Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S03/A021

From Grantha

तटिदधिकरणम्

ॐ तटितोऽधिवरुणः सम्बन्धात् ॐ ॥ 03-528 ॥




‘तत्र तटितो वरुणं गच्छति । तटिता ह्यूह्यते वरुणलोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति’ इत्युपरिसम्बबन्धश्रुतेः ॥ 03 ॥