ब्रह्मसूत्रभाष्यम्/C02/S02/A015
Appearance
पुरुषाश्माधिकरणम्
पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति –
ॐ पुरुषाश्मवदिति चेत् तथाऽपि ॐ ॥ 07-180 ॥
यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्चति, एवमचेतनाऽपि प्रकृतिः पुरषसम्बन्धात् प्रवर्तत इति चेन्न । ‘न ऋते त्वत्क्रियते’ इति तत्रापि तथात्वे दृष्टान्ताभावात् ॥ 07 ॥
ॐ अङ्गीत्वानुपपतेः ॐ ॥ 08-181 ॥
शरीरप्रवृत्तौपुरषस्याङ्गित्वात् ।
‘अङ्गमङ्गी समादाय यथाकार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्न ॥ 08 ॥