Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S03/A019

From Grantha

अर्चिराद्यधिकरणम्

ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ 01-526 ॥


‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्ण आपूर्यमाणपक्षम्’ इत्यर्चिषः प्राथम्यं श्रूयते । ‘यदा ह वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति’ इति वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।


‘द्वावेव मार्गौ प्रतिथावर्चिरादिर्विपश्चिताम् । धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥