ब्रह्मसूत्रभाष्यम्/C04/S02/A016
अविभागाधिकरणम्
ॐ अविभागो वचनात् ॐ ॥ 16-519 ॥
‘एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथानिकाममन्तर्बहिः परिचरन्ति’ इति गौपवनश्रुतिः ।
तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् ।
‘कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः’ इति वचनात् ।