ब्रह्मसूत्रभाष्यम्/C04/S02/A015
Appearance
परा(लया)धिकरणम्
ॐ तानि परे तथा ह्याह ॐ ॥ 15-518 ॥
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते ।
‘सर्वे देवाः प्राणमाविष्य देवे मुक्तालयं परमे यान्त्यचिन्त्ये’ इति कौषारवश्रुतिः ॥ 15 ॥
ॐ तानि परे तथा ह्याह ॐ ॥ 15-518 ॥