Tantrasarasangraha
Appearance
तन्त्रसारसङ्ग्रहः
प्रथमाध्यायः
जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः ।अनन्तविभवानन्दशक्तिज्ञानादिसद्गुणः ॥1॥
विधिं विधाय सर्गादौ तेन पृष्टोब्जलोचनः ।आह देवो रमोत्सङ्गवलिसत्पादपल्लवः ॥2॥
अहमेकोखलिगुणो वाचकः प्रणवो मम ।अकाराद्यतिशान्तान्तः सोयमष्टाक्षरो मतः ॥3॥
स विश्वतैजसप्राज्ञतुरीयात्मान्तरात्मनाम् ।परमात्मज्ञानात्मयुजां मद्रूपाणां च वाचकः ॥4॥
तद्रूपभेदाः पञ्चाशन्मूर्तयो मम चापराः ।पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ॥5॥
द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः ।अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्बरः ॥6॥
ऋॄघलृशौ लॄजिरैकत्मैर ओजोभृदौरसः ।अन्तोर्धगर्भः कपलिः खपतिर्गरुडासनः ॥7॥
घर्मो ङसारस्चार्वाङ्गश्छन्दोगम्यो जनार्दनः ।झटितारिर्ञमष्टङ्की ठलको डलको ढरी ॥8॥
णात्मा तारस्थमो दण्डी धन्वी नम्यः परः फली ।बली भगो मनुर्यज्ञो रामो लक्ष्मीपतिर्वरः ॥9॥
शान्तसंवित् षड्गुणश्च सारात्मा हंसळाळुकौ ।पञ्चाशन्मूर्तयस्त्वेता ममाकारादलिक्षकाः ॥10॥
नारायणाष्टाक्षरश्च ताराष्टाक्षरभेदवान् ।आद्यैस्तारचतुर्वणैर्भिन्ना व्याहृतयः क्रमात् ॥11॥
अनिरुद्धादिकास्तासां देवता व्युत्क्रमेण वा ।ताश्चतुर्मूर्तयस्त्वेव द्वादशार्णपदोदिताः ॥12॥
नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च ।विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ॥13॥
नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात् पुनः ।वेदमाता च गायत्री द्विगुणा द्वादशाक्षरात् ॥14॥
चतुर्विशन्मूतयोस्याः कथिता वर्णदेवताः ।तद्भेदः पौरुषं सूक्तं वेदाः पुरुषसूक्तगाः ॥15॥
वैदिकास्सर्वशब्दाश्च तस्मात् सर्वाभिधोस्म्यहम् ।पञ्चाशद्वर्णभिन्नाश्च सर्वशब्दा अतोपि च ॥16॥
ऋषिश्च देवतैकोहं तारादीनां विशेषतः ।छन्दो मदीया गायत्री ताराष्टाक्षरयोर्मता ॥17॥
उद्यद्भास्वत्समाभासश्चिदानन्दैकदेहवान् ।चक्रशङ्खगदापद्मधरो ध्येयोहमीश्वरः ॥18॥
लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥19॥
सेव्यमानोधिकं भक्त्या नित्यनिःशेषशक्तिमान् ।मूर्तयोष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ।
तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः ।टङ्की दण्डी च धन्वी च तत्तद्युक्तस्तु वामतः ॥21॥
वासुदेवादिकाः शुक्लरक्तपीतासितोज्ज्वलाः ।शङ्खचक्रगदाब्जेतः प्रथमो मुसली हली ॥22॥
सशङ्खचक्रस्त्वपरस्तृतीयः शार्ङ्गबाणवान् ।सशङ्खचक्रस्तुर्यस्तु चक्रशङ्खासिचर्मवान् ॥23॥
केशवो मधुसूदनः सङ्कर्षणदामोदरौ ।सवासुदेवप्रद्युम्नाः दक्षोच्चकरशङ्खिनः ॥24॥
विष्णुमाधवानिरुद्धपुुरुषोत्तमाधोक्षजाः ।जनार्दनश्च वामोच्चकरशङ्खिनः ॥25॥
गोविन्दश्च त्रिविक्रम्ूससश्रीधरहृषीकपाः ।नृसिंहश्चाच्युतश्चैव वामाधःकरशङ्खिनः ॥26॥
वामनः सनारायणः पद्मनाभ उपेन्द्रकः ।हरिः कृष्णश्च दक्षाधःकरे शङ्खधरा मताः ॥27॥
शङ्खचक्रगदापद्मधराश्चैते हि सर्वशः ।क्रमव्युत्क्रमपद्मादिगदादिव्युत्क्रमस्तथा ॥ अर्धक्रमः सान्तरश्च षट्सु षट्स्वरिपूर्विणाम् ॥28॥
वर्णानां देवतानां च नित्यत्वाच्च क्रमः स्वतः ।व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ॥29॥
समासव्यासयोगेन व्याहृत्यादीनां चतुष्टयम् ।सत्यं चाङ्गानि तारस्य प्रोच्यन्तेष्टाक्षरस्य च ॥30॥
क्रुद्धमहावीरद्युल्कसहस्रसहितोल्ककाः ।चतुर्थ्यन्ताः हृदादीनि पृथग्रूपाणि तानि च ॥31॥
विष्णोरेवात्यभेदेपि तदैश्वर्यात् तदन्यवत् ।चक्रशङ्खवराभीतिहस्तान्येतानि सर्वशः ॥32॥
मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते ।चतुर्विंशन्मूर्तयश्च मूलरूपसवर्णकाः ॥33॥
आदिवर्णत्रयं नाभिहृच्छिरस्सु यथाक्रमम् ।न्यसनीयं च तद्वर्णदेवताध्यानपूर्वकम् ॥34॥
पज्जानुनाभिहृदयवाङ्नासानेत्रकेषु च ।अष्टाक्षराणां न्यासः स्यात् व्याहृत्यादीनां प्रजापतिः ॥35॥
मुनिश्छन्दस्तु गायत्री देवता भगवान् हरिः ।उद्यदादित्यवर्णश्च ज्ञानमुद्राभयोद्यतः ॥36॥
तारेण व्याहृतीभिश्च ज्ञेयान्यङ्गानि पञ्च च ।नाभिहृत्केषु सर्वेषु चतस्रो व्याहृतीर्न्यसेत् ॥37॥
द्वादशार्णस्य जगती च्छन्दोन्यत्तारवत् स्मृतम् ।अच्छवर्णोभयवरकरो ध्येयोमितद्युतिः ॥38॥
पदैर्व्यस्तैः समस्तैश्च ज्ञेयान्यङ्गानि पञ्च च ।अष्टाक्षराणां स्थानेषु बाह्वोरूर्वोश्च विन्यसेत् ॥39॥
विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिः ।मुनिर्देवस्तु सवितृनामा स्रष्टृत्वतो हरिः ॥40॥
प्रोद्यदादित्यवर्णश्च सूर्यमण्डलमध्यगः ।चक्रशङ्खधरोङ्कस्थदोर्द्वयो ध्येय एव च ॥41॥
सताराश्च व्याहृतयो गायत्र्यङ्गानि पञ्च च ।दोःपत्सन्धिषु साग्रेषु नाभिहृन्मुखेषु च ॥42॥
वर्णन्यासश्च कर्तव्यस्तारवन्निखलिं स्मृतम् ।पञ्चाशदक्षराणां च पुंसूक्तस्यापि सर्वशः ॥43॥
अनुष्टुभश्च त्रिष्टुप् च छन्दोस्य त्रिष्टुभोपि वा ।विष्णुशब्दश्चतुर्थ्यन्तो हृदयेन षडक्षरः ॥44॥
तारवत् सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम् ।वर्णा एव षडङ्गानि षणयोर्भेदयोगतः ॥45॥
पज्जानुनाभिहृन्नासाकेषु न्यासश्च वर्णशः ।एते तु सर्वमन्त्राणां मूलमन्त्रा विशेषतः ॥46॥
एतज्ज्ञानात् समस्तं च ज्ञानं स्याच्छब्दगोचरम् ।एतज्जपात् समस्तानां मन्त्राणां जापको भवेत् ॥47॥
पूज्यश्च भगवान् नित्यं चक्राब्जादिकमण्डले ।हृदये वा चले वापि जले वा केवले स्थले ॥48॥
अष्टाक्षरेण सम्पूज्य प्रथमं देवतां पराम् ।मध्ये सव्ये गुरूंश्चैव दक्षिणे सर्वदेवताः ॥49॥
पुनः सव्ये सर्वगुरूनाग्नेयादिषु च क्रमात् ।गरुडं व्यासदेवं च दुर्गां चैव सरस्वतीम् ॥50॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान् ।तदन्तः पूर्वदिक्पूर्वमधर्मादींश्च पूजयेत् ॥51॥
अपूजिता अधर्मादिदातारस्ते तथाभिधाः ।निर्ऋतिश्चैव दुर्गा च कामो रुद्रश्च देवताः ॥52॥
यमवायुशिवेन्द्राश्च ज्ञेया धर्मादिदेवताः ।परमः पुरुषो मध्ये शक्तिराधाररूपिणी ॥53॥
कूर्मोनन्तश्च पृथिवी क्षीरसागर एव च ।श्वेतद्वीपो मण्टपश्च दिव्यरत्नमयो महान् ॥54॥
पद्ममेतत्त्रयं देवी रमैव बहुरूपिणी ।सूर्यसोमहुताशाश्च पद्मे श्रीस्त्रिगुणात्मिका ॥55॥
आत्मान्तरात्मपरमज्ञानात्मानश्च मूर्तयः ।विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ॥56॥
प्रह्वी सत्या तथेशानानुग्रहा चेति शक्तयः ।अष्टदिक्षु च मध्ये च स्वरूपाण्येव ता हरेः ॥57॥
ततोनन्तं योगपीठस्वरूपं पूजयेद्धरेः ।तत्रावाह्य हरिं चार्घ्यं पाद्यमाचमनीयकम् ॥58॥
मधुपर्कं पुनश्चाचां स्नानं वासो विभूषणम् ।उपवीतासने दत्वा गन्धपुष्पे तथैव च ॥59॥
लक्ष्मीधरे यजेत्तत्र पार्श्वयोरुभयोर्हरेः ।हृदयादींस्तथेन्द्रादिदिक्ष्वस्त्रं कोणकेषु च ॥60॥
वासुदेवादिकान् दिक्षु केशवादींस्ततः परम् ।मत्स्यं कूर्मं वराहं च नारसिंहं च वामनम् ॥61॥
भार्गवं राघवं कृष्णं बुद्धं कल्किनमेव च ।अनन्तं विश्वरूपं च तद्बहिः पूजयेत् क्रमात् ॥62॥
अनन्तब्रह्मवाय्वीशान् वीशं चाग्रे प्रपूजयेत् ।वारुणीं चैव गायत्रीं भारतीं गिरिजामपि ॥63॥
कोणेषु वीन्द्रवामे च सौपर्णीं पूजयेदपि ।इन्द्रादीन् शेषविध्यन्तान् सभार्यान् सपरिग्रहान् ॥64॥
धूपदीपौ ततो दत्वा नैवेद्यं मूलमन्त्रतः ।अनेन क्रमयोगेन जुहुयात् संस्कृतेनले ॥65॥
पुष्पाञ्जलिश्च होमश्च मूलेनाष्टोत्तरं शतम् ।सकृत् सकृत् पुष्पमन्यैर्होमस्तस्य चतुर्गुणः ॥66॥
विसर्जयित्वा नैवेद्यं मूलेन त्रिः समर्च्य च ।धूपदीपौ पुनर्दत्वा पुनर्मूलेन पूर्ववत् ॥67॥
अर्चयित्वा पुनर्ध्यात्वा जपेदष्टोत्तरं शतम् ।पुनर्ध्यायेद्धरिं सर्वदेवदेवेश्वरं प्रभुम् ॥68॥
जपध्यानहुतार्चादीनेवं यः कुरुते सदा ।धर्मार्थकाममोक्षाणां भाजनं स्यात् स एव हि ॥69॥
सर्वोत्तमं हरिं ज्ञात्वा य एवं भक्तिपूर्वकम् ।जपध्यानादिभिर्नित्यं पूजयेन्नास्य दुर्लभम् ॥70॥
भक्तिं कृत्वान्यदेवेषु ब्रह्मरुद्रादिकेष्वपि ।सर्वोत्कर्षमविज्ञाय विष्णोर्याति तमो ध्रुवम् ॥71॥
न यज्ञा न च तीर्थानि नोपवासव्रतानि च ।दैवतानि च सर्वाणि त्रातुं तं शक्नुयुः क्वचित् ॥72॥
हरिर्हि सर्वदेवानां परमः पूर्णशक्तिमान् ।स्वतन्त्रोन्ये तद्वशा हि सर्वेतः स जगद्गुरुः ॥73॥
ब्रह्मादयश्च तद्भक्त्या भागिनो भोगमोक्षयोः ।तस्माज्ज्ञेयश्च पूज्यश्च वन्द्यो ध्येयः सदा हरिः ॥74॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे प्रथमोध्यायः
द्वितीयोध्यायः
यस्य कस्यापि मन्त्रस्य न्यासः पञ्चाशदक्षरैः ।वीर्यदः केभितो वक्त्रमक्षिकर्णेषु नासयोः ॥1॥
गण्डयोरोष्ठयोर्दन्तपङ्क्योर्मूर्धनि वाचि च ।दोःपत्सन्धिषु साग्रेषु पार्श्वयोः पृष्ठगुह्ययोः ॥2॥
तुन्दे च हृदि धातूनां सप्तके प्राणजीवयोः ।सक्षकारान् न्यसेद्वर्णान् नृसिंहः क्षस्य देवता ॥3॥
जपे न्यासे च विहितः क्षोक्षराणां सदान्ततः ।प्राणायामो रेचयित्वा पूरयित्वा च कुम्भके ॥4॥
तारैस्त्रिद्वादशावृत्तैद्य्वेकद्वादशकेन वा ।तत्तन्मन्त्रेण वा कार्यो गायत्र्या दशतारकैः ॥5॥
आदावेव जपे कुर्याच्छोषणं दहनं प्लुतिम् ।वाय्वग्निवारुणैर्बीजैर्ध्यात्वा तन्मण्डले हरिम् ॥6॥
एकपञ्चाशद्वर्णानां चतुर्विंशतिमूर्तयः ।आत्माद्या वासुदेवाद्या विश्वाद्या मत्स्यकच्छपौ ॥7॥
कोलो नृसिंहः सवटुर्जामदग्न्यरघूद्वहौ ।वासिष्ठयादवौ कृष्णावात्रेयो बुद्धकल्किनौ ॥8॥
शिंशुमारश्चेति शतं कलाः कलशनामकाः ।एताभिः सहितां मूलमूर्तिं कुम्भोदके सुधीः ॥9॥
पूर्वोक्तविधिनाभ्यर्च्य प्रतिमां शिष्यमेव च ।स्नापयेत् पूर्वमर्चायां जपोनूनः सहस्रतः ॥10॥
मूलमन्त्रस्य चाङ्गानां न्यासः स्नानादनन्तरम् ।प्रतिमायां सन्निधिकृच्छिष्ये माहात्म्यकृद्भवेत् ॥11॥
कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलम् ।योग्यतां पापहानिं च पुण्यवृद्धिं च साधयेत् ॥12॥
उपसर्गेषु जातेषु दैवभूतात्महेतुषु ।आयुषे वाथ शान्त्यै वा श्रिये वा पुण्पवृद्धये ॥13॥
योग्यतायै मन्त्रसिध्यै विष्णोः प्रीत्यर्थमेव वा ।जुहुयात् सहस्रमयुतं लक्षं कोटिमथापि वा ॥14॥
पूर्ववत्संस्कृते वह्नौ ध्यात्वा देवं जनार्दनम् ।कृत्वा त्रिमेखलं कुण्डं चतुर्विंशाङ्गुलोच्छ्रितम् ॥15॥
तावत्खातं चतुष्कोणमुच्छ्रितं द्वादशैव वा ।द्य्वङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव वा ॥16॥
विस्तारो मेखलानां स्यादन्त्या वा चतुरङ्गुला ।चतुर्विंशाङ्गुलं वा तद्विस्तारो द्वादशैव वा ॥17॥
अश्वत्थपत्राकृतिः स्यान्मूलतो द्वादशाङ्गुला ।योनिः खाते च विनता प्रविष्टा द्य्वङ्गुलं तथा ॥18॥
तदात्मनि हरिं ध्यात्वा कुण्डे देवीं श्रियं तथा ।विष्णुवीर्यात्मकं वह्निं निक्षिपेत् प्रणवेन हि ॥19॥
कुर्यात् क्रियाः षोडश च व्याहृतीभिः पृथक् पृथक् ।वह्नेस्तद्गहरेः प्रीतिं कुर्वन् द्रव्यैर्यजेत्ततः ॥20॥
आज्येन वा पायसेन समिद्भिः क्षीरिणामथ ।तलिैर्वाथ तण्डुलैर्वापि मधुरैस्त्रिभिरेव वा ॥21॥
ब्रह्मवृक्षसमिद्भिर्वा समिद्भिर्वामृतोद्भवैः ।अमृताः समिधो ज्ञेयाः सर्वत्र चतुरङ्गुलाः ॥22॥
एवमेव तु दीक्षायामाज्येनैवाहुतिक्रिया ।पूजा च कार्या विधिवत् पूर्वं सर्वहुतेष्वपि ॥23॥
गुरवे दक्षिणां दद्यात् लक्षे लक्षे शतं सुधीः ।आत्मनैव कृते होमे शक्तितो गुरुदक्षिणाम् ॥24॥
तृतीयोध्यायः
प्रतिष्ठां कारयन् विष्णोः कुर्यात् सुप्रतिमां बुधः ।लोहैर्वा शलिया दार्वा मृदा वापि यथाक्रमम् ॥1॥
षण्णवत्यङ्गुलां योग आसीनामथवा स्थिताम् ।शयानां वा मुमुक्षूणां व्याचक्षाणां निजां स्थितिम् ॥2॥
मुखादूर्ध्वं द्य्वङ्गुलोच्चां नवाङ्गुललसन्मुखाम् ।सुवृत्तत्र्यङ्गुलग्रीवामा स्तनाच्च षडङ्गुलाम् ॥3॥
पञ्चादशाङ्गुलां नाभेरा सार्धदशकाङ्गुलाम् ।वृषणादामूलतश्च सार्धद्य्वङ्गुलमायताम् ॥4॥
तावदा गुदतो दीर्घां चैत्यादाष्टादशाङ्गुलाम् ।तथा द्य्वङ्गुलचैत्यां च द्वाविंशज्जङ्घया युताम् ॥5॥
आरभ्य गुल्फमध्यं च सहार्धचतुरङ्गुलाम् ।षडङ्गुलोच्चप्रपदां सार्धद्य्वङ्गुलमेव च ॥6॥
प्रपदोच्चयुतामन्ते द्य्वङ्गुलप्रपदोच्छ्रयाम् ।त्र्यङ्गुलद्य्वङ्गुलामर्धहीनमध्याङ्गुलामपि ॥7॥
त्रिपदाङ्गुलहीनान्यां ततस्तादृशतत्पराम् ।पादोनोच्चाङ्गुष्ठनखां तदर्धतदनन्तराम् ॥8॥
क्रमशः पादहीनान्यां रक्तपादनखां शुभाम् ।विस्तारः प्रपदस्यापि षडङ्गुल उदाहृतः ॥9॥
अङ्गुष्ठपरिणाहस्तु चतुरङ्गुल ईरितः ।त्र्यङ्गुलं तु तदन्यस्य व्रीह्यार्धोनाः क्रमात् पराः ॥10॥
दशङ्गुलं जङ्घमूलं मध्यं तु त्र्यङ्गुलाधिकम् ।सप्तादशाङ्गुलं तूर्ध्वं जानुरष्टादशाङ्गुलः ॥11॥
ऊर्वन्तोपि तथा ज्ञेयो मध्यं द्विर्द्वादशाङ्गुलम् ।चतुरङ्गुलाधिकं मूलं गुह्यं सार्धचतुष्टयम् ॥12॥
सार्धत्रयं परीणाहाद् वृषणं चतुरङ्गुलम् ।सप्ताङ्गुलं परीणाहात् वृत्तं प्रोक्तं समस्तशः ॥13॥
अष्टत्रिंशाङ्गुलं कट्याः परीणाह उदाहृतः ।सुवृत्तत्वं तथा श्रोण्योः पीनत्वं च समस्तशः ॥14॥
विस्तारश्च तथा कट्याः सुप्रतिष्ठितता पदोः ।कट्याश्चैवाङ्गुलाधिक्यं नाभेरध उदाहृतम् ॥15॥
नाभिः सार्धाङ्गुलश्चैव गम्भीरोर्धाङ्गुलोन्नतः ।वृत्तः प्रदक्षिणश्चैव द्विचत्वारिंशदङ्गुलम् ॥16॥
मध्यं स्तने परीणाहः षडङ्गुलमतोधिकः ।एकोनविंशाङ्गुलं तदुरोविस्तारलक्षणम् ॥17॥
पादोनमङ्गुलं चैव भुजाभ्यां सह सार्धकम् ।अंसयोर्विस्तृतिश्चैव पृथगष्टाङ्गुला मता ॥18॥
सप्ताङ्गुलोच्छ्रयः कक्षादुपरि स्कन्धयोर्मतः ।अष्टत्रिंशाङ्गुलञ्चैव हस्तयोर्मानमुच्यते ॥19॥
अष्टादशाङ्गुलो बाह्वोः परिणाह उदाहृतः ।क्रमादूनं तदन्ते च सार्धाष्टाङ्गुलमीरितम् ॥20॥
साङ्गुलस्तु तलः सार्धनवाङ्गुल उदाहृतः ।समं तदुभयं ज्ञेयं तथैव तलविस्तृतिः ॥21॥
अर्धाङ्गुलोन्नता मध्या द्वयोः सार्धाङ्गुलोन्नता ।कनिष्ठिकायास्तस्यास्तु व्रीहिमात्राधिकः परः ॥22॥
सार्धत्रयपरीणाहौ मध्यज्येष्ठावुदाहृतौ ।अन्यौ व्रीहितदर्धोनावन्या सार्धद्वयाङ्गुला ॥23॥
पादोनान्तपरीणाहाः सर्वे ज्येष्ठां विना स्मृताः ।वक्षोविस्तारसदृशऋ परिणाहो गलस्य च ॥24॥
ललाटकुक्षिकण्ठास्तु दीर्घरेखात्रयान्विताः ।वृत्तो गलो बाहवश्च स्तनावङ्गुलयस्तथा ॥25॥
रक्तास्तलनखाश्चैव नेत्रान्तोधर एव च ।उत्तरोष्ठश्च जिह्वा च नखौ पादोनकाङ्गुलौ ॥26॥
अर्धाङ्गुलौ तथा मध्यावन्येष्टांशक्रमोनकाः ।नासिकया अधस्ताच्च नासिका च रराटिका ॥27॥
समा मानेन नासाया उच्चत्वेनैव मापने ।अर्धाङ्गुलधिकं सर्वं मुखस्य तु भविष्यति ॥28॥
चतुरङ्गुलं तथैवास्यं सार्धव्रीह्यधरं स्मृतम् ।उत्तरं व्रीहिमात्रं तु तदूर्ध्वं चाधरोपमम् ॥29॥
सार्धाङ्गुलमधः प्रोक्तमधरादध एव च ।आस्यपार्श्वद्वयं प्रोक्तमाकर्णात्तु षडङ्गुलम् ॥30॥
सप्ताङ्गुलं नासिकायाः पार्श्वमा कर्णतः स्मृतम् ।सपादाङ्गुमुच्चा च नासिका परिकीर्तिता ॥31॥
अर्धाङ्गुले पुटे तस्या मध्यं च समुदाहृतम् ।नासिका व्रीहिविस्तारा चक्षुषी चाङ्गुलत्रये ॥32॥
अङ्गुलं चैव विस्तीर्णे फुल्लेर्धं च तदन्यथा ।चतुरङ्गुलौ भ्रुवौ चैव तथार्धाङ्गुलविस्तृतौ ॥33॥
असंहतौ च निबिडौ तथा पक्ष्म सुनीलकम् ।कर्णौ च त्र्यङ्गुलौ सार्धद्वयविस्तारसंयुतौ ॥34॥
सकुण्डलं तावदेव विवरं सम्प्रकीर्तितम् ।तथा द्य्वङ्गुलविस्तारो लताभ्यां सह कथ्यते ॥35॥
कर्णपूरयुतौ कर्णावुत्पलाभ्यां च संयुतौ ।नीलालकसहस्रेण युक्तं तन्मुखपङ्कजम् ॥36॥
ललाटं सुविशालं च तथा सार्धनवाङ्गुलम् ।विस्तारो मूध्नि वृत्तं च शिरः छत्राकृतिः स्मृतम् ॥37॥
दीर्घाश्च कुञ्चिताग्राश्च नीलाश्च केशा हरेर्मताः ।मुखमानेन चैवोच्चं किरीटं केशवस्य हि ॥38॥
कुण्डले मकराकारे वक्षश्चैव सकौस्तुभम् ।सश्रीवत्सं दक्षिणतः पीनतुङ्गमुदाहृतम् ॥39॥
हारग्रैवेयसहितमुपवीतयुतं तथा ।बाहवश्च सकेयूरकङ्कणाङ्गदमुद्रिकाः ॥40॥
समध्यबन्धं मध्यं च नितम्बे पीतमम्बरम् ।काञ्चीगुणश्च पदयोर्नूपुरे चातिसुस्वने ॥41॥
अङ्गुलीयानि च पदोः कृतिभिः साधु कारयेत् ।सोत्तरीयं च चक्राद्यैरायुधैश्च समन्वितम् ॥42॥
अनुन्नतैरविरलैर्दन्तैर्युक्तं च सुस्मितम् ।समदृष्टियुतं कार्यं श्लक्ष्णं चैव मनोहरम् ॥43॥
प्रतिमार्थं व्रजन्पञ्चध्वनिभिमङ्गलैर्युतः ।गत्वा शुचिस्थलं तत्र शलिां चैव परीक्षयेत् ॥44॥
ध्वनिभेदेन विज्ञाय शलिां गर्भवतीं त्यजेत् ।मूलमन्त्रं जपन् विष्णुं ध्यायंस्तिष्ठेदुपोषितः ॥45॥
वार्क्षी चेद्यज्ञवृक्षस्य सारेणैव तु कारयेत् ।बलिदानं च सङ्क्षेपविधानेनैव कथ्यते ॥46॥
अस्य सङ्क्षेपशास्त्रत्वान्न विस्तारविरोधिता ।दत्वोपहारं हरये तद्भूतेभ्यो बलिं हरेत् ॥47॥
प्राच्येभ्यो विष्णुभूतेभ्य इत्याद्यखलिदिक्षु च ।आदाय विष्णुभूतेभ्यो लोकपेभ्यस्तथा हरेः ॥48॥
अनुज्ञामुद्धरेद् वृक्षं शलिां वा प्रतिमाकृते ।प्रतिमां पिण्डिकां पीठं शलिाभिस्तु त्रिजातिभिः ॥49॥
स्वरस्थूलत्वभेदेन पुंस्त्र्याद्या जातिभिः शलिाः ।पुंशलिा प्रतिमार्थं तु स्त्रीशलिां पीठक्लृप्तये ॥50॥
वेदमङ्गलघोषेण वाद्यैस्तत्प्रतिमां हरेत् ।प्रागुदक्प्रवणे देशे कुर्याद्देवालयं सुधीः ॥51॥
रामावृते दक्षिणतः पश्चाद्गिर्यग्र एव वा ।मध्ये वा ग्रमापुरयोर्विशाले सुशुचौ तथा ॥52॥
ऐशानीं दिशमेकां तु विनोदकविवर्जिते ।जलाशयस्य मध्ये वा शलिावृक्षादिवर्जिते ॥53॥
श्मशानादिकदेशानां विदूरे सुमनोहरे ।किष्कुद्वादशतोनूनं कुर्याद्देवालयस्थलम् ॥54॥
द्विगुणं चतुर्गुणं वापि शतकिष्कुप्रमाणकम् ।कृत्वा भूशोधनं सम्यक् सार्धपुंमानतस्त्वधः ॥55॥
केशाङ्गारस्थिवल्मीकलोष्टाश्मादिविवर्जिते ।हरिं तत्रापि सम्पूज्य बलिं दत्वा च पूर्ववत् ॥56॥
मृद्दारुशैलैर्लोहैर्वा कुर्याद्देवालयं दृढम् ।दीर्घाश्च कलमास्तिस्रस्तिर्यगष्टयवोदराः ॥57॥
अङ्गुल्या मध्यरेखायाः समा लक्षणतः स्मृताः ।स्वाङ्गुल्या मध्यरेखा तु प्रतिमादिषु लक्षणम् ॥58॥
ह्रस्वमध्योच्चभेदेन तत्तन्मानं समस्तशः ।प्रादेशहस्तपुरुषमानं सामान्यलक्षणम् ॥59॥
प्रतिमाध्यर्धकं द्वारमूर्ध्वमध्यं च विस्तृतिः ।प्रतिमार्धप्रमाणेन पीठस्योच्चत्वमिष्यते ॥60॥
उन्नतिः पिण्डिकायास्तु चतुरङ्गुलमानतः ।त्र्यङ्गुलं द्य्वङ्गुलं वापि गृहान्तःप्रतिमासमम् ॥61॥
उच्चं पर्यक् च क्रमश उच्चत्वं मध्यतः स्मृतम् ।तावदुच्चं बहिश्चैव यद्येकशिखरं भवेत् ॥62॥
अर्धोच्चमथवापि स्यादधस्तात् प्रतिमोन्नतम् ।ततो द्विगुणमानं वा सार्धप्रतिममेव वा ॥63॥
शिखान्तरे तु प्रतिमामानं तद्गल उच्यते ।तत्त्रिपादं तदर्धं वा तदध्यर्धमथापि वा ॥64॥
वर्तुलं पद्मसदृशं हस्तिपृष्टसमं तथा ।चतुरस्रं चाष्टकोणं विमानं परिकीर्तितम् ॥65॥
प्रतिमाया दशगुणं विंशद्गुणमथापि वा ।वर्तुलं शिखरं त्वेकं किरीटाकृतिमद्भवेत् ॥66॥
सभयापि समेतं वा पृथक्सभमथापि वा ।द्विसभं त्रिसभं वापि सगोपुरमथापि वा ॥67॥
प्राकारवृत्तयुक्तं वा सप्तप्राकारमेव वा ।सद्मवृत्तं किष्कुमात्रं बहिर्वा चतुरस्रकम् ॥68॥
ततः परं किष्कुमात्रं सभाया अन्तरं यदि ।ततस्तावत् तृतीयायाः सार्धमेव ह्युदाहृतम् ॥69॥
किष्कुत्रयं च शक्राद्यैः स्थानं तद्वृत्ततः स्मृतम् ।ततस्तु मण्टपं कुर्यात् प्रतिष्ठायाः सुलक्षणम् ॥70॥
पूजयेद्वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ॥71॥
पातितो दैवतैर्भूमौ चतुरस्राकृतिः स्थितः ।कृत्वाष्टकाष्टकोष्ठानि मध्ये ब्रह्मा चतुष्टये ॥72॥
पूज्यो द्वये द्वये शक्रो यमो वरुण एव च ।सोमश्च पूज्याः कोणेषु वह्न्याद्याः कोणदेवताः ॥73॥
पुनस्त्रये त्रये कामं धातारं सविधातृकम् ।स्कन्दं च पूजयेत् कोणे सूर्यं चैव विनायकम् ॥74॥
कालं कुबेरं च बहिः प्रत्येकं दिक्षु पूजयेत् ।हारिं हरिं गभीरं च गाहनं गहनं गुहम् ॥75॥
भानुमङ्गारकं चैव पूर्वस्यां दिशि पूजयेत् ।दारुणं विदरिं द्योतं प्रद्योतं द्योतनं हरिम् ॥76॥
मृत्युं शनैश्चरं चैव दक्षिणस्यां प्रपूजयेत् ।पुष्करं क्षरणं क्षारिं विक्षणं क्षोभणं क्षणम् ॥77॥
चार्वङ्गं भार्गवं चैव पश्चिमायां प्रपूजयेत् ।चारं विचारं प्रचरं सञ्चारं चरणं चरम् ॥78॥
बृहस्पतिं बुधं चैवाप्युत्तरस्यां प्रपूजयेत् ।एवमेव विमानस्य कृतेः प्रागपि पूजयेत् ॥79॥
सप्तपर्णमयं साधु कारयेन्मण्डपं ततः ।सप्तहस्तं द्विषड्ढस्तमथवा द्विगुणं ततः ॥80॥
चतुर्गुणं वा सम्यक् तु चतुरस्रं सहाजिरम् ।अन्यच्च मण्टपं दीर्घं पञ्चहस्तं तु कारयेत् ॥81॥
त्रिचतुष्कोष्ठकं तत्र मध्ये प्रागायतं शुभम् ।कारयेन्मण्डलं साधु हस्तमात्रं तु विस्तृतम् ॥82॥
तत्र द्वादशपात्राणि स्थापयेत् पालिकादिकम् ।पालिकास्तु चतुर्विंशत्यङ्गुलोच्छ्रयसंयुताः ॥83॥
अष्टादशाङ्गुलाश्चैव तथा पञ्चमुखा इति ।द्वादशाङ्गुलकाश्चैव शरावाः पश्चिमानुगाः ॥84॥
तत्र विष्णुं चतुर्मूर्तिं पूजयेद्भक्तितस्त्रिशः ।सप्तधान्यानि तेष्वेव पूरयेदङ्कुरार्थतः ॥85॥
तत्र नित्यं बलिं दद्याद्विष्णवे दशरात्रकम् ।ब्रह्मशङ्करगीर्वाणपितृगन्धर्वयक्षकैः ॥86॥
भूतैश्च पायसेनैव तथा पद्माक्षतेन च ।अन्नापूपेन पुष्पान्नैरन्नलाजाक्षतैरपि ।
तदैव प्रतिमायाश्च कारयेदधिवासनम् ।पञ्चगव्ये सप्तरात्रं क्षिप्त्वा पुरुषसूक्ततः ॥88॥
वेदांश्च चतुरः सम्यक् पारयेयुर्द्विजोत्तमाः ।प्राच्यादिद्वारगौ द्वौ द्वावेकैकं तु दशावराः ॥ यथालब्धं यथावित्तमथवा विष्णुतत्पराः ॥89॥
त्रयोदशात्र कुण्डानि परितः कारयेद् बुधः ।उक्तलक्षणयुक्तानि प्रधानं त्वग्निकोणके ।
आज्याहुतिं तेषु कुर्यात् प्रत्येकं लक्षसङ्ख्यया ।प्रत्येकमयुतं वापि प्रधाने लक्षसङ्ख्यकम् ॥91॥
अर्धं तदर्धमथवा मूलमन्त्रेण मन्त्रवित् ।पञ्चविंशतितत्वार्थे प्रधाने जुहुयात् पुरः ॥92॥
प्रत्येकं तु सहस्रं वा प्रत्येकं शतमेव वा ।शतं पुरुषसूक्तेन गायत्र्या च सहस्रकम् ।
चक्राब्जं भद्रकं वापि मण्टपे मण्डलं शुभम् ।पद्मं वृत्तत्रयं चक्रं राशयो वीथिका तथा ॥94॥
शोभोपशोभिकाश्चैव चक्राब्जस्य तु लक्षणम् ।चतुरस्रं विना चक्रं विशेषो भद्रके स्मृतः ॥95॥
सहस्रमर्धं पादं वा कलशांस्तत्र पूजयेत् ।शतं तदर्धं पादं वा वित्ताभावे निगद्यते ॥96॥
क्वाथेन क्षीरवृक्षाणां तथा पञ्चामृतैरपि ।पञ्चगव्येन शुद्धेन जलेन च पृथक् पृथक् ॥97॥
पूरयेत् कलशान् मध्यं शुद्धोदेनैव पूरयेत् ।ब्राह्मस्यैव चतुर्दिक्षु गन्धोदानां चतुष्टयम् ॥98॥
चतुर्दले सिते पद्मचतुष्के मण्डले स्थिते ।पूर्वादिक्रमयोगेन रसक्वाथशुभोदकान् ॥99॥
गन्धांश्च स्थापयेत् पञ्चगव्यं शुद्धान्तरे न्यसेत् ।पृथक् चतुर्दलं पद्मं रक्तं कृत्वाल्पकं सुधीः ॥100॥
पञ्चाशत्वे तु गन्धोदं सर्वमध्ये निधापयेत् ।ब्राह्मस्य पुरतस्त्वेकं शार्वं संस्थापयेद् बृहत् ॥101॥
अष्टदिक्ष्वष्टपद्मेषु पञ्चकं पञ्चकं न्यसेत् ।अनेन क्रमयोगेन कलशा अखिला अपि ॥102॥
तत्तद्द्रव्यमयास्तत्र तत्र स्थाप्यास्तु बाह्यतः ।तदैवाङ्कुरपात्राणि परितस्तत्र विन्यसेत् ॥103॥
कुशोदकं च कार्पूरं कौङ्कुमं चान्दनं तथा ।तुहिनोदं हरिद्रोदमौशीरं कोष्ठसार्षपम् ॥104॥
नदीसङ्गमजं चैव ताडाकं कौप्यमेव वा ।निर्झरोदमिति प्रोक्ता विशेषकलशास्त्विमे ॥ शुद्धोदद्वयमप्येतन्महातीर्थसमुद्भवम् ॥105॥
चतुर्विंशतिमूर्तीनां वर्णमूर्तीस्तथापरः ।आवाहयेच्छतत्वे तु क्रमव्युत्क्रमतस्तु ताः ॥106॥
वर्णमूर्तीः पुनश्चैव द्विचतुर्वारमेव च ।सहस्रकलशादित्वे जपेन्मन्त्रांश्च शक्तितः ॥107॥
ततस्तु पञ्चघोषैश्च वेदघोषैस्तथादरात् ।आनीय प्रतिमां स्नानं कारयेत् प्रणवेन तु ॥108॥
मन्त्रैः पुरुषसूक्तान्तैः विश्वतश्चक्षुषा तथा ।पुनश्चाष्टाक्षरेणैव प्रणवेन च भक्तितः ॥109॥
स्नापयित्वा गन्धजलैर्गन्धपुष्पादिभिः पुनः ।अलङ्कृत्य स्थापयेत्तु प्रतिमां प्रणवेन तु ॥110॥
जपेदष्टाक्षरं मन्त्रं तत्तन्मूर्तिमनुं तथा ।अष्टोत्तरशतं मन्त्री ध्यायेत् तेजोमयीं पुनः ॥111॥
प्रतिमां प्रतिमान्तस्थां तन्मध्ये परमं वपुः ।चिदानन्दरसं पूर्णगुणसम्पूर्णमुत्तमम् ॥112॥
पञ्चविंशतितत्त्वानां देवतास्तदनन्तरम् ।स्थापयेत् प्रतिमामध्ये परितः केशवस्य तु ॥113॥
तत्रात्वाहार्षसूक्तं च घर्मसूक्तं च वैष्णवम् ।सूक्तं च विश्वकर्मीयं पौरुषं सूक्तमेव च ॥114॥
जप्त्वा चैव निजं मन्त्रं पुनरष्टाक्षरं सुधीः ।प्रणवं च जपेद्विष्णुं ध्यायन्नुत्तमरूपिणम् ॥115॥
ततस्तु कलशैर्बाह्यक्रमेणैव जनार्दनम् ।स्नापयेदुक्तमन्त्रैस्तु मध्यमं प्रणवेन तु ॥116॥
अष्टार्णेन निजेनापि तथा पुरुषसूक्ततः ।आवाहनं च स्नपनं पञ्चगव्येन मध्यवत् ।
जप्त्वा पुनश्च तन्मन्त्रान् पूजयेच्च विधानतः ।द्वारलोकपतिभ्यश्च बलिं दत्वा यथाक्रमम् ॥118॥
वस्त्ररत्नहिरण्याद्यैरलङ्कृत्य विभूतितः ।गुरवे दक्षिणां दद्यात् कोटिं लक्षं सहस्रकम् ॥119॥
शतमर्धं तदर्धं वा निःस्वो भक्त्या क्षमापयेत् ।तदर्धमृत्विजां चैव तदर्धं पारणाकृताम् ॥120॥
आश्वभ्यः आश्वपाकेभ्यो दद्यादन्नं समस्तशः ।पुरस्तात्परतश्चैव सप्तरात्रं निरन्तरम् ॥121॥
सुवर्णरजतवस्त्ररत्नाद्यैरागताभ्यागतानपि ।पूजयेच्छक्तितो भक्त्या प्रीयतां भगवानिति ॥122॥
गीतनृत्यैश्च वाद्यैश्च पुराणैरितिहासकैः ।सूक्तैर्मङ्गलघोषैश्च वैदिकैर्दिनसप्तकम् ॥123॥
नयेत् ततो महाराजविभूत्यावभृथं सुधीः ।कारयेद् देवदेवस्य स्वाध्यायैर्गीतनृत्तकैः ॥124॥
महानदीसङ्गमे तु तीर्थे चातिप्रशस्तके ।स्नापयेत् पूर्ववन्मन्त्रैः पुंसूक्तान्तैः स्मरन् हरिम् ॥125॥
ततः पूर्ववदागत्य प्रवेश्य पुरुषोत्तमम् ।पूजयित्वा विधानेन दत्वा दानानि शक्तितः ॥126॥
गुरुं च भक्त्या सम्पूज्य स्वीकुर्यादाशिषस्ततः ।शतप्रस्थादनूनं तु नैवेद्यं पायसोत्तरम् ॥127॥
दिनेष्वेतेषु दातव्यं सघृतं ससितादिकम् ।पश्चादपि यथाशक्ति पूजा कार्या हरेः सदा ॥128॥
जीर्णालयोद्धृतौ चैव तत्त्वमन्त्रान् स्वकं तथा ।प्रतलिोमेन जप्त्वैव मूर्ती सङ्कोचयेद्धरिम् ॥129॥
उक्तेनैव विधानेन तदर्धविभवैः सुधीः ।पादमात्रैरपि हरिं स्नापयित्वा यथोदितम् ॥130॥
एतेनैव विधानेन कृत्वा देवालयं पुनः ।स्नापयेत् पुण्डरीकाक्षं द्विगुणेन प्रवाहणात् ॥131॥
विभवेनानुलोमेन जपेन्मन्त्रान् पुनस्तथा ।आराधयेज्जगन्नाथं ध्यायन् भक्त्या यथोदितम् ॥132॥
यात्रापि पूर्ववत् तत्राप्युत्सवेषु च सर्वशः ।कलशोक्तविधानेन पूजा बलिहृतिस्तथा ॥133॥
उत्सवेषु सदा कार्या कलशश्चोत्सवादनु ।यात्रा स्नानं च कर्तव्यं सम्यगुक्तविधानतः ॥134॥
चोरचण्डालपतितश्वोदक्यादिप्रवेशने ।शवाद्युपहतौ चैव पूजाविच्छेदने तथा ॥135॥
स्नपनोक्तेन मार्गेण प्रायश्चित्तकृतिः स्मृता ।सर्वत्र विष्णुगायत्र्या होमः स्यादयुतावरः ॥136॥
नावाव्याद्याभिधानानु विग्रहे धीमहे तथा ।प्रचोदयात् तृतीयाधस्तन्नो गायत्रिनामिका ॥137॥
दुर्गाशिवस्कन्दसूर्यविनायकमुखानपि ।स्थापयेदुक्तमार्गेण तत्तन्मन्त्रैः स्मरन् हरिम् ॥138॥
गोलकद्वितयं विष्णोस्त्रितयं वापि कीर्तिमान् ।अन्यदेवप्रतिष्ठासु तदन्तश्चिन्तयेद्धरिम् ॥139॥
विष्णुस्मृतिविहीना तु पूजा स्यादासुरी तथा ।गृह्णन्ति देवता नैतां ततः स्याद्देशविप्लवः ॥ व्याधिचोरादिभिस्तस्मादन्तर्ध्येयो हरिः सदा ॥140॥
विष्णुभक्तिविहीनस्य गतिः स्यान्न तु शुभा क्वचित् ।भक्तस्याप्यन्यदेवेषु तस्माद् ध्येयो हरिः सदा ॥141॥
संस्मृतो भगवान् विष्णुः सर्वमङ्गलमङ्गलः ।समस्ताभीष्टदायी स्यात् तेन ध्येयोखिलैर्जनैः ॥142॥
पुरुषोव्यक्तं च महानहङ्कारो मनस्तथा ।दशेन्द्रियाणि शब्दाद्याः भूतेताः पञ्चविंशतिः ॥143॥
तत्त्वाख्याः कालमाये च नियतिर्मतिरेव च ।विद्या कला प्रवृत्तिश्च द्वात्रिंशत्तत्त्वसङ्ग्रहः ॥144॥
स्पूर्त्तिः संवित् प्रतिष्ठा च शक्तिरित्यपराणि च ।महालक्ष्मीस्वरूपाणि ह्येकादश विदो विदुः ।
प्रधानोपमवर्णानि द्विभुजान्यप्यशेषतः ।कृताञ्जलिपुटान्येव प्रधानं तं हरिं प्रति ॥146॥
सर्वाण्येतानि तत्त्वानि ब्रह्मा तु पुरुषः स्मृतः ।महांश्चाव्यक्तनाम्नी तु ब्रह्माणी सम्प्रकीर्तिता ॥147॥
एवं वायुरपि ज्ञेयो भारती चापि तत्त्रयम् ।रुद्रोहङ्कार उद्दिष्टः स्कन्देन्द्रौ मन उच्यते ॥148॥
अहङ्कारः शेषवीन्द्रावपि विद्वद्भिरीरितौ ।दिग्वायुसूनुसूर्याश्च वरुणश्चाश्विनावपि ॥149॥
वह्निदक्षाविन्द्रसूनुर्मित्रश्चैव मनुस्तथा ।इन्द्रियाख्याः शब्दनामा बृहस्पतिरुदाहृतः ॥150॥
अन्ये तु सूनवो वायो रुद्रस्यापि प्रकीर्तिताः ।एतेषु भगवान् विष्णुः प्रधानतनुरेव तु ॥151॥
ध्येयः परात्मनोर्मध्ये तत्त्वनाम तदर्थयोः ।जपे न्यासे नमोन्तस्तु स्वाहान्तो होमकर्मणि ॥152॥
त्रिचतुष्षड्दशावृत्तिरेतेषां तु हुतादिके ।न्यासोङ्गुलीषूरुबाहुमध्येषु व्युत्क्रमे स्मृतः ॥ क्रमे विपर्ययेणात्र शक्त्यादित्वं प्रकीर्तितम् ॥153॥
ऋषिच्छन्दोदेवताङ्गध्यानानुक्तौ प्रधानवत् ।ज्ञेया मन्त्राः समस्तास्ते पृथङ्मोक्षादिदायकाः ॥154॥
तन्त्रमार्गास्तु हरिणा ह्यसङ्ख्याः कीर्तिता अपि ।तेष्वयं सुगमो मार्गः सफलश्चानुतिष्ठताम् ॥155॥
यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते ।तावत् समस्तं कथितं ह्यस्मिंस्तन्त्रे यथाविधि ॥156॥
प्रीयतेनेन मार्गेण पूजितो मुक्तिदो भवेत् ।कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः ॥157॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे तृतीयोध्यायः
चतुर्थोध्यायः
अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः ।उदितः सङ्ग्रहेणासावुच्यतेखलिसाधनः ॥1॥
याष्टमस्तूयुतोन्तेन समेतश्चैव भूभृतः ।बीजं नमश्च भगवान् सोद्देश्यो रूपसंयुतः ॥2॥
स एव तादृशो लोकत्रयपालो भुवःपतेः ।भावं मे देहि दान्ते तु दापय स्वाहया युतः ॥3॥
मनुस्तस्यापररस्तारबीजोद्देशनमोयुतः ।नमः सोद्देशभगवान् महाशब्दयुतश्च सः ॥ तादृशः स्वाहया युक्तो वराहस्यापरो मनुः ॥4॥
श्यामः सुदर्शनदराभयसद्वरेतो भूम्या युतोखलिनिजोक्तपरिग्रहैश्च ।ध्येयो निजैश्च तनुभिः सकलैरुपेतः कोलो हरिः सकलवाञ्छितसिद्धयेजः ॥5॥
वैष्णवानां मुनिबर्रह्मा मन्त्राणां वर्णभेदतः ।ज्ञेयं छन्दो देवतैकस्तत्तद्रूपो हरिः परः ॥6॥
प्रणवेन स्वनाम्ना च भूधरेण परात्मना ।सर्वज्ञसर्वशक्तिभ्यां षडङ्गानि विदो विदुः ॥7॥
ज्ञानैश्वर्यप्रभानन्दतेजःशक्तिभिरेव वा ।पूर्णात्ममध्यगैः सर्ववैष्णवाङ्गान्यथो विदुः ॥8॥
तिष्टोदादिस्वजायायाः कारणं स्वाहया युतः ।श्रीकरोष्टाक्षरो मन्त्रो गरुडारूढसंस्मृतिः ॥9॥
द्विर्भीषय त्रासय च प्रमर्दय तथैव च ।प्रध्वंसयाथो रक्षेति पञ्चाङ्गश्चेत्युदाहृतः ॥10॥
क्रूरं वीरं बृहद्विष्णुं दीप्यन्तं विश्वतोमुखम् ।पुंमृगेन्द्रं भयकरं शुभं मृत्योश्च मारकम् ।
द्विर्जयस्योपरि निजं सोद्देशं सर्ववित् तथा ।महातेजो बलं वीर्यं तादृशं स्वाहया युतम् ॥ चतुर्विंशाक्षरो मन्त्रो निखलिेष्टप्रदायकः ॥12॥
विद्महे धीमहे पूर्वं स्वयं चैव महाबलः ।प्रेरयेत्तन्न इत्येतन्मध्येनन्तः प्रकीर्तितः ॥13॥
पादैर्व्यस्तैः समस्तैश्च पदैश्चाङ्गं प्रकीर्तितम् ।पूर्वयोस्तत्र पूर्वं तु सर्वज्ञेन षडङ्गकम् ॥ तृतीयं तु द्विरावृत्तैः पादैरङ्गसमन्वितम् ॥14॥
ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं जानुप्रसक्तकरयुग्ममथापराभ्याम् ।चक्रं दरं च दधतं प्रियया समेतं तिग्मांशुकोट्यधिकतेजसमग्र्यशक्तिम् ॥15॥
सर्वेष्वपि हि मन्त्रेषु द्य्वाद्यनन्तान्तबाहुकः ।चेतनान्तस्थमारभ्य सर्वगान्तस्थरूपवान् ॥16॥
अनन्तरूपो ध्येयोत्र स्वगुरूक्तानुसारतः ।यथायोग्यं यथाशक्ति तत्तदायुधभूषणः ॥17॥
शङ्खचक्रगदापद्मखड्गखेटाः सशार्ङ्गकाः ।शरो मुसलवज्रौ च हलः पाशाङ्कुशौ तथा ॥18॥
शूलं च भिण्डिपालश्च पट्टशोग्निर्वराभये ।तर्कमुद्राक्षमाला च पुस्तकं च विदारणम् ॥ इत्यादीन्यखिलान्येव विष्णोश्चिन्त्यानि बाहुषु ॥19॥
वियत्स इति युग्मार्णो विपरीतश्च स स्मृतः ।स सर्गहीनो वेतश्च बिन्दुहीनोत्तरस्तथा ॥20॥
त्रय एते महामन्त्राः पुरुषार्थचतुष्टये ।कल्पवृक्षाः प्रिया विष्णोर्विशेषज्ञानदायकाः ॥21॥
तैरेव तु द्विरावृत्तैरङ्गमेषां प्रकीर्तितम् ।श्वासरूपो जपो नित्यमुभयोर्विद्वदज्ञयोः ॥22॥
एकविंशत्सहस्रात्मा सषट्शतमहर्निशम् ।अर्पणीयो हरौ नित्यं प्रातर्योगो महानयम् ॥23॥
अशेषदोषदहनस्तत्त्वज्ञानप्रदायकः ।अष्टैश्वर्यप्रदश्चैव कृतादौ समुपासताम् ॥ तारयोगोप्येवमेव ब्रह्मादावेव वर्तते ॥24॥
ध्यायेद्रवीन्दुकरमिन्दुसहस्रलक्षकान्तिं प्रियासहितमास्थितमिन्दुबिम्बे ।शङ्खारिदोर्द्वयमुदर्कमहेन्दुबिम्बात् संसिच्यमानममृतेन रमाधिनाथम् ॥25॥
अन्त्यस्य रक्तवर्णो वा ध्येयो विष्णुः सनातनः ।विद्युद्वर्णोथवा ध्येयः शक्त्येतः पञ्चमन्त्रयुक् ॥26॥
अष्टाक्षरो महामन्त्रः तैरेवाङ्गैः समन्वितः ।अन्त्यध्यानयुतश्चैव निःशेषपुरुषार्थदः ॥27॥
मूलं नः प्रतिषेधश्च सोद्देशो भगवानपि ।विष्णुर्भोज्याधिपः स्वाहायुक्तोष्टादशवर्णकः ॥28॥
अङ्गानि तत्पदैरेव मन्त्रचिन्तमणिः स्वयम् ।यथेष्टभक्षभोज्यादिदाता मुक्तिप्रदायकः ॥29॥
ध्यायेत् सुशुक्लमरविन्ददलायताक्षं सौवर्णपात्रदधिभोज्यमथामृतं च ।दोर्भ्यां दधानमखिलैश्च सुरैः समेतं शीतांशुमण्डलगतं रमया समेतम् ॥30॥
अमृतं स्वयमुद्देशयुक्तः सहृदयो मनुः ।सतारोष्टाक्षरोङ्गानि पदैर्व्यस्तैः समस्तकैः ॥31॥
उद्यद्रविप्रभमरीन्द्रदरौ गदां च ज्ञानं च बिभ्रतमजं प्रियया समेतम् ।विश्वावकाशमभितः प्रतिभासयन्तं भासा स्वया स्मरत विष्णुमजादिवन्द्यम् ॥32॥
त्रिविक्रमश्च सोद्देशो विश्वरूपश्च तत्परः ।धीविदौ च महे विष्णुस्तन्नः प्रेरणमध्यगः ॥33॥
स्वयमुद्देशसंयुक्तः तदाद्यर्णपुरःसरः ।सनतिः षडक्षरो मन्त्री वर्णैरङ्गक्रिया मता ॥34॥
अङ्गारवर्णमभितोण्डबहिःप्रभाभिर्व्याप्तं परश्वधधनुर्धरमेकवीरम् ।ध्यायेदजेशपुरुहूतमुखैस्तुवद्भिरावीतमात्मपदवीं प्रतिपादयन्तम् ॥35॥
श्यामं रवीन्द्वमितदीधितिकान्तियुक्तं ज्ञानं शरं च दधतं प्रियया समेतम् ।स्वात्मस्वरूपममितं हनुमन्मुखेषु सन्दर्शयन्तमजितं स्मरतोरुगीर्भिः ॥36॥
निजगोत्रं तु सोद्देशं पूर्वाक्षरपुरःसरम् ।नत्यन्तं तारपूर्वं च मनुरष्टाक्षरो मतः ॥37॥
ते च बीजे बीजभूते धर्मादीनामशेषतः ।एते विजयदा मन्त्रा ज्ञानमोक्षप्रदायकाः ॥ हिरण्यरत्नराज्यादिसमभीष्टसुरद्रुमाः ॥38॥
कृष्णो गोविच्च कामेतः सोद्देशो बल्लवीजनः ।प्रियश्च तादृशस्वाहायुक्तोष्टादशवर्णकः ॥ पदैरङ्गानि सम्प्रीतिकाममोक्षप्रदो मनुः ॥39॥
ध्यायेद्धरिन्मणिनिभं जगदेकनाथं सौन्दर्यसारमरिशङ्खवराभयानि ।दोर्भिदधानमजितं सरसं च भैष्मीसत्यासमेतमखलिप्रदमिन्दिरेशम् ॥40॥
सकामः स्वयमुद्देशी नत्यन्तोयं षडक्षरः ।तदादिरपि सवेष्टचिन्तमणिरुदाहृतः ॥41॥
दृष्टार्थ एव मन्त्राणां कलौ वीर्यं तिरस्कृतम् ।तत्राप्यद्दीप्तवीर्या हि मन्त्रा अत्र प्रकीर्तिताः ॥ वासिष्ठवृष्णिप्रवरमन्त्रास्तत्रापि वीर्यदाः ॥42॥
स्वयं वेदपदारूढः पूर्ववर्णपुरःसरः ।नत्यन्तोष्टाक्षरो मन्त्रो प्रियो विज्ञानगोपतेः ॥43॥
व्याख्याश्रीसर्वविज्ञानकवितादिगुणप्रदः ।वादे विजयदो नित्यं यथा युद्धे नृकेसरी ॥44॥
विज्ञानरोचिः परिपूरितान्तर्बाह्यण्डकोशं हरितोपलाभम् ।तर्काभयेतं विधिशर्वपूर्वगीर्वाणविज्ञानदमानतोस्मि ॥45॥
ज्ञानानन्दपुरःपूर्णो विद्महे धीमहे तथा ।तन्नः प्रेरणमध्ये तु व्यासो मन्त्राधिपाधिपः ॥46॥
आदिबीजं स्थिरादोषज्ञानबीजं विमुक्तिदम् ।सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥47॥
ध्यायेच्छशाङ्कशतकोट्यतिसौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः ।वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेषविद्याः ॥48॥
सोद्देशस्तु स्वयं दीर्घपूर्वाद्यार्णो नमोयुतः ।सर्वविद्याप्रदोष्टार्णः प्रतिवादिजयप्रदः ॥ विमुक्तिसाधनः कीर्तिबुद्धिस्थैर्यप्रदः सदा ॥49॥
वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं चन्द्रावदातममितात्मकरैः समन्तात् ।अण्डान्तरं बहिरपि प्रतिभासयन्तं शङ्खाक्षपुस्तकसुबोधयुताब्जबाहुम् ॥50॥
नस्तो मुखादपि निरन्तरमुद्गिरन्तं विद्या अशेषत उताब्जभवेशमुख्यैः ।संसेव्यमानमतिभक्तिभरावनम्रैर्लक्ष्म्यामृतेन सततं परिषिच्यमानम् ॥51॥
स्वयमुद्देशवान् पूर्ववर्णपूर्वो नमोयुतः ।सतारोष्टाक्षरश्चैव नवार्णश्च मनू स्मृतौ ॥52॥
प्रोद्यद्दिवाकरसमानतनुं सहस्रसूर्योरुदीधितिभिराप्तसमस्तलोकम् ।ज्ञानाभयाङ्कितकरं कपलिं च दत्तं ध्यायेदजादिसमितिं प्रतिबोधयन्तम् ॥53॥
अधृष्यताज्ञानमोक्षप्रदौ भक्तेष्विमौ सदा ।सूक्तं दीर्घतमोदृष्टं विष्णोर्नु कं इति प्रभोः ॥54॥
सर्वार्थदं गार्त्समदं यो जात इति चापरम् ।वासिष्ठं च परो मात्रयेति ज्ञानविमुक्तिदम् ॥55॥
भौवनीयं सर्वकाममोक्षदं य इमेत्यपि ।एवमेवाखिला वेदा ज्ञातव्या विष्णुतत्पराः ॥56॥
स्वदृष्टं सूक्तमखलिं कामदं हरितुष्टिदम् ।वाचोम्भृण्याः श्रियोङ्गानि श्रीर्लक्ष्मीर्मेन्दिरा रमा ॥57॥
कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम् ।उद्यच्छतार्कसदृशीं परमाङ्कसंस्थां ध्यायेद्विधीशनुतपादयुगां जनित्रीम् ॥58॥
लज्जाबीजं च तद्बीजं तस्या एवाभिधायकम् ।पाशाङ्कुशौ रक्तवस्त्रे लज्जाबीजं विशिष्यते ॥59॥
अमध्ययुग्मस्वरगतेनैवाङ्गमुदाहृतम् ।सत्ताबीजं च दुर्बीजं तद्वदेव प्रकीर्तितम् ॥60॥
वर्णः श्यामो विशेषोत्र ताम्बूलं नीलमुत्पलम् ।शङ्खचक्रौ तर्जनश्च शूलमित्यपरत्र च ॥61॥
नमोन्तं स्वेन सहितस्तदेवान्यो मनुः स्मृतः ।दुर्गा त्रिष्टुप् कश्यपोक्ता तत्र वर्णोग्निवत् स्मृतः ॥62॥
त्रिनेत्रत्वं च दुर्गायाः प्रायः सर्वत्र कथ्यते ।पादैः समस्तेन तथा षड्वर्णेनाङ्गमुच्यते ॥63॥
रमाया एव रूपाणि त्वेतानि हि विदो विदुः ।मुख्यतो जामद्ग्यस्तु देवतास्य मनोः स्मृतः ॥64॥
हिरण्यगर्भसूक्तं च भृगुदृष्टं प्रकीर्तितम् ।ब्रह्मधातृविरिञ्चाजपाद्मैरङ्गमुदाहृतम् ॥65॥
ध्यायेन्निषण्णमजमच्युतनाभिपद्मे प्रोद्यद्दिवाकरसमूहनिकाशमग्र्यम् ।मातृप्रकारकरमुत्तमकान्तिमद्भिर्वक्त्रैः सृजन्तमखिलैः परमार्थविद्याः ॥66॥
स्वयमुद्देशनतिमांस्तस्य पञ्चाक्षरो मनुः ।स्वयमेवापरोष्टार्णस्तादृशः सम्प्रकीर्तितः ॥67॥
बळाद्यं भृगुणा दृष्टं प्राणाग्नेः सूक्तमुच्यते ।प्राणाद्यैः पञ्चभिस्तस्याप्यङ्गान्युक्तानि सूरिभिः ॥68॥
उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वसीनमस्य नुतिनित्यवचःप्रवृत्तिम् ।ध्यायेद् गदाभयकरं सुकृताञ्जलिं तं प्राणं यथेष्टतनुमुन्नतकर्मशक्तिम् ॥69॥
प्राणाद्याः पञ्चमन्त्राश्च तस्य देवस्य वाचकाः ।उच्यते हरिरप्येतैः साक्षान्नारायणादिकः ॥70॥
ब्रह्माण्याः अपि भारत्या गौरीर्यस्त इति श्रुतौ ।मन्त्रौ दीर्घतमोदृष्टौ सर्वाभीष्टप्रदायकौ ॥71॥
उद्यद्दिवाकरसमूहनिभां स्वभर्तुरङ्केस्थितामभयसद्वरबाहुयुग्माम् ।मुद्रां च तत्त्वदृशये वरपुस्तकं च दोर्युग्मकेन दधतीं स्मरतात्मविद्याम् ॥72॥
पादैर्व्यस्तैः समस्तैश्च तदङ्गानि विदो विदुः ।स्वयमुद्देशनत्यन्तो मन्त्रौ द्वावपरौ तयोः ॥73॥
मन्त्राः ह्येते हरेः प्रीतिदायकाः सर्वकामदाः ।इष्टं देवं हरिः साक्षाल्लक्ष्मीर्भाग्यस्य देवता ॥ गुरुब्रह्मात्र वायुर्वा विद्यादेव्यौ प्रकीर्तिते ॥74॥
तस्मादेते प्रिया विष्णोरन्तरङ्गतया सदा ।ज्ञेयाश्चैव प्रपूज्याश्च विष्णोः प्रीतिमभीप्सता ॥75॥
उद्देशनतियुङ्मन्त्रः स्वयमेव शिवस्य तु ।वर्णैरेतैस्तदङ्गानि वामदेवो मुनिः स्मृतः ॥ पङ्क्तिशब्दार्थविज्ञाने न हि छन्दसि संशयः ॥76॥
ध्येयः पञ्चमुखो रुद्रः स्फटिकामलकान्तिमान् ।विद्युच्छुभ्रासितरजःश्यामान्यस्य मुखानि च ॥ जटावबद्धेन्दुकलः प्रियायुङ् नागभूषणः ॥77॥
मन्त्रेष्वेतेषु सर्वेषु वाच्यस्तारेण केशवः ।अन्तर्यामितया ध्येयः सर्वदेवेषु सर्वदा ॥78॥
स एव वनितालिङ्गः पार्वत्याः मनुरुच्यते ।गौरी वराभयकरा ध्येया पीताम्बरा च सा ॥79॥
स्वयमुद्देशनत्यन्तः पूर्वपूर्वः षडक्षरः ।सनत्कुमारदृष्टोयं मन्त्रः शेषस्य कामदः ॥80॥
दधानो हलसौनन्दौ श्वेतवर्णः कृताञ्जलिः ।सहस्रमूर्धाद्वितीयकर्णभूषः प्रियायुतः ॥ वनमाली नीलवासा ध्येयो विष्णोस्तु पृष्ठतः ॥81॥
व्यस्तपक्षितारौ च स्वाहान्तो गारुडो मनुः ।कश्यपोस्य मुनिर्ध्येयो सुधापूर्णं हिरण्मयम् ॥82॥
दधानः कुम्भमभयं पीतशुक्लारुणो हरित् ।कृष्णश्चाजानुतो नाभेः कण्ठात् कादन्त एव च ॥83॥
प्रियायुक् पुरतो विष्णोः पक्षतुण्डसमन्वितः ।जङ्गमस्थावरविषहृदयं सर्वकामदः ॥84॥
मन्त्राश्च लोकपालानां नमोन्तः सर्वकामदाः ।पीतरक्तासितश्वेतरक्तशुक्लाश्च वर्णतः ॥85॥
सप्रियाः साभया वज्रशक्तिदण्डासिपाशिनः ।गदाकुमुदशूलर्ष्टिखङ्गिनो भूषणोज्ज्वलाः ॥86॥
अग्निश्च स्वयमुद्देशी सनमः स्कन्दवाचकः ।कौशिकोस्य मुनिर्वह्निवर्णः षण्मुख उज्ज्वलः ।
ह्रस्वः कृपालुः सेतश्च स्वयमन्यः स्वयं तथा ।सतारोष्टाक्षरः सौरः क्रमव्युत्क्रमतः पदैः ॥88॥
अङ्गानि पद्मयुगलधरो ध्येयोरुणो रविः ।सर्वव्याधिहरः श्रीदो वृष्टिदोयं मनुः स्मृतः ॥89॥
मोनयदासाप्रप्रक्षि व्यत्यस्तो विघ्नराण्मनुः ।रक्ताम्बरो रक्ततनू रक्तमाल्यानुलेपनः ॥90॥
महोदरो गजमुखः पाशदन्ताङ्कुशाभये ।बिभ्रद्ध्येयो विघ्नहरः कामदस्त्वरया ह्ययम् ॥91॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥92॥
स्वयमुद्देशवान् पूर्वपूर्वो हृदयसंयुतः ।धान्वतरो महामन्त्रः संसृतिव्याधिनाशनः ॥ अत्रोक्तसर्वमन्त्राणां नायकोपलसन्निभः ॥93॥
चन्द्रौघकान्तिममृतात्मकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् ।ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥94॥
मूर्धि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तालुसंस्थात् ।हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुर्दुरितानि हन्यात् ॥95॥
अज्ञानदुःखभयरोगमहाविषाणि योगोयमाशु विनिहन्ति सुखं च दद्यात् ।उन्मादविभ्रमहरः परश्च सान्द्रस्वानन्दमेव पदमापयति स्म नित्यम् ॥96॥
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं देवं स यस्य शिरसि स्वकरं निधाय ।आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥97॥
शतं सहस्रमयुतं लक्षं वारोगसङ्क्षयात् ।इममेव जपेन्मन्त्रं साधूनां दुःखशान्तये ॥98॥
ज्वरदाहादिशान्त्यर्थं तर्पयेन्मनुनामुना ।ध्यात्वा हरिं जले सप्तरात्राज्जूर्तिर्विनश्यति ॥99॥
अयुतामृतसमिद्धोमाद् गोघृतक्षीरसंयुतात् ।सर्वरोगा विनश्यन्ति विमुखो न हरेर्यदि ॥100॥
भूताभिचारशान्त्यर्थमपामार्गाहुतिक्रिया ।द्विगुणामृतया पश्चात् केवलेन घृतेन वा ॥101॥
आयुर्विवृद्धये नित्यं जन्मनक्षत्र एव वा ।चतुश्चतुर्भिदूर्वाभिः क्षीराज्याक्ताभिरिष्यते ॥102॥
सर्वक्रिया हरौ भक्ते हरिभक्तैः स्वनुष्ठिताः ।गुरुभक्तैः सदाचारैः फलन्त्यद्धा न चान्यथा ॥103॥
ब्रह्मान्ताः गुरवश्चैव सम्प्रदायप्रवर्तकाः ।तत्तद्गुणानुसारेण पूज्याः मान्याश्च सर्वशः ॥104॥
सर्वेभ्योभ्यधिका भक्तिर्विष्णौ स्यादतिनिश्चला ।लक्ष्मीब्रह्मादिषु ततः क्रमेण स्यात् सुभाविता ।
शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान् ।इतरानात्मपापोत्थांस्तेषां विद्या फलिष्यति ॥106॥
मुक्तावपि च संसारे नात्मनो विष्णुना क्वचित् ।ब्रह्मरुद्रादिभावं वा साम्यं वाधिक्यमेव वा ॥107॥
अतद्वशत्वमथवा यः स्मरेत् स तु सिद्धिभाक् ।नान्यथा सिद्धिमाप्नोति कल्पकोटिशतैरपि ॥108॥
स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरू तथा ।देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥109॥
अवज्ञाता गुरूणां च देवतानां न सिद्ध्यति ।प्रयाति च तमो घोरं मन्त्रावज्ञाकृदेव च ॥110॥
यस्तारतम्यवेत्ता स्याद् गुरूणां देवतास्वपि ।भक्तिमान् गुरुदेवेषु तद्भक्तेषु च सिद्ध्यति ॥111॥
गुरुदेवप्रतीपानां विमुखास्तत्प्रिये रतः ।अकामक्रोधलोभश्च न चिरात् सिद्धिमाप्नुयात् ॥112॥
सकामेभ्योमितगुणा याकामैस्तु कृता क्रिया ।तस्मादकाम एवालं भजेद्विष्णुं सनातनम् ॥113॥
अयं मे हस्त इति च मन्त्रः पूर्वोक्तवत्स्मृतः ।अत्रोक्तास्तु क्रियाः सर्वमन्त्रेष्वप्युपलक्षणम् ॥114॥
विजयस्तम्भनादीनि नारसिंहैर्विशेषतः ।जामदग्न्यैश्च कार्याणि राघवैर्यादवैरपि ॥ वाराहैः स्तम्भनं क्षिप्रं श्रीकराऋ कथिताः पुरा ॥115॥
बहुबाहुं महाकायमुद्युक्तं चोद्यतायुधम् ।स्मरन् विजयमाप्नोति स्तम्भनादींश्च कारयेत् ॥116॥
वसुपूर्णकरं रत्नपर्वतस्थं विभावयन् ।वसुसिद्धिमवाप्नोति सेव्यमानजादिभिः ॥ श्रिया विभूतिभिर्युक्तं भावयन् भूतिमाप्नुयात् ॥117॥
यद्यन्मनोगतं तस्य तत्तदाप्नोत्यसंशयम् ।तथा तथा हरिं ध्यायन् क्रियास्तास्ताश्च साधयन् ॥118॥
श्रिये पद्मानि जुहुयात् सम्प्रीत्या उत्पलानि च ।शरान् जयाय जुहुयादभिमन्त्र्य प्रयोजयेत् ॥119॥
विद्यायै मन्त्रितं वारि वचां वा तुलसीमपि ।ब्राह्मीं घृतं सुवर्णं वा शतावृत्त्या तु नित्यशः ॥120॥
अकुर्वंश्च क्रिया भक्त्या निरपेक्षो भजन् हरिम् ।सर्वमेतदवाप्नोति विशेषेण न संशयः ॥121॥
सृष्टिस्थितलयन्यासाः प्रातलिोम्यानुलोमतः ।स्थित्यन्ता एव वर्णानां श्रेष्ठा एव चतुर्दश ॥ संहृत्यन्ता मोक्षिणान्ते एकविंशतिरेव वा ॥122॥
पादहृत्केषु नाभ्यास्ययुक्तं च सललाटकम् ।सनासिकादृग्जान्वोश्च सश्रोत्रं सोरुकं तथा ॥123॥
सोरस्कश्च सकण्ठं च सभुजद्वयमेव च ।सगण्डयुग्मं सालीकं सतुण्डं क्रोडकं तथा ॥124॥
समूलं च सगुह्यं च सपार्श्वद्वयमेव च ।सदोर्द्वयं व्यापकं च गलपार्श्वद्वयं तथा ॥125॥
ककुत्स्तनद्वयेनापि पृष्ठभागेन सर्वशः ।न्यासो यथाक्रमं प्रोक्तो मन्त्रेष्वेतेषु कृत्स्नशः ॥126॥
प्रतिमायामात्मनि च न्यासोयं सन्निधानकृत् ।बीजान्तःसाध्यमध्यं च विभक्तदलमन्त्रयुक् ॥127॥
वर्णानुप्रातलिोम्येन वृत्तं भूपुरसंयुतम् ।बीजसन्दृब्धकोणं च यन्त्रं रक्षादिसाधनम् ॥128॥
समं तत्सर्वमन्त्रेषु जप्तं धार्यं तु वा भुवि ।विलिख्य मण्डले वा तत्पूजयेद्धरिमञ्जसा ॥129॥
प्रतिमालक्षणैर्यावद्युक्त आचार्य उत्तमः ।सर्ववित्तपसा युक्त आज्ञाशक्तियुतो हरेः ॥130॥
यावद्भक्तो यथा लब्धैर्गुणैर्युक्तोथ वैष्णवः ।गुरुः सत्सम्प्रदायज्ञस्तारतम्येन सिद्धिदः ॥131॥
उत्तमादुत्तमा सिद्धिर्धर्ममोक्षेषु स्फुटम् ।तस्मादुत्तम आचार्ये लब्धे नातोवरं व्रजेत् ॥132॥
एकस्य शिष्यतां प्राप्य तदाज्ञां न विना समम् ।अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥133॥
विशेषतो गुणश्च स्यादेवेष्वप्येवमेव हि ।तस्मादुत्तममाचार्यं देवेशं चाश्रयेद्धरिम् ॥134॥
अपरोक्षदृशेरेव यस्मान्मोक्षो न चान्यथा ।अपरोक्षदृशिश्चैव श्रवणान्मननादनु ॥ सम्यङ्निश्चिततत्त्वस्य निदिध्यासनया भवेत् ॥135॥
द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम् ।एकं ध्यानं हरेसन्यच्चत्वार्यङ्गानि तस्य च ॥ यमश्च नियमश्चासा प्राणायाम इतीरितः ॥136॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् ॥ नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनम् ॥137॥
रेचकः पूरकश्चैव कुम्भश्च त्रिधा स्मृतः ।प्राणायामः स्मृतिं विष्णोर्विना नियम उच्यते ॥138॥
अधीतिस्मृतियुक्तो हि निदिध्यासनमेव हि ।प्राणायामेपि विष्णोर्यत्स्मरणं ध्यानमेव हि ॥139॥
आसा शौचं प्राणायामो निष्परिग्रहपूर्वकाः ।तपआद्याः क्रमात् सर्व उत्तरोत्तरतोधिकाः ॥ सर्वस्माच्छ्रवणाद्यास्तु मुख्या मुक्तिप्रसाधने ॥140॥
अज्ञस्य श्रवणं श्रेष्ठमयुक्तेर्मननं तथा ।ध्यानं निश्चिततत्त्वस्य तस्माच्छास्त्रावमर्शनम् ॥141॥
वरं दशगुणं तस्मात् व्याख्यैकस्य शतोत्तरा ।अपरोक्षदृशाप्येषा कर्तव्या विष्णुतुष्टिदा ॥142॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥143॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥144॥
शौचासने त्वङ्गमात्रं न पृथङ्धर्मकारणम् ।प्राणायामादयस्तुष्टिपर्यन्ता द्विगुणाधिकाः ॥145॥
स्वाध्यायो कोटिगुणस्ततोनन्तगुणा हरेः ।पूजातस्त्रिगुणं ध्यानमिति धर्मक्रमः स्मृतः ॥146॥
ऊर्वोरधः पदोरूर्ध्वं त्रिभागेनेति च त्रिधा ।आसनत्रयमुद्दिष्टं मन्त्रस्मरणपूर्वकम् ॥147॥
द्विगुणोत्तरं रेचकादि षोडशादिक्रमेण तु ।मात्राणां ह्रस्ववर्णस्य कालो मात्रेति शब्द्यते ॥148॥
क्रमेणैवाभ्यसेन्मात्रावृद्धिमेकाग्रधीः पुनः ।रेचयित्वा दक्षिणतः पूरयित्वा च वामतः ॥ कुम्भकश्च सुषुम्नायां विष्णुं वायुं च संस्मरेत् ॥149॥
मूलाधारं समारभ्य त्वामूर्धानमृजुस्थिता ।मध्ये सुषुम्ना विज्ञेया वज्रिकार्या प्रकाशिनी ॥150॥
वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी ।पृष्ठवामाग्रदक्षान्तर्भेदास्तेषु च क्रमेण तु ॥151॥
हरिर्नीलः सितः पिङ्गो लोहितश्चात्र केशवः ।प्रद्युम्नादिस्वरूपेण ध्येयः सिद्धिमभीप्सता ॥152॥
मूले च नाभौ हृदयेन्द्रयोनिभ्रूमध्यमूर्धि द्विषडन्तकेषु ।चतुःषडष्टद्विचतुर्द्विषट्कदलेषु पद्मेषु सितारुणेषु ॥ पञ्चात्मकोसौ भगवान् सदैव ध्येयो हृदन्तान्यरुणानि तानि ॥153॥
त्रिकोणवह्नौ च षडश्रवायौ द्विस्तावदस्ररविवृत्तशशित्रिवह्नौ ।वृत्ते विधावपि विचिन्त्यमिदं दशार्ध रूपं सितं तदखिलं हृदयात् परस्थम् ॥154॥
इडा च पिङ्गला चैव वज्रिका धारिणी तथा ।सुषुम्नायाश्चतुर्दिक्षु व्रजिकाद्यासु तत्र च ॥ चतुर्मूर्तिः स भगवान् हृदये संव्यवस्थितः ॥155॥
द्वासप्ततिसहस्राणि नाड्योन्यास्तु प्रधानतः ।बृहतीसहस्रस्पर्शानामृचां वाच्योत्र केशवः ॥156॥
रूपाणां लक्षणं तेषां रहस्यत्वान्न कथ्यते ।विष्णुना ब्रह्मणे प्रोक्तं ग्रन्थसङ्कोचतस्तथा ॥157॥
खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते ।अप्रयत्नात् समाधिश्च दर्शनं चिरयानया ॥ अथवा सततं शास्त्रविमर्शेन भविष्यति ॥158॥
परमस्नेहसंयुक्तयथार्थज्ञानतो भवेत् ।सा भक्तिरिति विज्ञेया साधनं भोगमोक्षयोः ॥159॥
मुख्यमेषैव नान्यत् स्यात् सर्वं व्यर्थं तया विना ।सैकाप्यभीष्टफलदा मोक्षो दर्शनयुक्तया ॥160॥
दर्शनं तु तया हीनं व्यर्थमन्यत् किमुच्यते ।योग्यं तु दर्शनं नैव तया हीनं भविष्यति ॥161॥
आनन्दचित्सदितिपूर्वगुणैः समस्तैर्मर्त्यादिभिर्विधिपरैर्भगवान् क्रमेण ।ध्यातोधिकैरधिगुणोधिकमेव सौख्यं मुक्तौ ददाति सततं परमस्वरूपः ॥162॥
निर्दोषाखलिसम्पूर्णगुणेन हरिणा स्वयम् ।ब्रह्मणे कथितात् तन्त्रसारादुद्धृत्य सादरम् ॥ आनन्दतीर्थमुनिना कृतो ग्रन्थोयमञ्जसा ॥163॥
ग्रन्थोयं पाठमात्रेण सकलाभीष्टसिद्धिदः ।किमु ज्ञानादनुष्ठानादुभयस्मात् पुनः किमु ॥164॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥165॥
अशेषदोषोज्झितपूर्णसद्गुणं सदा विशेषापगतोरुरूपम् ।नमामि नारायणमप्रतीपं सदा प्रियेभ्यः प्रियमादरेण ॥166
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्ररासङ्ग्रहे चतुर्थोध्यायः ।