Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A031

From Grantha

विपर्ययाधिकरणम्

‘अत एव हीदं परात् क्रमादुत्पद्यते क्रमाद्विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते ।


ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ 14-232 ॥


क्रमवचनमपि विपरीतक्रमापेक्षया ।


‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च । यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर उच्यते’॥


इत्यत एव भाल्लवेयश्रुतिवचनात् ।



पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च ।


वामने च –


‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् । सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।


व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’ ॥ इति॥ 14 ॥