Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A042

From Grantha

अदृष्टाधिकरणम्

प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह –


ॐ अदृष्टनियमात् ॐ ॥ 51-269 ॥


अनादिविद्याकर्मादिवैचित्र्याद्वैचित्र्यम् ॥ 51 ॥


ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ 52-270 ॥


इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । च शब्देन प्रतिक्षणवैचित्र्यं च ॥52॥


ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ 53-271 ॥


न स्वर्गभूम्यादिप्रदेशविशेषाद्वैचित्र्यम् । तत्प्राप्तेरप्यदृष्टापेक्षत्वात्। एकदेशस्थितानामेव वैचित्र्यदर्शनाच्च ॥ 53 ॥