Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01/A004

From Grantha

असदधिकरणम्

‘असदेवेदमग्र आसीत्’’असतः सदजायत’ इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति-


ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ 08-143 ॥


प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिद्यते । सर्वशब्दानां ब्रह्मणि समन्वयेऽपि’तदधीनत्वादर्थवत्’ इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गिकारादसतः प्राप्तिः।तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते ।समयस्योपरि निषेधात् । अर्थाद्युक्तिविरोधोऽपि निराक्रियते ॥ 08 ॥


ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ 09-144 ॥


असत उत्पत्तौ प्रलयेऽपि सर्वासत्त्वमेव स्यात् ॥ 09 ॥


ॐ न तु दृष्टान्तभावात् ॐ ॥ 10-145 ॥


प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते। सत उत्पत्तिः, सशेषविनाशश्च हि लोके दृष्टः॥10 ॥


ॐ स्वपक्षदोषाच्च ॐ ॥ 11-146 ॥


दृष्टान्ताभावादेव ॥ 11 ॥


ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ॥ 12-147 ॥


एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावादुक्तादन्यथाऽप्यनुमेयमिति चेन्न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथाऽनुमेयत्वादनिर्मोक्ष प्रसङ्गः । अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यम् । नातोऽन्यच्छङ्क्यम् ।



ॐ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॐ ॥ 13-148 ॥


एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयोऽपि ।


‘अकस्माद्धीदमाविरासीदकस्मात् तिष्ठत्यकस्माल्लयमभ्युपैति’


‘प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति । प्रधाने लयमभ्येति न ह्यन्यत् कारणं मतम्’॥


‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः ।

जीवे तु लयमृच्छन्ति न जीवात् कारणं परम्’

इत्यादिश्रुतिप्राप्ता निराकृताः । यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । यत्रान्यवाचकत्वेऽप्यविरोधस्तत्रान्यदप्यमुख्यतयोच्यते, यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति नियमः ॥ 13 ॥