ब्रह्मसूत्रभाष्यम्/C03/S03/A053
Appearance
नवाधिकरणम्
ॐ सम्बन्धादेवमन्यत्रापि ॐ ॥ 21-386 ॥
परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते।
इति ब्रह्मतन्त्रे ॥ 21 ॥‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः ।
विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः’
ॐ न वा विशेषात् ॐ ॥ 22-387 ॥
न वा ऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥
ॐ दर्शयति च ॐ ॥ 23-388 ॥
‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’ इति भाल्लवेयश्रुतिः ॥ 23 ॥