Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01/A003

From Grantha

अभिमान्यधिकरणम्

‘मृदब्रवीत्’’आपोऽब्रुवन्’ इत्यादिवचनाद्युक्तिविरुद्धो वेद इत्यतोऽब्रवीत् य-


ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ 06-141 ॥


मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥ 06 ॥


ॐ दृश्यते च ॐ ॥ 07-142 ॥


तासां सामर्थ्यं महद्भिः । भविष्यत्पुराणे च –


‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः।

अचिन्त्याः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ।

ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः’ इति ॥ 07 ॥