Jump to content

Tattvasankhyana/Vyakhya/TattvasankhyanamTika

From Grantha

तत्वसङ्ख्यानविवरणम्

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥1॥

तत्वसङ्ख्यानविवरणम्
लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ १ ॥

प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥2॥

तत्वसङ्ख्यानविवरणम्
प्राक्त्वेन, प्रध्वंसत्वेन, सदात्वेन च उपलक्षितोऽभावः त्रिविधइष्यते । ‘प्रामाणिकै’रिति शेषः।

दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥3॥

तत्वसङ्ख्यानविवरणम्
कदाचिद्दुःखसंबद्धम् एव दुःखस्पृष्टम् । कदाऽपि दुःखासंबद्धं तदस्पृष्टम् ॥

स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥4॥

तत्वसङ्ख्यानविवरणम्
विमुक्ताःदुःखात्। दुःखसंस्थाःवर्तमानदुःखाः । चशब्दः दुःखसंस्थाःइत्यतःपरं योज्यः । अत्र प्राधान्यक्रमेण उद्देशः ।

देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥5॥

तत्वसङ्ख्यानविवरणम्
पान्तीति पाःचक्रवर्तिनः । नराःमनुष्योत्तमाः । तुशब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं निराचष्टे । गन्धर्वादीनां, केषाञ्चित् एषु एव अन्तर्भावात्, केषाञ्चित् अविवक्षितत्वात् न ग्रन्थान्तरविरोधः ।

इति द्विधा मुक्त्ययोग्या दैत्यरक्षपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः ॥6॥

तत्वसङ्ख्यानविवरणम्
मर्त्याधमाः इत्यतःपरम् इतिशब्दोऽध्याहार्यः ।

ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥7॥

तत्वसङ्ख्यानविवरणम्
ते च चतुर्विधा अपि। सृतिसंस्थिताःसंसारे वर्तमानाः, न अधुनाऽपि तमःप्राप्ताः । योग्यतायाः चैतन्यस्वभावत्वेन, तमोयोग्यानाम् अयं विभागः न अनुपपन्नः ।

नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं स्मृतम् ॥8॥

तत्वसङ्ख्यानविवरणम्
अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां ‘‘नित्या वेदाः समस्ताश्च’’ इत्यादि प्रमाणसिद्धम् । अत्र वेदाइत्युपलक्षणम् । पञ्चाशद्वर्णानां अव्याकृताकाशस्य च तथाभावात् ।

असंसृष्टं च संसृष्टमसंसृष्टं महानहम् । बुद्धिर्मनःखानि दश मात्रा भूतानि पञ्च च ॥9॥

संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् । सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥10॥

तत्वसङ्ख्यानविवरणम्
ननु एषां चतुर्विंशतितत्वानामसंसृष्टत्त्वं नाम यदि एकदेशेन उत्पत्तिः तर्हि अनुत्पन्नस्य असत्वात् उत्पन्नमेव तत्त्वम् । तच्च संसृष्टमेव, इति न द्वैविध्यम् । न च प्रकारान्तरम् अस्ति इति । मैवम् । सूक्ष्मरूपेण नित्यानां महदादीनां प्राकृताद्यंशैः उपचयमात्रं क्रियते इति तानि असंसृष्टानि ।

बन्धो मोक्षः सुखं दुःखमावृत्तिर्ज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥11॥

तत्वसङ्ख्यानविवरणम्
बन्धः प्रकृतेः। मोक्षः बन्धात् । आवृतिज्योतिषीबाह्यतमःप्रकाशौ । एवकारः विष्णुनाइत्यनेन सम्बध्यते । अस्य समस्तस्यअस्वतन्त्रस्य भवन्ति इति शेषः ।