Isha/C1
नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥ १ ॥ यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च । ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥ २ ॥ स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव । स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः । ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ॥ रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा । स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान् ॥ प्रादादि्ध भगवांस्तेषामवध्यत्वं हरः प्रभुः । तैर्वध्यत्वं तथाऽन्येषामतः कोऽन्यो हरेः प्रभुः ॥ इति ब्रह्माण्डे । भागवते चायमर्थ एव उक्तः ॥
स्वतः प्रवृत्यशक्तत्वादीशावास्यमिदं जगत् । प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः ॥ तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् ।
तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत् ॥ इति ब्राह्मे ॥ १ ॥
अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः । ज्ञानिनोऽपि यतो ह्रासः आनन्दस्य भवेद् ध्रुवम् ॥ अतोऽलेपेऽपि लेपः स्यादतः कार्यैव सा सदा ॥
इति नारदीये ॥ २ ॥
महादुःखैकहेतुत्वात् प्राप्यत्वादसुरैस्तथा । असुर्या नाम ते लोकास्तान् यान्ति विमुखा हरौ ॥ इति वामने । ये के चेत्यनेन नियम उक्तः ।
नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ । इति च ॥ ३ ॥
सम्यग्ज्ञातुमशक्यत्वादगम्यं तत्सुरैरपि ॥ स्वयं तु सर्वानगमत् पूर्वमेव स्वभावतः । अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम् ॥ द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत् । मारुत्येव यतश्चेष्टा सर्वा तां हरयेर्पयेत् ॥ इति ब्रह्माण्डे ।
ऋष ज्ञाने ॥ ४ ॥
ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम् । सर्वगत्वात् स दूरे च बाह्येऽन्तश्च समीपगः ॥
इति तत्त्वसंहितायाम् ॥ ५ ॥
यः पश्येत् स भयाभावान्नात्मानं गोप्तुमिच्छति ॥
इति सौकरायणश्रुतिः ॥ ६ ॥
यस्मिन् सर्वाणि भूतानि स आत्मा सर्वभूतगः । एवं सर्वत्र यो विष्णुं पश्येत् तस्य विजानतः ॥ को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद्यतः ॥ इति पिप्पलादशाखायाम् ।
पूर्वोक्तानुवादेन शोकमोहाभावो विजानतश्चात्रोच्यते । अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥ ७ ॥
पावनत्वात्सदा शुद्धमकायं लिङ्गवर्जनात् ॥ स्थूलदेहस्य राहित्यादस्नाविरमुदाहृतम् । एवम्भूतोऽपि सार्वज्ञ्यात् कविरित्येव शब्द्यते ॥ ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च । ईशितृत्वान्मनीषी स परिभूस्सर्वतो वरः ॥ सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः । स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः ॥ अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः । नियमेनैव ससृजे भगवान् पुरुषोत्तमः ॥ सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥ एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् ।
अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुः ॥ इति वाराहे ॥८॥
ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥ तस्माद्यथास्वरूपं तु नारायणमनामयम् । अयथार्थस्य निन्दां च ये विदुः सह सज्जनाः । ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः ॥ दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः । यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् ॥
यान्ति ... ॥ ९-११ ॥
तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् ॥ नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम् । सर्वकर्तारमीशेशं सर्वसंहारकारकम् ॥ यो वेद संहृतिज्ञानाद्देहबन्धाद्विमुच्यते । सुखज्ञानादिकर्तृत्वज्ञानात् तद्व्यक्तिमाव्रजेत् ॥ सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् । जानीयान्न गुणानां च भागहानिं प्रकल्पयेत् ॥ न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् । नैव प्रचिन्तयेत् तस्मात् ब्रह्मादेः साम्यमेव वा ॥ मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् । ततो विष्णोः परोत्कर्षं सम्यग्ज्ञात्वा विमुच्यते ॥
इति कौर्मे ॥ १२-१४ ॥
विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः ॥ सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः ।
विशेषेणैव गम्यत्वात् ... ॥ १६ ॥
अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥ स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥ इति ब्रह्माण्डे । सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोऽसौशब्दः प्राणे स्थित इति ॥ यस्मिन्नयं स्थितः सोऽप्यमृतः किमु परः । अः ब्रह्मैव निलयनं यस्य वायोः सोऽनिलम् । अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः । मुख्यामृतः स्वयं रामः परमात्मा सनातनः ॥
इति रामसंहितायाम् ॥अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते ॥
इति ब्रह्मतर्के ॥ १७-१९ ॥
यदस्मान् कुरुतेऽत्यल्पांस्तदेनोऽस्मद्वियोजय । नय नो मोक्षवित्तायेत्यस्तौद्यज्ञं मनुः स्वराड् ॥ इति स्कान्दे । युयु वियोगे इति धातुः । भक्तिज्ञानाभ्यां भूयिष्ठां ते नम इत्युक्तिं विधेम ॥ पूर्णशक्तिचिदानन्दश्रीतेजःस्पष्टमूर्तये ।
ममाभ्यधिकमित्राय नमो नारायणाय ते ॥