Talavakara
अथ प्रथमः खण्डः
विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः ॥ यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः । केन तत्प्रेरितं याति प्राणः सर्वोत्तमस्तथा ॥ चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत् । इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥ ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् । सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥ यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः । अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ॥ प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः ।
सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥अथ द्वितीयः खण्डः
सर्वात्मना विजानामीति तु यस्य मतं भवेत् ॥ तस्याज्ञातस्स भगवान् यो नैवं मन्यते सदा । ज्ञातस्तस्य तथाऽस्यैव निश्शेषं मननं कृतम् ॥ इति यो मन्यते नास्य मतस्स पुरुषोत्तमः । नातिवेद्यो न चावेद्यस्तस्मात् स परमेश्वरः ॥ नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम् । किन्तु यत्ते समीपस्थमास ते विनियामकम् ॥ तदेव ब्रह्म विदि्ध त्वं विष्ण्वाख्यं परमव्ययम् । नियामकं तद्देवानां मर्त्यानां किमुतोत्तमम् ॥ तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः ।
किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते ॥अथ तृतीयः खण्डः
स्थित्वा देवेषु तद् ब्रह्म व्यजयद्दैत्यदानवान् ॥ देवेभ्योऽर्थाय विजयं ते देवा मेनिरे स्वकम् । आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः ॥ यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः । ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्यहम् ॥ एतेऽपि मे भृत्यभूताः परिवार्य व्यवस्थिताः । इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः ॥ यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति । तज्ज्ञानार्थं हुताशश्च नासिक्यो वायुरेव च ॥ इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन् । तत्रेन्द्रोऽधिकबुदि्धत्वात् पृच्छतीति जनार्दनः ॥ मत्तः शिवाद् ब्रह्मणश्च श्रोतुं नैवापि शक्तिमान् । इति ज्ञापयितुं तत्र नादृश्यत स केशवः ॥
एषैव ज्ञानदाने ते योग्योमेति व्यदर्शयत् ॥अथ चतुर्थः खण्डः
यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥ सभार्या गर्विणो नासन् सुरेभ्यस्तेऽधिकास्ततः । इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः ॥ दक्षादिभ्यस्तथा कामः स ज्ञातुं पूर्वमुक्तवान् । दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा ॥ सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति । नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥ सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः । एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः ॥ एतेषामवमो वह्निः परमो विष्णुरुच्यते । अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः ॥ अग्निः पश्चाद्व्यजानात् तदिन्द्रवाक्यात् ततोऽवमः । तस्माद्विष्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम् ॥ व्यद्योतयद्विद्युदादीन् कपिलाख्यस्तु यो हरिः । अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे ॥ स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम् । अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च ॥ सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि । सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते ॥ स विष्णुस्तद्वनं नाम ततत्वाद् वननीयतः । एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः ॥ एतत् श्रुत्वा हरोऽपृच्छद् ब्रह्माणं पुनरेव तु । विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माऽऽह तं पुनः ॥ विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम् । तपोदानस्वधर्मेषु ये स्थितास्तेषु तिष्ठति ॥ विद्यास्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः । वेदैतामेवमखिलां यो विष्णौ प्रतितिष्ठति ॥ इत्यादि ब्रह्मसारे ॥ विद्युतः सूर्यादिप्रकाशान् । आसमन्ताद्व्यद्युतत्प्राकाशयत् । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति वचनात् । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति च । न्यमीमिषदा आ समन्तान्निमीलिताक्षमभवत् । स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु ॥ इति वचनात् । पूर्णत्वाच्च आः । अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम् । सङ्कल्पकमित्यर्थः । सप्रतिष्ठां सायतनामुपनिषदं ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम् । तत्र वक्तव्यं नास्ति । तपो दमः कर्म च विद्यायाः प्रतिष्ठा । तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः । सत्यमिति मीमांसा । निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् । श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया ॥ सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयाः ॥ इति शब्दनिर्णये ॥ ऋग्यजुस्सामाथर्वाख्याः पञ्चरात्रं च भारतम् । मूलरामायणं चैव पुराणं भगवत्परम् ॥ वेदा इत्युच्यते सदि्भः शिक्षाद्यं स्मृतयस्तथा । अङ्गानि सत्यं मीमांसा तद्विद्यायतनं त्रयम् ॥ इति विद्यानिर्णये ॥ यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः ।
नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने ॥