Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S02/A034

From Grantha

अव्यक्ताधिकरणम्

परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते-


ॐ तदव्यक्तमाह हि ॐ ॥ 23-346 ॥


अव्यक्तमेव तद्ब्रह्म स्वतः ।



ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ 24-347 ॥


आराधनेऽप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन।



नित्याव्यक्तरूपेण तथैव तिष्ठति। व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यधाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्त एवमिति चेन्न।


ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥ 25-348 ॥


अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात्।


‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परम इति’ इति माण्डव्यश्रुतेः ।




तर्हि किं यत्नेनेत्यत आह-


ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ 26-349 ॥



नित्याव्यक्तस्य कथं प्रकाशः इत्यत उच्यते-


ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ 27-350 ॥


उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति ।


‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’ इति लिङ्गात् ।


युज्यते च तस्यानन्तशक्तित्वात् ।