Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A036

From Grantha

व्यतिरेकाधिकरणम्

‘स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न शतधा’ इति गौपवनश्रुतावेकस्याबहुत्वं प्रतीयते ।


ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ 27-245 ॥


यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति । ‘अथैक एव सन् गन्धवद्व्यतिरिच्यते । अथैकीभवति। अथ बह्वीभवति ।


तं यथा यथेश्वरः कुरुते तथा भवति सोऽचिन्त्यः परमो गरीयान्’ इति शाण्डिल्यश्रुतिः ।