Jump to content

Kandukastuti

From Grantha
कन्दुकस्तुतिः (श्रीकृष्णपद्यम्)


अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः ।कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः॥१॥


कालघनालीकर्बुरकायः शरशतशकलित(सुररिपु)रिपुशतनिवहः ।सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ २॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता कन्दुकस्तुतिः॥ (श्रीकृष्णपद्यम्)