ब्रह्मसूत्रभाष्यम्/C03/S02/A034
Appearance
अव्यक्ताधिकरणम्
परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते-
ॐ तदव्यक्तमाह हि ॐ ॥ 23-346 ॥
अव्यक्तमेव तद्ब्रह्म स्वतः ।
इति कौण्ठरव्यश्रुतिः ॥ 23 ॥‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्फलम्।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत्’
ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ 24-347 ॥
आराधनेऽप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन।
इति ब्रह्मवैवर्ते ॥ 24 ॥‘न तमाराधयित्वाऽपि कश्चिद्वक्तीकरिष्यति ।
नित्याव्यक्तो यतो देवः परमात्मा सनातनः’
नित्याव्यक्तरूपेण तथैव तिष्ठति। व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यधाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्त एवमिति चेन्न।
ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥ 25-348 ॥
अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात्।
‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परम इति’ इति माण्डव्यश्रुतेः ।
इति च कौर्मे ॥ 25 ॥‘अव्यक्तव्यक्तभावौ च न क्वचित् परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः’
तर्हि किं यत्नेनेत्यत आह-
ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ 26-349 ॥
इति श्रुतेः ॥ 26 ॥
नित्याव्यक्तस्य कथं प्रकाशः इत्यत उच्यते-
ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ 27-350 ॥
उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति ।
‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’
इति लिङ्गात् ।
युज्यते च तस्यानन्तशक्तित्वात् ।
इति नारायणाध्यात्मे॥27॥नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः।
तमृते परमात्मानं कः पश्येतामितं प्रभुम्’