्मे ॥
‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।
विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥
इति भागवततन्त्रे ॥ 09 ॥‘शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन ।
अविभिन्नाऽपि सेच्छादिभेदैरपि विभाष्यते’