Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S02/A027

From Grantha

सम्पत्त्यधिकरणम्

ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ 10-333 ॥


मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।


‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥



सोऽपि तत एवेति सिद्धम् ।