Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S03/A050

From Grantha

अन्वयाधिकरणम्

ॐ अन्वयादिति चेत् स्यादवधारणात् ॐ ॥ 18-383 ॥


सर्वगुणानामान्वय आत्म शब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’ इति वचनादिति चेत् सत्यम् । स्याच्च्यैवं । आत्मेत्येवेत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥