ब्रह्मसूत्रभाष्यम्/C04/S03/A024
Appearance
कार्याधिकरणम्
ॐ कार्यं बादरिरस्यगत्युपपत्तेः ॐ ॥ 07-532 ॥
‘स एनान् ब्रह्म गमयति’ इति कार्यं गमयतीति बादरिर्मन्यते ।
‘ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् ।
यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मलोकमवाप्नुयात्’ इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ॥ 07 ॥
ॐ विशेषितत्वाच्च ॐ ॥ 08-533 ॥
‘यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति कौषारवश्रुतौ ॥ 08 ॥
ॐ सामीप्यात्तुतद्व्यपदेशः ॐ ॥ 09-534 ॥
‘ब्रह्मविदाप्नोति परम्’ इति तद्व्यपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थमेव ॥ 09 ॥
कदा ? –
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ॥ 10-535 ॥
‘ते ह ब्रह्माणमभिसम्पद्य यदैतद्विलीयतेऽथ सह ब्रह्मणा परमभिगच्छन्ति’ इति सौपर्णश्रुतेर्महाप्रलये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ 10 ॥
ॐ स्मृतेश्च ॐ ॥ 11-536 ॥
‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते परात्मानः प्रविशन्ति परं पदम्’ इति ॥ 11 ॥
ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ 12-537 ॥
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ॥ 12 ॥
ॐ दर्शनाच्च ॐ ॥ 13-538 ॥
दृष्टत्वाच्छ परब्रह्मणः ॥ 13 ॥
ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ 14-539 ॥
न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
इति पाद्मे ॥ 14 ॥‘यदुपास्ते पुमान् जीवन् यत् प्राप्तुमभिवाञ्छति ।
यच्च पश्यति तृप्तः संस्तत् प्राप्नोति मृतेरनु’
ॐ अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॐ ॥ 15-540 ॥
‘प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् ।
न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तुते ॥
अप्रतीका देवतास्तु ऋषीणां शतमेव च ।
राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ॥
एतेऽधिकारिणो व्याप्तदर्शनेऽन्ये न तु क्वचित् ।
अयोग्यदर्शने यत्नाद्ब्रंशः पूर्वस्य चापि तु ॥
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु ।
स्वेदेहे ब्रह्म दृष्ट्यैव गच्छेद्ब्रह्मसलोकताम् ।
ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ॥
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति ।
‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते’ इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ॥ 15 ॥
ॐ विशेषं च दर्शयति ॐ ॥ 16-541 ॥
‘अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः । देवा वाव सर्वप्रकाशाः ऋषयोऽन्तःप्रकाशाः मानुषा एव बहिःप्रकाशाः’ इति चतुर्वेदशिखायाम् ॥ 16 ॥