ब्रह्मसूत्रभाष्यम्/C03/S03/A042
Appearance
उपसंहाराधिकरणम्
सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह-
ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॐ ॥ 06-371 ॥
सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः ।
इति भाल्लवेयश्रुतिः ।
आग्नेये च-
विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।
यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥
एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः ।
योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥
समानविषये चोपसंहारः । न तु’सोऽरोदीत्’ इत्यादिनाम् ।
इति बृहत्तन्त्रे ॥ 06 ॥गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन।
गुणैरपि न तूपास्यो यो पूर्णत्वविरोधिनः’
ॐ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॐ ॥ 07-372 ॥
‘आत्मेत्येवैपासीत’ इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्य इति विशेषवचनाभावात् ।
‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’ इति विशेषवचनाच्च ।
आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥
ॐ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॐ ॥ 08-373 ॥
प्रकरणभेदान्नवोपसंहारः कार्यः । परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥
ॐ सङ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ॐ ॥ 09-374 ॥
सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नात्मवित्’ इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः ।
इति च ब्रह्मतर्के ॥‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृति ।
कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा’
इति चेत् सत्यम् । उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव ।
‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’ इति कौण्डिन्यश्रुतौ ॥ 09 ॥