Jump to content

ब्रह्मसूत्रभाष्यम्/C01/S03/A019

From Grantha

द्युभ्वाधिकरणम्

तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन् पादे दर्शयति ।


ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ 01-64 ॥


‘तमेवैकं जानथ आत्मानम्’इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।


‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।


न सम्भवन्ति यस्मात् तैर्नैवाप्तागुणपूर्णता’ इति ब्रह्मवैवर्ते ॥ 1 ॥


ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ 02-65 ॥


‘अमृतस्यैष सेतुः’ इति ‘ब्रह्मविदाप्नोति परम्’,‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ ,‘मुक्तानां परमा गतिः’ ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।


‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।


योगी तावन्न मुक्तः स्यादेष शास्त्रनिर्णयः’॥ इत्यादित्यपुराणे ॥ 2 ॥


ॐ नानुमानमतच्छब्दात् ॐ ॥ 03-66 ॥


नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् ।



‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः । ईशानादेव चेशानो महैदेवो महत्त्वतः ॥


पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् । तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥


शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः । कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥


कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् । बृंहणाद्ब्रह्मनामाऽसावैश्वर्यादिन्द्र उच्यते ॥


एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः । वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।


वामने च –



स्कान्दे च –


‘ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’इति


‘चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति । उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।


विशेषनामानि ददौ स्वकीयान्यपि केशवः’इति च ब्राह्मे ॥ 3 ॥


ॐ प्राणभृच्च ॐ ॥ 04-67 ॥


एतैरेव हेतुभिर्न जीवो वायुश्च । ‘अजायमानो बहुधा विजायत’ इति तस्यैव बहुधा जन्मोक्तेः ॥ 04॥


ॐ भेदव्यपदेशात् ॐ ॥ 05-68 ॥


न चैक्यं वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ इति भेदव्यपदेशात् ॥ 05 ॥


ॐ प्रकरणात् ॐ ॥ 06-69 ॥


‘द्वे विद्ये वेदितव्ये’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥


ॐ स्थित्यदनाभ्यां च ॐ ॥ 07-70 ॥


‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्यो अभिचाकशीति’

इति ईशजीवयोः स्धित्यदनोक्तेः ॥ 07 ॥