ब्रह्मसूत्रभाष्यम्/C03/S03/A063
Appearance
सत्याद्यधिकरणम्
कृतिर्निष्ठा ज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेन्न –
ॐ सैव हि सत्यादयः ॐ ॥ 29-404 ॥
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः ।
ब्रह्मतर्के च –
‘नामादिप्राणपर्यन्ताद्योहि सत्यादिरूपवान् ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥
इति चाध्यात्मे ॥ 39 ॥‘सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यते’