Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S02/A037

From Grantha

स्थानविशेषाधिकरणम्

परानन्दमात्रत्वे कथं ब्रह्माद्यानन्दादीनां विशेष इत्यत उच्यते –


ॐ स्थानविशेषात् प्रकाशादिवत् ॐ ॥ 35-358 ॥


यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बविशेष एवमानन्दादेरपि ।



ॐ उपपत्तेश्च ॐ ॥ 36-359 ॥