Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S01/A011

From Grantha

अनिष्टादिकार्यधिकरणम्

पुण्याकृतामेव गमनागमने नेतरेषामित्यत आह-


ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ 13-307 ॥


‘‘तद्यइह शुभाकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयावर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’ इति भाल्लवेयश्रुतौ ॥ 13 ॥


ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥ 14-308 ॥


‘संयमनमनुभूय केषाञ्चिदारोहः केषाञ्चिदवरोहः । तुशब्दोऽवधारणे ॥


‘‘सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ह ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्यतमसि प्रपतन्ति नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद्वव्रं वा एतदित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुप्रजन्ति’ इति कौण्ठरव्यश्रुतेः ॥ 04 ॥


ॐ स्मरन्ति च ॐ ॥ 15-309 ॥


‘‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः । ‘तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ।


‘महातमसि मग्नानां न तेषामुत्थितिः क्वचित् । ‘इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ।


‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । ‘इति सर्वत्र नियमः पञ्चकष्टे तु तत् सदा’ इत्यादि ॥ 15 ॥