Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S02/A030

From Grantha

उपमाधिकरणम्

ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ 18-341 ॥


यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्वेदः अतः सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा च शब्देन भेदं दर्शयति ।


‘रूपं रूपं प्रतिरूपो बभूव’।


‘बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मताः’ इत्यादि ॥


अथ एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्यधीनत्वादिना ॥ 18 ॥