तत्वविवेकविवरणम्
स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् ।
स्वतन्त्रो भगवान् विष्णुः निर्दोषाखलिसद्गुणः ॥1॥
तत्वविवेकविवरणम्
प्रणम्य रमणं लक्ष्म्याः पूर्णबोधान्गुरूनपि।व्याख्यां तत्वविवेकस्य करिष्यामो यथामति ॥ 1 ॥
ननु परमपुरुषादितत्वानां विवेकः शास्त्र एव कृतः। तत्किमनेन प्रकरणेन। विक्षिप्तसङ्ग्रहार्थमिति चेन्न॥ सङ्ग्रहस्यापि तत्वसङ्ख्याने कृतत्वात्। सत्यं। तथापि तत्वसङ्ख्यानोक्तार्थे साक्षित्वेन भगवत्प्रणीततत्वविवेकगतवाक्यान्येवाचार्यैरुदाहृतानीत्यदोषः।
द्विविधं परतन्त्रं च भावोऽभाव इतीरितः ।
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥2॥
तत्वविवेकविवरणम्
भावइतीरित एका विधा। अभावइतीरितश्चापरा। एवं परतन्त्रं च द्विविधमिति योज्यं॥ ईरितग्रहणाद्ये भावभावविभागं नेच्छन्ति तेषामागमविरोध उक्तो भवति। किं च भावानभ्युपगमे अभाव एव न स्यात्। प्रतियोगिनोऽभावात्। अभावानभ्युपगतौ प्रतीतिविरोधः। विभागानभ्युपगमे तु प्रतीतिविरोध इति। अत्रापि भावाभावपदाभ्यामेव विधिनिषेधात्मकत्वं द्वयोर्लक्षणं सूचितं भवति ॥पूर्ववद्विधाग्रहणेनावान्तरभेदश्च॥
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।
चेतनाचेतनश्चेति भावश्च द्विविधः स्मृतः ॥3॥
तत्वविवेकविवरणम्
तादात्म्यप्रतियोगिकोऽभावोऽन्योन्याभावः। भेद इति यावत्। स च यदधिकरणस्तत्स्वरूपमेव ॥ न तु प्रागभावादिवत्पृथक्प्रमेयमिति नाभावत्रित्वभङ्गः ॥
नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः ।
द्विधैव श्रीर्नित्यमुक्ता सृतियुक्च द्विधा मतः ॥4॥
तत्वविवेकविवरणम्
नित्यमुक्त इति कदापि संसारसम्बन्धो यस्य नास्त्यसावुच्यते। कदाचित्संसारसम्बन्धवान्सृतियुक्।
मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् ।
मुक्ताः शतगुणाः प्रोक्ताः रमा तेभ्योऽखिलैर्गुणैः ॥5॥
तत्वविवेकविवरणम्
अत्र मुक्तामुक्तयोर्मध्ये। हि शब्देन युवा स्यादित्यादिश्रुतिप्रसिद्धिं सूचयति।
नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः ।
अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥6॥
तत्वविवेकविवरणम्
स्वरूपाविर्भाव एव मुक्तिरिति भावः।
मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः ।
नीचा नित्यतमोयोग्या द्विधैवाचेतनं मतम् ॥7॥
तत्वविवेकविवरणम्
तु शब्दोऽवधारणे। तेन यः साधनमनुतिष्ठति स सर्वोऽपि मुच्यत इति मतमपाकृतं भवति।
नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा ।
भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम् ॥8॥
तत्वविवेकविवरणम्
देश शब्देनाव्याकृताकाश उच्यते। काल इति तत्प्रवाहः। श्रुतिः वेदः। भूतानिआकाशादीनि। इन्द्रियाणि एकादश।प्राणःअहंकारकार्यविशेषः। गुणाः सत्वादयो मात्राश्च। उपलक्षणं चैतत्। महदहङ्काराद्यपि ग्राह्यम्।
एषां विकारोऽनित्यः स्यान्नित्या एव हि चेतनाः ।
गुणक्रियाजातिपूर्वा धर्मा सर्वेऽपि वस्तुनः ॥9॥
तत्वविवेकविवरणम्
एषां यथासम्भवं कालादीनां विकारः उपचितादिभागः। तत्र कालस्य क्षणाद्यवयवाः। महदादीनामुपचयांशः। एवमेषां महदादीनां विकारं कार्यं ब्रह्मांडं तदन्तर्गतं सर्वमनित्यमिति।
रूपमेव द्विधं तच्च यावद्वस्तु च खण्डितम् ।
खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत् ॥10॥
तत्वविवेकविवरणम्
तच्च गुणादिकं द्रव्यरूपं द्विधं द्विविधम्।
खण्डितं रूपमेवात्र विकारोऽपि विकारिणः ।
कार्यकारणयोश्चैव तथैव गुणतद्वतोः ॥11॥
तत्वविवेकविवरणम्
अत्र तत्वे। विकारः कार्यद्रव्यं। विकारिणः स्वोपादानद्रव्यस्य। खण्डितमेव रूपं । ततो भिन्नाभिन्नमेवेति।
क्रियाक्रियावतोस्तद्वत् तथा जातिविशेषयोः ।
विशिष्टशुद्धयोश्चैव तथैवांशांशिनोरपि ॥12॥
तत्वविवेकविवरणम्
कार्यमुपादेयं पटादि। कारणमुपादानं नन्त्वादि। तयोर्भेद ऐक्यं चेति योज्यम्॥ चशब्दो वक्ष्यमाणैः सह समुच्चयार्थः। केचित्परमाणव एव तथा तथा सन्निविष्टाः पटादिबुद्धिविषयाः। न तु पटो नामास्तीति ब्रुवते। अन्ये तु कार्यकारणयोरत्यन्तभेदं ब्रुवते ॥ तदुभयनिरासाय एवकारः ॥
य एतत्परतन्त्रं तु सर्वमेव हरेः सदा ।
वशमित्येव जानाति संसारात् मुच्यते हि सः ॥13॥
तत्वविवेकविवरणम्
करतलमिलितामलकप्रख्यं यस्याखिलं विश्वं।कमलापरिवृढममलं वन्दे तं वन्द्यपादाब्जम् ॥ 1 ॥
यद्यपि केवलस्यास्य ज्ञानं न पुरुषार्थोपयोगि तथापि परमपुरुषाधीनतयाऽवगतं भवत्येव मोक्षसाधनमिति द्वे विद्ये वेदितव्ये' इत्यादिश्रुतिसिद्धमिति हिशब्देन सूचयति।