Jump to content

Satprashna

From Grantha
षट्प्रश्नोपनिषद्भाष्यम्

प्रथमप्रश्नः

नमो भगवते तस्मै प्राणादिप्रभविष्णवे । अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ।

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः । ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः । एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥


तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥


अथ कबन्धी कात्यायनः उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः। स तपोऽतप्यत ॥ ३ ॥


प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।
स मिथुनमुत्पादयते । रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥


स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ॥

सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः ।

तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः ॥
रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ॥ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यद् दक्षिणां यत्प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥


अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती ।

आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ॥ प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः । प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः । शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ ।

सभार्याः कोणपैः सार्धं चत्वारो दिशि दिश्यपि ॥
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।


संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते । कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥


अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।तदेष श्लोकः ॥


संवत्सरस्थो भगवान् वागीरावयनस्थितौ ।
मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतर इतरस्मिन् । अहोरात्रे वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥


मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ॥

अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि । दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती । भर्तृस्थः स स्वयं वायुरेवं जानन् विमुच्यते ॥

इति प्रजापतिसंहितायाम्
अन्नं वै प्रजापतिः । ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ॥ ये मिथुनमुत्पादयन्ते ।तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।


द्वितीयः प्रश्नः

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥


तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥


वायुरग्निरित्यत्र भूतवायुरुच्यते ।
तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥


प्राणशब्देन प्रधानवायुः ।
तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं चेति । ते प्रीताः प्राणं स्तुन्वन्ति ।एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥


अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥ ५ ॥


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।तुभ्यं प्राण प्रजास्त्विमाः यत् प्राणैः प्रतितिष्ठसि ॥ ६ ॥


देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।ऋषीणां चरितं सत्यमथर्वाऽङ्गिरसामपि ॥ ७ ॥


इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ८ ॥


यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ ९ ॥


व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।वयमद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ १० ॥


याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ ११ ॥


प्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १२ ॥


इति द्वितीयप्रश्नः ।

तृतीयः प्रश्नः

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रतिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥


तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात् तेऽहं ब्रवीमि ॥ आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २ ॥


आत्मतः परमात्मतः॥
मनोकृतेनायात्यस्मिञ्छरीरे ॥ यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥


विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः ।

प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् ॥ स्वयं च पञ्चरूपस्सन् दद्यान्मोक्षादिकं प्रभुः ॥

इति प्रभञ्जने
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥


अत्रैतदेकशतं नाडीनाम् । तासां शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरति । अथैकयोर्ध्वं उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥


यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ॥ य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति ।तदेष श्लोकः ॥


॥ इति तृतीयप्रश्नः ॥

चतुर्थः प्रश्नः

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥


तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवन्ति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥


रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया ।

सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात् ॥ एवं विष्णोस्तु सामीप्याद्देवानां सुप्तिगस्य तु ।

व्यवहाराकरत्वाच्च एकीभाव इतीर्यते ॥ इति च
प्राणाग्नयः एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते । प्रणयनादाहवनीयः प्राणः ॥ यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥


अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति । अथ यदेतस्मिन् शरीरे सुखं भवति ॥ ४ ॥


भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति । कस्यैतत्सुखं भवतीति पृष्टत्वात् । न ह्यचेतनस्य शरीरस्य सुखं भवति । यस्यात्मा शरीरमिति च श्रुतिः ।
सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् । सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ॥ इति च
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते ।एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते ॥


एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।स यो ह वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति ।


॥ इति चतुर्थप्रश्नः ॥

पञ्चमप्रश्नः

अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥


स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥


तदैतौ श्लोकौ भवतः ॥तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।


प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च । ज्ञानं चतुर्मुखात् प्राप्य मुच्यते नात्र संशयः ॥
॥ इति पञ्चमप्रश्नः ॥

षष्ठः प्रश्नः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तं मह्यं ब्रवीहीति ।तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥


कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी ।

लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥ तपोभिमानी वह्निश्च वरुणो वीर्यदेवता । अन्नस्य देवता सोमो मनो नामानिरुद्धकः ॥ इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः । रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः ॥ श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया । तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ॥ तस्यापीशः कारणं च वासुदेवः परोऽव्ययः । न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत् ॥

तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम् ॥ इति तत्त्वविवेके ।
तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ॥ स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥


एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥

इति मन्त्रोक्त एव क्रमः । न हीन्द्रियेभ्यो मनः पश्चात् । तत्प्राक् श्रुतेश्च इति च भगवद्वचनम् ॥
विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।

तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥ ततश्च वरुणस्सृष्टस्तस्मादग्निस्ततोऽवरः । आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् ॥ तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः । ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता ॥ उदात्मको बुधस्तस्या उषा नामात्मिका ततः । ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ॥ क्रमात् प्रत्यवरा ह्येते मुक्ताः सर्वगुणैरपि ।

नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः ॥ इति च
स यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥


समुद्रे इत्येव प्रोच्यते । पुरुषे इत्येवं प्रोच्यते । भिद्येते तासां नामरूपे । भिद्येते चासां नामरूपे इत्युक्तत्वात् । अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां विष्णौ स्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः ।
न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः । घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते । नाशस्त्वर्थतः एवावगम्यते । न चात्रार्थतोऽपि नाशोऽवगम्यते । न हि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति । अतो भिद्येते इति पृथक्त्वमेवोच्यते । अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः इति वाक्यशेषाच्च । अतः पुरुषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः । नामरूपाणि नित्यान्येव , अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव ।
प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः । पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ॥ इति सत्तत्त्वे ॥
नामरूपाद्विमुक्तः इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत् । नामरूपे अविहायेति च पूर्वत्र ।
अनन्तं वै नामानन्ता विश्वेदेवाः इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति ।
यत्र पूर्वे साध्या सन्ति देवाः स तत्र पर्येति जक्षन् क्रीडन् रममाणः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु इत्यादेश्च । अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम् ॥
तदेष श्लोकः


तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥


इति षट्प्रश्नोपनिषत् समाप्ता ॥
नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे । परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम् ॥