ब्रह्मसूत्रभाष्यम्/C02/S03/A027
Appearance
तेजोऽधिकरणम्
ॐ तेजोऽतस्तथा ह्याह ॐ ॥ 10-228 ॥
‘वायोरग्निः’इत्यादेर्नान्यत उत्पत्तिर्ग्राह्या । अत एव परात् तदपि जायते । ‘तत् तेजोऽसृजत’ इति ह्याह । कारणत्वेनेत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात् पुनरुक्तिरुभयकारणत्वनिवृत्यर्थम् ॥ 10 ॥