Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S02/A029

From Grantha

अरूपाधिकरणम्

रूपवत्त्वादनित्यत्वमित्यतो वक्ति-


ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ 14-337 ॥


प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हि शब्दाद्’अस्थूलमनणु’ इत्यादिश्रुतेश्च ।



ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ 15-338 ॥


‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । ‘श्यामाच्चबलं प्रपद्ये’‘सुवर्णज्योतिः’ इत्यादिश्रुतीनां च न वैयर्थ्यम् । विलक्षणरूपवत्वात् । यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रकाशादिव्यवहारः ॥ 15 ॥


ॐ आह च तन्मात्रम् ॐ ॥ 16-339 ॥


वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं’ऐकात्म्यप्रत्ययसारम्’ इति ।



ॐ दर्शयति चाथो अपि स्मर्यते ॐ ॥ 17-340 ॥


दर्शयति चानन्दस्य रूपत्वं


‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’ इति ॥