Jump to content

Page values for "Satprashna"

"Adhyaya__NEXT" values

6 rows are stored for this page
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C1
chapter_numString1
titleStringप्रथमप्रश्नः
title_transString
has_introBoolean
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C2
chapter_numString2
titleStringद्वितीयः प्रश्नः
title_transString
has_introBoolean
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C3
chapter_numString3
titleStringतृतीयः प्रश्नः
title_transString
has_introBoolean
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C4
chapter_numString4
titleStringचतुर्थः प्रश्नः
title_transString
has_introBoolean
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C5
chapter_numString5
titleStringपञ्चमप्रश्नः
title_transString
has_introBoolean
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C6
chapter_numString6
titleStringषष्ठः प्रश्नः
title_transString
has_introBoolean

"Verses__NEXT" values

43 rows are stored for this page
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V01
verse_typeStringmantra
verse_textTextसुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः । ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः । एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V02
verse_typeStringmantra
verse_textTextतान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V03
verse_typeStringmantra
verse_textTextअथ कबन्धी कात्यायनः उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः। स तपोऽतप्यत ॥ ३ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V04
verse_typeStringmantra
verse_textTextस मिथुनमुत्पादयते । रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V05
verse_typeStringmantra
verse_textTextरयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ॥ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यद् दक्षिणां यत्प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V06
verse_typeStringmantra
verse_textTextस एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V07
verse_typeStringmantra
verse_textTextसंवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते । कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V08
verse_typeStringmantra
verse_textTextअथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V09
verse_typeStringmantra
verse_textTextमासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतर इतरस्मिन् । अहोरात्रे वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V10
verse_typeStringmantra
verse_textTextअन्नं वै प्रजापतिः । ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ॥ ये मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V01
verse_typeStringmantra
verse_textTextअथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V03
verse_typeStringmantra
verse_textTextतान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V04
verse_typeStringmantra
verse_textTextतद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं चेति । ते प्रीताः प्राणं स्तुन्वन्ति । एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V05
verse_typeStringmantra
verse_textTextअरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥ ५ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V06
verse_typeStringmantra
verse_textTextप्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमाः यत् प्राणैः प्रतितिष्ठसि ॥ ६ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V07
verse_typeStringmantra
verse_textTextदेवानामसि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाऽङ्गिरसामपि ॥ ७ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V08
verse_typeStringmantra
verse_textTextइन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ८ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V09
verse_typeStringmantra
verse_textTextयदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ ९ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V10
verse_typeStringmantra
verse_textTextव्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः । वयमद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ १० ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V11
verse_typeStringmantra
verse_textTextयाते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ ११ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V12
verse_typeStringmantra
verse_textTextप्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १२ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V01
verse_typeStringmantra
verse_textTextअथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रतिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात् तेऽहं ब्रवीमि ॥ आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V03
verse_typeStringmantra
verse_textTextमनोकृतेनायात्यस्मिञ्छरीरे ॥ यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V04
verse_typeStringmantra
verse_textTextपायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V05
verse_typeStringmantra
verse_textTextअत्रैतदेकशतं नाडीनाम् । तासां शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरति । अथैकयोर्ध्वं उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V06
verse_typeStringmantra
verse_textTextआदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V07
verse_typeStringmantra
verse_textTextयच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ॥ य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V01
verse_typeStringmantra
verse_textTextअथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवन्ति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V03
verse_typeStringmantra
verse_textTextप्राणाग्नयः एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते । प्रणयनादाहवनीयः प्राणः ॥ यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V04
verse_typeStringmantra
verse_textTextअत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति । अथ यदेतस्मिन् शरीरे सुखं भवति ॥ ४ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V05
verse_typeStringmantra
verse_textTextस यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते । एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V06
verse_typeStringmantra
verse_textTextएष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स यो ह वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C05
verse_idStringSPB_C05_V01
verse_typeStringmantra
verse_textTextअथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C05
verse_idStringSPB_C05_V02
verse_typeStringmantra
verse_textTextस यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C05
verse_idStringSPB_C05_V03
verse_typeStringmantra
verse_textTextतदैतौ श्लोकौ भवतः ॥ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V01
verse_typeStringmantra
verse_textTextअथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तं मह्यं ब्रवीहीति । तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ॥ स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V03
verse_typeStringmantra
verse_textTextस यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V04
verse_typeStringmantra
verse_textTextतदेष श्लोकः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V05
verse_typeStringmantra
verse_textTextतान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥
commentariesList of String, delimiter: ,