Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A030

From Grantha

तदभिध्यानाधिकरणम्

‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते –


ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ 13-231 ॥


‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्बूयश्चान्ते विश्वमायानिवृत्तिः’ इति बन्धलयस्य तदभिध्याननिमित्तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव संहारकर्ता विष्णुरिति प्रतीयते, किमु


‘यमप्येते भुवनं साम्पराये स नो हरिर्घृत मीहायुषेऽत्तु देवः’।


‘य इदं सर्वं विलापयति स हरिः परः परात्मा’ इत्यादि श्रुतिभ्यः इति एव शब्दः ।



‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालाख्यारूपिणस्तव’

इति भागवते ॥


‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एक एव हरिः परः परानन्दः’ इति च महोपनिषदि ॥ 13 ॥