ब्रह्मसूत्रभाष्यम्/C03/S03/A064
Appearance
कामाधिकरणम्
प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इत्यत्रोच्यते-
ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ ॥ 40-405 ॥
स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोतीश्वरेच्छानुसारेण ।
‘सर्वायतना सर्वकाला सर्वेच्छा न बद्धाबन्धिका सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः ।
‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
इति ब्रह्मतर्के ॥ 40 ॥श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् ।
नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’
ॐ आदरादलोपः ॐ ॥ 41-406 ॥
अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।
इति बृहत्तन्त्रे ॥ 41 ॥‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकर्माऽपि सर्वदा ।
उपास्ते नित्यशो विष्णमेवं भक्तो हरेर्भवेत्’
ॐ उपस्थितेस्तद्वचनात् ॐ ॥ 42-407 ॥
अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥