Jump to content

BramhasutraBhashyam/C04/S01/व्याख्या/bhashya

From Grantha


‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’ इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फलप्राप्तिः। किन्त्वावृत्तिः कर्तव्या ।
‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’ इत्याद्यसकृदुपदेशात् ॥ 01 ॥


‘स तपोऽतप्यत……. पुनरेव वरुणं पितरमुपससार’ इत्याद्यावर्तनलिङ्गाच्च ।
‘नित्यशः श्रवणं चैव मननं ध्यानमेव च ।
इत् बृहत्तन्त्रे ॥ 02 ॥


आत्येत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव ।
इति ग्राहयन्ति च ।
‘आत्मेत्युपासनम् कार्यं सर्वथैव मुमुक्षुभिः ।
इति भविष्यत्पर्वणि ॥
‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
इति ब्राह्मे ॥ 03 ॥


‘नाम ब्रह्मेत्युपास्ते’ इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् ।
ब्रह्मतर्के च –
‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः ।
ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥
नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते ।
सर्वार्था प्रथमा यस्मात् सप्तम्यर्था ततो माता’ इति ॥ 04 ॥


ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।
‘ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् ।

महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि ।

सर्वतः प्रीतिजनकमतस्तत् सर्वता भवेत् ॥
आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।
इति ब्रह्मतर्के ॥ 05 ॥


‘चक्षोः सूर्यो अजायत’ इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानात् स्वाश्रयत्वान्मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं तथोपासनम् ।
नारायणतन्त्रे च –
‘आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।
गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु ॥
स्मर्तव्यं सततं तत् तु न कदाचित् परित्यजेत् ।
अत्र सर्वगुणानां च यतोऽन्तर्भाव इष्यते ॥
स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।

तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥

तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः’ इति ॥ 06 ॥


सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ॥ 07 ॥


‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।
स्मरणं सर्वदा योग्यं ध्यानोपासनमानसे॥
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।
आसीनस्य भवेत् तत् तु न शयानस्य निद्रया ॥
स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।
इति च नारायणतन्त्रे।
अतो ध्यानत्वाच्च ॥ 08 ॥


‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।
इति च ब्रह्माण्डे ॥ 09 ॥


‘समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्’ इत्यादि ॥ 10 ॥


देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
‘तमेव देशं सेवेत तं कालं तामवस्थितिम् ।
तानेव भोगान् सेवेत मनो यत्र प्रसीदति ॥
न हि देशादिभिः कश्चिद्विशेषः समुदीरितः ।
इति वाराहे ॥ 11 ॥


यावन्मोक्षस्तावदुपासनादि कार्यम् ॥
‘स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति हि श्रुतिः ॥
‘सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासते’ इति सौपर्णश्रुतिः ॥
‘श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥
दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते।
इति ब्रह्माण्डे ॥ 12 ॥


ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च ।
‘तद्यथा पुष्करफलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’।
इति तद्व्यपदेशात् ॥ 13 ॥


पुण्यस्याप्येवमसंश्लेषः पाते। तुशब्दोऽनुत्थानवाची ।
‘यथाऽश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः ।
इति चाग्नेये ॥ 14 ॥


अनारब्धकार्ये एव पूर्वे पुण्यपापे विनश्यतः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽत सम्पत्स्यते’ इति तदवधेः । तुशब्दः स्मृतिद्योतकः ।
‘यदनारब्दपापं स्यात् तद्विनश्यति निश्चयात् ।
पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ॥
‘द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः ।
इति च नारायणतन्त्रे ॥ 15 ॥


अग्निहोत्राद्यपि तु मोक्षेऽनुभावायैव । तुशब्दाद्ब्रह्मदर्शनवतः ।
‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतम् यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्दास्यान्ततः क्षीयत । एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत् तत्सृजते’ इति तद्दर्शनात् ॥ 16 ॥


मुक्तावनुभवकारणाद्यदन्यत् तत् पुण्यमपि विनश्यति, अप्रारब्दमनभीष्टं च तथा ह्येकेषां पाठ उभयोस्त्यागेन
‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ।
‘अनभीष्टमनारब्दं पुण्यमप्यस्य नश्यति ।
इति पाद्मे ॥ 17 ॥


ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तम् च भवति ।
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’

इति श्रुतेः ।

‘न हास्य कर्म क्षीयते’ इति च ।
‘अल्पमात्रकृतो धर्मो भवेद् ज्ञानवतो महान् ।
इति च भारते ॥ 18 ॥


आरब्दपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।
‘आरब्धपुण्यपापस्य भोगेन क्षपणादनु ।
प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ॥
ब्रह्मणां शतकालात् तु पूर्वमारब्दसङ्क्षयः ।
इति च नारायणतन्त्रे ॥ 19 ॥