ब्रह्मसूत्रभाष्यम्/C04/S04/A034
Appearance
स्थित्य(एकरूपा)धिकरणम्
ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ 21-562 ॥
‘एतत् साम गायन्नास्ते’ इत्युच्यते ।तत्रानन्दादीनां वृद्धिर्ह्रासश्च न विद्यते। एकप्रकारेणैव सर्वदा स्थितिः ।
‘स एष एतस्मिन् ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवात्मानं तस्यैवं दर्शयतो नापत्तिर्न विपत्तिः’ इत्याह जाबालश्रुतौ ।
विद्वत्प्रत्यक्षात् कारणभावल्लिङ्गाच्च । ब्रह्मवैवर्ते च –
‘न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् ।
विद्वत्प्रत्यक्षसिद्धत्वात् कारणाभावतोऽनुमा ॥
हरेरुपासना चात्र सदैव सुखरूपिणी ।
न तु साधनभूता सा सिद्धिरेवात्र सा यतः’ इति ॥ 21 ॥
ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥ 22-563 ॥
न च भोगविशेषादिविरोधः ।‘एतमानन्दमयमात्मानमनुविश्य न जायते न म्रियते न ह्रसते न वर्धते यथाकामं चरति यथाकामं पिबति यथाकामं रमते यथाकाममुपरमते’
इति भोगमात्रसाम्यलिङ्गात् ।
‘प्रवाहतस्तुवृद्धिर्वा ह्रासो वा नैव कुत्रचित् ।
नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ॥
|इति नारायणतन्त्रे ॥ 22 ॥कुत एव तु दुःखं स्यात् सुखमेव सदोदितम् । भोगानां तु विशेषे तु वैचित्र्यं लभ्यते क्वचित्’