Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S01/A020

From Grantha

योन्यधिकरणम्

‘देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गतः’ इति वचनात् पश्चादेव प्रविशतीत्यत आह-


ॐ योनेः शरीरम् ॐ ॥ 29-323 ॥


पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति ।



‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् । पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥


देहेन जायते जन्तुरिति सामान्यतो जनिः । विशेषजननं चापि प्रोच्यमानं निबोध मे ॥