Jump to content

Kathalakshanam

From Grantha
कथालक्षणम्


नरसिंहमखिलाज्ञानतिमिराशिशिरद्युतिम् । सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा ॥1॥


वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा । तत्त्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः ॥2॥


कथाऽन्येषामपि सतां वादो वा समितेः शुभा । ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥3॥


वितण्डा तु सतामन्यैस्तत्त्वमेषु निगूहितम् । स्वयं वा प्राश्निकैर्वादे चिन्तयेत् तत्त्वनिर्णयम् ॥4॥


रागद्वेषविहीनास्तु सर्वविद्याविशारदाः । प्राश्निका इति सम्प्रोक्ता विषमा एक एव वा ॥5॥


अशेषसंशयच्छेत्ता निःसंशय उदारधीः । एकश्चेत् प्राश्निको ज्ञेयः सर्वदोषविवर्जितः ॥6॥


एको वा बहवो वा स्युर्विष्णुभक्तिपरास्सदा । विष्णुभक्तिर्हि सर्वेषां सद्गुणानां स्वलक्षणम् ॥7॥


पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये । नैषा तर्केणापनेया मतिरित्याह हि श्रुतिः । अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥8॥


ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव सम्प्रोच्यन्ते सदागमाः ॥9॥


अनुकूला य एतेषां ते च प्रोक्तास्सदागमाः । अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ॥10॥


स्वपक्ष आगमश्चैव वक्तव्यः प्रतिवादिना । तस्याप्यन्यार्थता साध्या वादिना स्वार्थसिद्धये ॥11॥


अन्यार्थता निराकार्या स्वागमस्य विनिश्चयम् । उपपत्त्यवकाशोऽत्र ह्यागमार्थविनिर्णये ॥12॥


वाद्यागमार्थे निर्णीत आगमार्थः परस्य तु । निर्णेयः सहितैः पश्चात्ततो निश्शेषनिर्णयः ॥13॥


प्रत्यक्षसिद्धेष्वर्थेषु प्रश्ने मामक्षजं वदेत् । ज्ञानं वा ज्ञानसिद्धेषु नानुमां प्रथमं वदेत् ॥14॥


परतुष्टिकरं वाक्यं वदेतां यदि वादिनी । स एवात्रागमो ज्ञेयः परतुष्टिर्हि तत्फलम् ॥15॥


एवं निर्णयपर्यन्तं वादे सुबहवोऽपि हि । घटेयुश्चिरकालं च जल्पे यावत्परो जितः ॥16॥


तत्त्वनिर्णयवैलोम्यं वादे साक्षात्पराजयः । संवादे श्लाघ्यतैव स्याद् गुरुत्वमितरस्य च ॥17॥


तत्त्वनिर्णयवैलोम्ये निन्द्यो दण्ड्योऽथवा भवेत् । विरोधासङ्गतिन्यूनतूष्णीम्भावादिकैर्जितः ॥18॥


भवेज्जल्पे वितण्डायां न्यायो जल्पवदीरितः । संवादे दण्ड्यतां न स्याद् वितण्डाजल्पयोरपि ॥19॥


पराजितत्वमात्रं स्यान्निन्द्यो दण्ड्योऽपि वाऽन्यथा । अनुवादादिराहित्यं नैव जल्पेऽपि दूषणम् ॥20॥


विद्याहीनत्वलिङ्गेऽपि वादिनोः स्यात् पराजयः । तदभावान्नैव षट्कादन्यो निग्रह इष्यते ॥21॥


अन्तर्भावादिहान्येषां निग्रहाणामिति स्म ह । विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥22॥


स्खलितात्वादिमात्रेण न तत्रापि पराजयः । वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ॥23॥


आनन्दतीर्थमुनिना ब्रह्मतर्कानुसारतः । कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥24॥


सदोदितामितज्ञानपूरवारितहृत्तमाः । नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥25॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं कथालक्षणम् ॥