Jump to content

ब्रह्मसूत्रभाष्यम्/C01/S02/A014

From Grantha

गुहाधिकरणम्

सर्वात्रैकः परः उक्तः ।


ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ 11-42 ॥


गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।


‘घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम’ इत्यादिना तद्दर्शनात् ।




‘यो वेद निहितं गुहायाम्’ इत्यादिना प्रसिद्धं हिशब्देन दर्शयति ॥ 11 ॥


ॐ विशेषणाच्च ॐ ॥ 12-43 ॥


‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’ इति ।


‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥


एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’ ॥ इति पाद्मे ।


न च जीवे समन्वयोऽभिधीयते ।


‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इति भाल्लवेयश्रुतिः ।


‘आत्मा हि परमः स्वतन्त्रोऽधिगुणो ऽऽल्पशक्तिरस्वातन्त्रोऽवरः’ इति च भाल्लवेयश्रुतिः ।


‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् । एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥


‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’


इत्यदेर्नासत्यो भेदः ॥ 12 ॥