Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01

From Grantha

द्वितीयाध्याये प्रथमः पादः

स्मृत्यधिकरणम्

ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ॥ 01-136 ॥


ॐ इतरेषां चानुपलब्धेः ॐ ॥ 02-137 ॥


ॐ एतेन योगः प्रत्युक्तः ॐ ॥ 03-138 ॥


नविलक्षणत्वाधिकरणं

ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ 04-139 ॥


ॐ दृश्यते तु ॐ ॥ 05-140 ॥


अभिमान्यधिकरणम्

ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ 06-141 ॥


ॐ दृश्यते च ॐ ॥ 07-142 ॥


असदधिकरणम्

ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ 08-143 ॥


ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ 09-144 ॥


ॐ न तु दृष्टान्तभावात् ॐ ॥ 10-145 ॥


ॐ स्वपक्षदोषाच्च ॐ ॥ 11-146 ॥


ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ॥ 12-147 ॥


ॐ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॐ ॥ 13-148 ॥


भोक्त्राधिकरणम्

ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ ॥ 14-149 ॥


आरम्भणाधिकरणम्

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ 15-150 ॥


ॐ भावे चोपलब्देः ॐ ॥ 16-151 ॥


ॐ सत्वाच्चावरस्य ॐ ॥ 17-152 ॥


ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ 18-153॥


ॐ युक्तेः शब्दान्तराच्च ॐ ॥ 19-154 ॥


ॐ पटवच्च ॐ ॥ 20-155 ॥


ॐ यथा प्राणादिः ॐ ॥ 21-156 ॥


इतरव्यपदेशाधिकरणम्

ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ 22-157 ॥


ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ 23-158 ॥


ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ 24-159 ॥


ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ 25-160 ॥


ॐ देवादिवदपि लोके ॐ ॥ 26-161 ॥


ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ 27-162 ॥


शब्दमूलत्वाधिकरणं

ॐ श्रुतेस्तुशब्दमूलत्वात् ॐ ॥ 28-163 ॥


ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ 29-164 ॥


ॐ स्वपक्षदोषाच्च ॐ ॥ 30-165 ॥


ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ 31-166 ॥


ॐ विकरणत्वान्नेति चेत् तदुक्तम् ॐ ॥ 32-167 ॥


नप्रयोजनाधिकरणम्

ॐ न प्रयोजनवत्त्वात् ॐ ॥ 33-168 ॥


ॐ लोकवत्तुलीलाकैवल्यम् ॐ ॥ 34-169 ॥


वैषम्यनैर्घृण्याधिकरणम्

ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ ॥ 35-170॥


ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ 36-171 ॥


ॐ उपपद्यते चाप्युपलभ्यते च ॐ॥ 37-172 ॥


सर्वधर्मोपपत्यधिकरणम्

ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ 38-173 ॥